सामग्री पर जाएँ

श्रीहर्षः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

श्रीहर्षः स्वसमयस्य प्रकृष्टपण्डितो महाकविः कान्यकुब्जेश्वरस्य गहडवालवंश्यस्य गोविन्दचन्द्रप्रपौत्रस्य विजयचन्द्रपुत्रस्य जयचन्द्रस्य १२२५-१२५२ मितवैक्रमाब्दानभितः शासतः सभापण्डित असीदिति तस्यैव कथनम् - 'ताम्बूलद्वैतर्यमासतञ्च लभते यः कान्यकुब्जेश्वरात्' इति। तदा काशीषु कान्यकुब्जेषु च गढवालवंश्यानां नृपाणां शासनमासीत् । तस्य शासनकालः ११६१ मितवैक्रमादाब्दतः १२१२ यावदासीत् । तदनु तस्यात्मजो विजयचन्द्रः १२१२ तः १२२५ यावत् तस्य पुत्रो जयचन्द्रः १२२५ तः १२५२ मितवैक्रमाब्दान् यावत् काशी-कान्यकुब्जांश्च अशासतामित्यैतिहासिकानां मतम् । श्रीहर्षस्य पिता हीरो गोविन्दचन्द्रस्य सभापण्डित आसीत्, श्रीहर्षश्च प्रथमं विजयचन्द्रस्य तदनु जयचन्द्रस्य च सभापण्डित आसीत्।

कथ्यते श्रीहर्षस्य पिता हीरो गोविन्दचन्द्रस्य सभाध्यक्ष आसीत् । एकदा स नैयायिकेन उदयनाचार्येण वादाहवे पराजितः सन् तेनावस्तदेन खिन्नमनाः अकाले एव पञ्चत्वं गतः । तदा श्रीहर्षो बाल एवासीत् । म्रियमाणः पिता बालमपि स्वपुत्रं स्वप्रतिपक्षिपराजयेन तं सन्तोषयितुमुपदिष्टवान् । तमेवोपदेशं हृदि कृत्वा सरस्वती सेवायां सततसंलग्नः श्रीहर्षः काले स्वपितुः प्रतिपक्षिणमुदयनाचार्यं वादाहवे पराजित्य स्वेर्गतं पितरमप्रीणत् । तदा विजयचन्द्रः सत्तासीनः आसीत्। तस्य विद्वत्तया सोऽतीव्रप्रभावितोऽभवत् । तत्प्रस्तुतं पद्यमित्थं स्मर्यते राजसभायाम् -

गोविन्दनन्दनतया च वपुःश्रिया च, मास्मिन्नृपे कुरुत कामधिय तरुण्यः।

अस्त्रीकरोति जगतां विजये स्मरः स्त्रीरस्त्रीजनः पुनरनेन विधीयते स्त्रीः ।। इति ।

अस्यैव विजयचन्द्रस्य प्रशंसायां श्रीहर्षः विजयप्रशस्तिनामकं ग्रन्थं प्रणीतवान् । विजयचन्द्र एव स्वजीवनोत्तरार्द्धं कान्यकुब्जेऽयापयत् । तेनैव सह श्रीहर्षोऽपि वाराणसीतः कान्यकुब्जमगात् । एतत्पूर्वमेव तेन खण्डनखण्डखाद्याख्यो ग्रन्थः प्रणीत आसीत् । श्रीहर्षेण विद्याऽध्ययनकाले विशेषतो न्यायदर्शनाध्ययनाय कानिचिद्वर्षाणि वङ्गदेशे यापितानि । तदा स वङ्गेश्वरेणार्थादिनानुगृहीत आसीत् । तदर्थं प्रत्युपकारसमर्पणाय स गौडोवींशकुलप्रशस्तिसंज्ञकं ग्रन्थं प्रणीतवानासीत् । एवमेव कस्यचिदन्यस्यापि तथाकरणाय हिन्दप्रशस्तिसंज्ञको ग्रन्थोऽप्यनेन प्राणायि । १२२५ मितवैक्रमाब्दे विजयचन्द्रः स्वर्गतः । तदनु लब्धराज्यो जयचन्द्रोऽपि श्रीहर्षं तथैव सममानयत् । सोऽपि तत्प्रशंसतामेव नवसाहसाङ्कचरितचम्पूं प्राणयत् । जयचन्द्रोऽपि धारानगरीशभोज इव नवसाहसाङ्कोपाधि धृतवानासीत् । एवमेव अर्णवर्णनं, शिवशक्तिसिद्धिः, स्थैर्यविचारणप्रकरणं, ईश्वराभिसन्धिः, द्विरूपकोशश्च तत्प्रणीता इतरे ग्रन्थाः।

स्वकाव्यविषये कविः स्वयमेव कथयति -

ग्रन्थग्रन्थिरिह क्वचित्क्वचिदपि न्यासो प्रयत्नान्मया

प्राज्ञम्मन्यमनी हठेन पठितो माऽस्मिन् खलः खेलतु ।

श्रद्धाराद्धगुरुः श्लथीकृतदृढग्रन्थिः समासादय-

स्त्वेतत्काव्यरसोर्मिमज्जनसुखव्यासज्जनं सज्जनः ॥ इति ।

तदेतत् -

आदौ कविः कालिदासोऽश्वघोषस्तु ततः परम्।

ततः कुमारदासोऽथ भारविर्भट्टिरेव च ।।

माघो रत्नाकरः सिद्धो हरिश्चन्द्रस्तथैव च।

कविराजश्व श्रीहर्षः प्रख्याताः कवयो दश ।। इति कविदशकं व्याख्यातम्।

परिचयः

[सम्पादयतु]

‘सद्यः परनिर्वृत्तये कान्तासम्मिततयोपदेशयुजे’ इति काव्यस्य ख्यातिः अस्ति। काव्येषु पञ्चमहाकाव्यानि प्रसिद्धानि। पञ्चमहाकाव्येषु अन्यतमस्य नैषधीयचरितस्य प्रणेता श्रीहर्षः अस्ति। सः कविः श्रीहीरपण्डितान्मामल्लदेव्यां समजनीति तस्य काव्यस्य प्रतिसर्गस्य समाप्तिश्लोकतः ज्ञायते।

श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं
श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम्।
तच्चिन्तामणिमन्त्रचिन्तनफले श्रृङ्गारभङ्ग्या महा-
काव्ये चारुणि नैषधीयचरिते सर्गोऽयमादिर्गतः ।।

श्रीहर्षः कन्याकुब्जस्य नृपस्य विजयचन्द्रस्य आस्थानविद्वान् आसीत् । विजयचन्द्रस्य पुत्रस्य जयन्तचन्द्रस्य आस्थाने अपि सः आसीत् इति श्रूयते । तस्य पिता श्रीहरिः । माता मामल्लदेवी । श्रीहर्षः द्वादशशतके आसीत् । तर्कव्याकरणवेदान्तादिषु शास्त्रेषु श्रीहर्षः उद्दामपण्डितः । सर्वाणि अपि पुराणानि सः सम्यक् जानाति स्म ।

नायं राजा हर्षवर्धनः

तेन रचितं महाकाव्यम्

[सम्पादयतु]

श्रीहर्षेण रचितं महाकाव्यं नैषधीयचरितम् । नलदमयन्त्योः कथा अत्र वर्णिता अस्ति । श्रीहर्षस्य भाषा अत्यन्तं प्रौढा । शब्दकर्कशता, दूरुह्या कल्पना, अर्थक्लिष्टता, श्लेषप्रियता च नैषधीयचरिते सर्वत्र दृश्यते ।

अन्ये ग्रन्थाः

[सम्पादयतु]

श्रीहर्षः अन्यान् अपि कांश्चित् ग्रन्थान् लिखितवान् इति उल्लेखः दृश्यते । ते -

  1. खण्डनखाद्यम्
  2. अर्णववर्णनम्
  3. गौडोर्विकुलप्रशस्तिः चण्डीप्रशस्तिश्च
  4. शिवभक्तिसिद्धिः
  5. साहसाङ्कचरितचम्पू

परन्तु ते सर्वे न उपलभ्यन्ते । खण्डनखण्डखाद्यम् इति एकः ग्रन्थः उपलभ्यते । तस्मिन् ग्रन्थे तार्किकमतस्य खण्डनं कृतं दृश्यते ।

"https://sa.wikipedia.org/w/index.php?title=श्रीहर्षः&oldid=444001" इत्यस्माद् प्रतिप्राप्तम्