वैशेषिकदर्शनम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
हिन्दुधर्मःOm.svg

हिन्दुधर्मःइतिहासः

Portal:HinduismHinduSwastika.svg

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

वैशेषिकदर्शनं(Vaiśeṣika) भारतीयदर्शनेषु अन्यतमम् । सकलदर्शनापेक्षया वैशेषिकदर्शनं प्राचीनम् । दर्शनमेतत् सर्वशास्त्रोपकारकम् अस्ति। एतस्य दर्शनस्य प्रवर्तकः कणादः। कश्यपवंशोत्पन्नः एषः 'काश्यपः' इत्यपि ख्यातः । अयं तु स्वजीवननिर्वाहं कुर्वन् ज्ञानभण्डारात्मकमेतच्छास्त्रं रचितवान् । एतच्छास्त्रं न केवलं भारतदेशे, अपि तु सर्वत्र प्रपञ्चे विराजते । महात्मा कणादः प्रकृत्या स्वयं दरिद्रः सन् क्षेत्रे पतितानन्नकणान् भुक्त्वा स्वजीवननिर्वाहं कृतवान् इत्यतः अस्य शास्त्रस्य ’कणादशास्त्रम्’ इति व्यवहारः । अन्यदपि नाम शास्त्रस्यास्य भवति वैशेषिकदर्श्नमिति । यतः अस्मिन् दर्शने विशेषाख्यः कश्चित् पदार्थः स्वीक्रियते । कणादात् ऋते केनापि पदार्थत्वेन विशेषः न स्वीक्रियतॆ । दर्शनस्यास्य अपरं नाम औलूक्यदर्शनम् इति । यतः कणादस्य पितुर्नाम भवति उलूकऋषिरिति । उलूकस्यापत्यम् औलूक्यम् । गौतममतानुसारं कणादेनापि षोडशप्रमाण-प्रमेयादिपदार्थाः स्वीक्रियन्ते । एतेषां तत्त्वज्ञानेन मोक्षः सिध्यति । द्रव्यगुणादीनामत्यन्तं सुव्यवस्थितं रूपम् एतेषां साधर्म्यवैधर्म्याभ्यां विशिष्टं वर्णनं यथा कणादेन कृतं तथा अन्यस्मिन् दर्शने न मिलति । अनेनापि विशेषेण अस्य दर्शनस्य वैशेषिकदर्शनम् इति संज्ञा । अस्य वैशेषिक नामकरणस्य यद्यपि विदुषां प्रतिपादितानि बहूनि कारणानि विद्यन्ते तथापि विशेषाभिधस्य पदार्थस्य प्रतिपादनादिदं दर्शनं वैशेषिकमित्युच्यते । बौद्धग्रन्थैर्विज्ञायते यत् जैनबौद्धदर्शनयोः उदयात् पूर्वमपि इदं दर्शनं सुप्रचलितम् आसीत् । जैनतत्त्वमीमांसाया आधारस्तु वैशेषिकोक्तेषु पदार्थेष्वेवाश्रितः प्रतीयते । एतद्दर्शनचिन्तनस्य न्यायदर्शनचिन्तनस्य च विशेषभेदः न दृश्यते। लोके स्थिताः पदार्थाः सप्तधा विभक्ता अत्र । एतस्य दर्शनस्य मुख्यं प्रतिपाद्यं निःश्रेयससिद्धिः (मोक्षः)। पदार्थाः निःश्रेयससाधनभूताः ।

इतिहासः[सम्पादयतु]

वैशेषिकसूत्राणि वैशेषिकदर्शनस्य आधारभूतानि मुख्यानि भवन्ति । कणादः एव सूत्रकारः भवति । एषः बौद्धमतस्य अपेक्षया पूर्वम् आसीत् इति इतिहासविदाम् अभिप्रायः । प्रशस्तपादः वैशेषिकसूत्राणां भाष्यं लिखितवान् । एतेषां सूत्राणां रावणभाष्यम् भारद्वाजवृत्तिः च नामके द्वे व्याख्याने भवतः । रावणभाष्यस्य व्योमशेखराचार्येण रचितं ’व्योमवती’ नामकं व्याख्यानं विद्यते । प्रशस्तपादभाष्यस्य श्रीधरेण रचितं ’न्यायकन्दली’ नामकं व्याख्यानं विद्यते । उदयनेन रचितं किरणावली नामकं व्याख्यानं विद्यते । एवं श्रीवत्साचार्येण रचितं ’लीलावती’ नामकं व्याख्यानं विद्यते । प्रशस्तपादभाष्यस्य शङ्करमिश्रेण रचितं ’कणादरहस्यम्’ नामकं व्याख्यानं विद्यते । एवं जगदीशभट्टेन रचितं ’भाष्यासूक्तिः’ नामकं व्याख्यानं विद्यते ।

न्यायवैशेषिकदर्शने दर्शनान्तराणाम् आधारभूते स्तः । एतयोः दर्शनयोः तर्कशास्त्रम् इति एकेन नामेन अपि व्यवहारः लोके दरीदृश्यते । एतयोः दर्शनयोः अध्ययनेन अन्येषां दर्शनानाम् अध्ययनं सुलभं सरलं इति । भारतीयदर्शनानाम् अनेकासु शाखासु न्यायवैशेषिकदर्शने प्रमाणत्वेन निर्दिश्येते । हेतुवादं पुरस्कृत्य इमे दर्शने प्रवृत्ते इत्यतः, एतयोः दर्शनयोः हेतुशास्त्रम् इत्यपि व्यवहारः दृश्यते । वैशेषिकदर्शनं प्रमेयशास्त्रम् इत्यपि व्यवहारन्ति । समानतन्त्रे दर्शने भवत: ।

ग्रन्थरचनायाः प्रक्रिया[सम्पादयतु]

ग्रन्थरचने अस्मिन् कणादेन प्रक्रियारूपः त्रिविधः स्वीकृतः, उद्देश्यम्, लक्षणम्, परीक्षा चेति । एवं प्रत्येकविषयप्रतिपादनावसरे प्रथमतः विषयस्य उद्देश्यम् प्रतिपाद्य तदनु तस्य लक्षणमुपन्यस्य अन्ते विषयपरीक्षा क्रियते । उद्देशस्य तात्पर्यमेवं भवति यत् नाममात्रेण वस्तुसंकीर्तनम् । यथा, द्रव्यगुणादयः समवायान्ताः षट् पदार्थाः इति एवं पदार्थानां नाममात्रेण निर्देशनस्य उद्देश्यम् इति व्यवहारः । पदार्थानां सामान्यज्ञानसम्पादनमुद्देशस्य फलं भवति । असाधारणधर्मस्य नाम लक्षणमिति । यथा, गन्धवती पृथिवी इत्यत्र पृथिव्याः असाधारणधर्मः यः गन्धः तेन लक्षणेन पृथिवी साधिता भवति । अनेन एतदपि प्रयोजनं यत् इयं पृथिवी इतरपदार्थेभ्यः भिन्ना इति ज्ञानसम्पादनम् । लक्षितलक्षैकपदार्थे लक्षणं युक्तं भवति वा न वेति यः विचारः उदेति सा परिक्षा इत्युच्यते । अस्याः दोषपरिहार एव परीक्षायाः फलम् । वैशेषिकशास्त्रप्रणाली तर्कसङ्ग्रहेण सम्यगधीता भवति ।

वैशेषिकदर्शनस्य तत्त्वमीमांसा[सम्पादयतु]

वैशेषिकदर्शने षट् पदार्थाः परिणिताः सन्ति । किन्तु कालान्तरे वैशेषिकशास्त्रप्रणेतृभिराचार्यैः अभावमपि पदार्थत्वरूपेण परिगणनं कृत्वा, सप्तपदार्थानां विवेचनमेव वैशेषिकदर्शनस्य प्रतिपाद्यविषय इति निर्धारितम् । यद्यपि प्राचीनैः द्रव्य-गुण-कर्म-सामान्य-विशेष-समवायानां षण्णां भावपदार्थानामेव नामानि विनिर्दिश्य अभावो निरस्तस्तथापि परवर्त्तिभिराचार्यैः अभावमपि पदार्थेषु संयोज्य नैयायिकैः सह स्वकीयं सामञ्जस्यं प्रदर्शितम् ।

पदार्थाः[सम्पादयतु]

पदस्यार्थः पदार्थो भवति । अर्थात् यस्मिन् ज्ञेयत्वम् अभिधेयत्वं च स्यात् तत् पदार्थसंज्ञं भवति । अनया व्युत्पत्त्या जगतः सर्वे पदार्थाः न्यायवैशेषिकप्रतिपादितेषु सप्तसु पदार्थेषु अन्तर्भवन्ति । स्थूलदृष्ट्या पदार्थस्य वर्गीकरणं कोटिद्वये कृतम् । तदनुसारेण केचन पदार्था भावपदार्था वर्तन्ते । अन्योऽभाव पदार्थोऽप्यस्ति । भावपदार्थाः षड् भवन्ति (१) द्रव्यम् (२) गुणाः (३) कर्माणि (४) समवायः (५) सामान्यं (६) विशेषः च इति । अभावस्तु चतुर्धा निरूपितः (१) प्रागभावः (२) प्रध्वंसाभावः (३) अन्योन्याभावः (४) अत्यन्ताभावश्च

द्रव्याणि[सम्पादयतु]

समवायिकारणं द्रव्यं भवति । नैयायिकैस्तु गुणाश्रयं द्रव्यमिति द्रव्यलक्षणमुक्तम् । नवद्रव्याणि भवन्ति, यथा-(१) पृथिवी (२) जलम् (३) तेजः (४) वायुः (५) आकाशः (६) कालः (७) दिक् (८) आत्मा (९) मनश्चेति । एषु नवद्रव्येषु आद्यानि पञ्चद्रव्याणि महाभूतानीति उच्यन्ते । एषु अन्तिमानि पञ्चद्रव्याणि नित्यद्रव्याणि सन्ति । तदतिरिक्तानि चानित्यद्रव्याणि । सर्वेषां द्रव्याणां प्रधानगुणाः निर्धारिताः-गन्धवती पृथिवी, रसवत् जलम्, रूपवत् तेजः, स्पर्शवान् वायुः, शब्दवान् आकाशः । आकाशे केवलं शब्दाख्यः गुणो भवति, वायौ शब्दस्पर्शौ वर्तेते, तत्र स्पर्शस्य प्राधान्यम् । तेजसि शब्द-स्पर्शरूपाणि भवन्ति, किन्तु रूपस्य प्राधान्यं भवति । जले शब्द-रूप-रसा भवन्ति, तत्र रसः प्रधानः । एवं पृथिव्यां शब्द-स्पर्श-रूप-रस-गन्धाश्चेति पञ्च गुणानां सत्त्वेऽपि गन्धस्यैव प्राधान्यं तत्र ।

वैशेषिकदर्शनं परमाणुवादी वर्तते । अतः तन्मतानुसारेण सृष्टिक्रमः परमाणुभ्य प्रारभ्यते । अनया दृष्ट्या महाभूतानि नित्यानित्यभेदेन द्वेधा विभज्यन्ते । कारणरूपेण सर्वाणि नित्यानि भवन्ति किन्तु कार्यरूपेण सर्वाणि अनित्यानि भवन्ति । अनित्यानां पुनः शरीरेन्द्रिय विषयभेदात् त्रैविध्यमपि प्रतिपादितमस्ति । दिक्कालौ नित्यद्रव्ये, विभू चेति मन्येते । उपाधिभेदात् व्यवहारे कालस्य त्रयो भेदा उक्ताः-वर्तमानः भूतः भविष्यच्च । एवमेव दिशोऽपि भेदा निगदिताः प्राची, अवाची, उदीचीः, दक्षिणा चेति ।

आत्मविचारः[सम्पादयतु]

प्राणिनि विविधाः चेष्टाः, क्रियाश्चावलोक्यन्त इति तत्र चित्–चेतनतत्त्वयोराभासः स्वत एव जायते । नेत्रलोम्नां पक्ष्मोत्क्षेपणक्रिया, श्वासप्रश्वासयोः प्रक्रिया चापि शरीरे चैतन्यतत्त्वस्य उपस्थितिं सूचयतः । ततश्च शारीरिकक्रियाणां कश्चित् नियन्ता अवश्यं भवेत् इति विचारः उद्भवति । कः मनः प्रेरयति? इति प्रश्नोऽपि चैत-न्यमेव सूचयति । अतएव वैशेषिकशास्त्रे आत्मनोऽस्तित्वं स्वीकृतम्, यतोहि लौकिकसुखदुःखादिभावानाम् आश्रयरूपि द्रव्य-म् आत्मैव भविंतु शक्नोति । आत्मनः विषये इह दर्शने अवधारणाऽस्ति यत् ‘आत्मतत्त्वम्’ अनेकमिति । अन्यथा संसारे दृश्यमानस्य नानात्वस्य संगतिरेव न स्यात् । आत्मनः एकत्वे वैषम्यादीनामभाव एव स्यात् । अवस्थाविशेषे एकस्मिन् शरीरे अनेकेषां भावानाम् उदये यद्यपि अवस्थाविशेष एव कारणं भवति, तथापि एकस्मिन्नेव काले कश्चित् सुखी, कश्चित् दुःखी, कश्चित् तटस्थश्चाव-लोक्यते । एकस्मिन् काले एकस्यैवात्मनः अवस्थाभेदः कथमुपपद्येत इति विचार्य वैशेषिकाचार्यैरुक्तं यत् आत्मा प्रतिशरीरं भिद्यते इति । किन्तु पारमार्थिकदृष्ट्या आत्मा अथवा ईश्वरो वा एक एव । शरीरातिरिक्तं आत्मतत्वमस्तीति साधयिंतु वैशेषिकदर्शने इन्द्रियात्मवादस्य, आत्ममनोवादस्य च खण्डनं कृतम् ।

मनस्तत्त्वनिरूपणम्[सम्पादयतु]

आत्मनि सुखदुःखयोरनुभवस्य साधनं मन एव भवति । यद्यपि ज्ञानस्य साधनानाम् इन्द्रियाणां तद्विषयाणाम् आत्मनश्चास्तित्वमस्ति तथापि मनसा विना किञ्चिदपि ज्ञानं नोत्पद्यते । यथा बाह्यविषयाणां ज्ञानं बाह्येन्द्रियैः सम्भवति तथैव सुखदुःखादि सदृशानाम् आन्तरविषयाणां ज्ञानम् अन्तरिन्द्रियेण मनसा एव जायते । ज्ञानस्य असाधरणकार-णरया मनस अपह्नवोऽपि सम्भवो नास्ति । मनः अपि आत्मवत् प्रतिशरीरं भिन्नम् । क्रियाकारितायाः कारणात् इदं सूक्ष्ममपि मूर्तद्रव्यमस्ति । इदम् अणु-परिमाणं वर्तते । मनसः इदम् अणुत्वं विविधानां ज्ञानानाम् एककालावच्छेदेन उत्पत्तिं निषेधयति । अतएव ज्ञानस्य काले अणुतुल्यस्य मनसः सम्बद्धैरिन्द्रियैः संयोगे सत्येव ज्ञानोत्पत्तिर्जायते ।

गुणनिरूपणम्[सम्पादयतु]

द्रव्येषु समवायसम्बन्धेन विद्यमानः पदार्थो गुणः कथ्यते । गुणाः द्रव्येषु एव वर्तन्ते । अतएव द्रव्यातिरिक्तं गुणानां सत्ता नास्ति । महर्षिणा कणादेन त्रयोविंशतिगुणानाम् उल्लेखो विहितः। एषु त्रयोविंशति गुणेषु सप्तदश सामान्यगुणाः सन्ति षट् च विशिष्टगुणाः वर्तन्ते । (१) रूपम् (२) रसः (३) गन्धः (४)स्पर्शः (५) संख्या (६) परिमाणः (७) पृथक्त्वम् (८) संयोगः (९) विभागः (१०) परत्वम् (११) अपरत्वम् (१२) बुद्धिः (१३) सुखम् (१४) दुःखम् (१५) इच्छा (१६) द्वेषः (१७) प्रयत्नः (१८) गुरुत्वम् (१९) स्नेहः (२०) संस्कारः (२१) शब्दः (२२) धर्मः (२३) अधर्मः च । बुद्धि, सुख, दुःख, इच्छा, द्वेष, प्रयत्नाः विशेषगुणाः सम्प्रोक्ताः ।

कर्माणि[सम्पादयतु]

गुणभिन्नं द्रव्ये समवायसम्बन्धेन विद्यमानं बाह्यपदार्थं कर्म इति कथ्यते । क्रिया एव कर्म इत्यापि केचन ब्रुवन्ति । कर्माणि पञ्च सन्ति-(१) उत्क्षेपणम् (२) अपक्षेपणम् (३) आकुञ्चनम् (४) प्रसारणम् (५) गमनम् चेति । एतदतिरिक्तं पक्षिणां तिर्यग्गमनं, भ्रमणं, रेचनं, स्पन्दनमित्यादयः याः क्रियाः तासां सर्वासामपि गमने एवान्तर्भावः ।

सामान्यम्[सम्पादयतु]

नित्यः, अनेकपदार्थेषु समवायसम्बन्धेन यस्तिष्ठति सः सामान्यख्यः पदार्थः । सामान्यमेव जातिरिति प्रोच्यते । यथा गोषु गोत्वम्,मनुष्येषु मनुष्यत्वम् । जातिर्नित्या भवति, अतः नश्यत्स्वपि बहुषु गोषु गोत्वस्य नाशः नैव जायते । अर्थात् एकस्मिन् एव गोव्यक्तौ गोत्वं न भवति, अपितु सर्वेषु गोषु गोत्वं विद्यमानं भवति । द्रव्यगुणकर्मसु सामान्यस्य उपस्थितिः द्रष्टुं शक्यते । सामान्यस्य भेदद्वयमभिहितं न्यायदर्शने, वैशेषिकदर्शने च । यथा-परसामान्यम् अपरसामान्यं च । अधिकदेशस्थं परसामान्यं, अल्पदेशीयञ्च अपरसामान्यमिति तत्र भेदोऽवगन्तव्यः ।

विशेषः[सम्पादयतु]

द्रव्याणामन्तिमे भागे, नित्यद्रव्येषु च वर्तमानः पदार्थः विशेष इति जेगीयते । नित्यद्रव्येषु परस्परं भेदः विशेषाख्यपदार्थेन सिध्यति । अतः विशेषः सामान्यानां भेदकः । किञ्चायमनन्तोऽपि ।

समवायः[सम्पादयतु]

अविनाभावसम्बन्धः समवायो भवति । द्वयोः पदार्थयोः एकं विना अन्यस्य सत्ता न स्यादित्याकारिकया अपेक्षया सापेक्षोऽयं सम्बन्धः । १) अवयवावयविनोः (२) गुणगुणिनोः (३) क्रियाक्रियावतोः (४) जातिव्यक्त्योः (५) विशेषनित्यद्रव्ययोः सम्बन्धः समवायः ।

अभावः[सम्पादयतु]

भावपदार्थस्य विनाशे सत्ययमभावः उत्पद्यते । अभावस्य चत्वारो भेदाः पूर्वमुक्ताः । तत्र कार्योत्पत्तेः पूर्वं पदार्थ-स्य प्रागभावो भवति । कार्योत्पत्तेरन्तरं तस्य विनाशः प्रध्वंसाभावो भवति । एकस्य पदार्थस्य अभावे सति अपरपदार्थस्यापि यः अभावः सः अन्योन्याभावः । पदार्थस्य त्रैकालिकोऽभावः अत्यन्ताभावः । न्यायशास्त्रस्य षोडशपदार्थाः एषु सप्तस्वेवान्तर्भवन्तीति वैशेषिकाः ।

द्वित्वादिसंख्याविचारः[सम्पादयतु]

द्वित्वादिसंख्यासु वैशेषिकाणां विशेषाग्रहः दृश्यते । विषयममुमधिकृत्य आचार्येण लिखतं यथा -

द्वित्वे च पाकजोत्पत्तौ विभागे च विभागजे ।
यस्य न स्खलिता प्रज्ञा तं वै वैशेषिकं विदुः॥ इति

अन्यच्च-

आदाविन्द्रियसन्निकर्षघटनादेकत्वसामान्यधीः
एकत्वोभयगोचरामतिरतो द्वित्वं ततो जायते ॥
द्वित्वत्वप्रमितिस्ततोऽनुपरतो द्वित्वप्रमानन्तरं
द्वे द्रव्ये इति धीरियं निगदिता द्वित्वोदयप्रक्रिया॥ इति,

आभ्यां श्लोकाभ्यां द्वित्वादीनामुत्पत्तिप्रकारः सम्यगाम्नातः भवति ।


पीलुपाकविचारः[सम्पादयतु]

दर्शने अस्मिन् पीलुपाकः न्याये तु पिठरपाकः इति पाकद्वयं पदार्थेषु स्वीक्रियते । अस्य पीलुपाकस्य स्वरूपमेवं भवति यथा - पक्वपरमाणूनां संयोगेन द्व्यणुकोत्पत्तिः, द्व्यणुकादिक्रमेण अवयवीभूतस्य महत्पदार्थस्योत्पत्तिर्भवति । यथा, यत्र घटे तेजसः अतिशयवेगकरणेन झटिति पूर्वव्यूहस्य नाशः, व्यूहान्तरस्योत्पत्तिश्चेति तत्र पीलुपाकः स्वीक्रियते । अत्र घटदृष्टान्ते पाकक्रियायाः सूक्षतरकालस्य आकलनं न भवतीत्यतः पूर्वघटस्य नाशः न लक्षितो भवति । इयं वैशेषिकाणां पीलुपाकप्रक्रिया भवति ।

पिठरपाकविचारः[सम्पादयतु]

नैयायिकाभ्युपगता या पाकप्रक्रिया सा पिठरपाकप्रक्रिया भवति । पिण्डभूतघटादीनामवयव्याः नाम पिठरः इति । अस्मिन् मते तेजसः संयोगानन्तरमपि अवयवानां नाशः न भवति । अवयवसम्बन्धेन अवयविनि कश्चन पाकः भविष्यति । अर्थात् वैशेषिकमतानुसारं घटे अग्नि संयोगेन परमाणूनां विभागः एवं पूर्वं वर्तमानायाः श्यामरूपायाः नाशः, अनन्तरं तस्मिन् घटे रक्तवर्णस्योत्पत्तिपर्यन्तं नवानां दशानां वा क्षणानां कालः अपेक्षितः अस्ति । नैयायिकमतानुसारमयं क्रमः न भवति । यतो हि एकस्मिन्नेव काले घटे अग्निसंयोगेन पूर्वरूपस्य नाशः, रूपान्तरस्योत्पत्तिः भवतीति तैः स्वीक्रियते । अवयवानां विभागः न भवति, अपि तु अवयवयुक्तावयविनि घटे एककालेनैव पूर्वरूपस्य श्यामत्वस्य नाशः, अनन्तरक्षणे एव रूपान्तरस्य रक्तत्वस्योत्पत्तिः इत्ययं क्रमः तैः स्वीक्रियते । अयमेव पिठरपाकः इत्युच्यते । भवति चैवं पाकद्वयस्य विवेचनम् ।

विशेषविचारः[सम्पादयतु]

अन्योन्याभावविरोधी सामान्यभिन्नसमवेतसमवायसम्बन्धेन नित्यद्रव्येषु वर्तमानत्वं विशेषवत्त्वमिति । द्रव्यगुणकर्माणि सामान्यं विना न तिष्ठन्तीत्यतः तद्व्यावृत्तये सामान्यभिन्नमिति विशेषणम् । द्रव्यत्वादयः सामान्ययुक्ताः भविष्यन्ति तथा समवेतमिति तिदलेन समवायस्य व्यावृत्तिः । अर्थात् न कुत्रापि समवायः समवायसम्बन्धेन तिष्ठति । अन्योन्याभावविरोधी इति दलेन समवायान्तरस्वीकरणेन अनवस्थादोषः प्रसज्यते । दोषोऽयं विशेषे न भवति, यतः यदि विशेषत्वं रूपं सामान्येन स्वीक्रियते तदा विशेषे विशेषत्वाभावः इति सिध्यति । सत्येवं रूपहानिदोषः स्यात् । अत एव न्यायसिद्धान्तमुक्तावलीकारः एवं लिखति -

व्यक्तेरभेदस्तुल्यत्वं संकरोऽथानवस्थितिः ।
रूपहानिरसम्बन्धो जातिबाधकसंग्रहः ॥ इति


वैशेषिकदर्शनस्य आचार्यपरम्परा[सम्पादयतु]

बाह्यानुबन्धाः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=वैशेषिकदर्शनम्&oldid=267249" इत्यस्माद् पुनः प्राप्तिः