उदयनाचार्यः
उदयनाचार्यः दर्शनशास्त्रस्य महान् विद्वान् आसीत्।
श्रीउदयनाचार्यस्य जीवनवृत्तम्
[सम्पादयतु]श्रीउदयनाचार्यो न्यायवैशेषिकविभूतिभूतः सन्नेको महान् ज्ञानवान् विद्वानासीत् । अयञ्च परमदार्शनिकः श्रीउदयनस्तत्तद्देशवासिभिर्दार्शनिकै विद्वद्भिविभिन्ननामभिर्व्याह्रियमाणो व्यवह्रियमाणश्चासीत् । तथाहि - यथा-क्वचिद् उदयनः, क्वचिद् उदयाकरः, क्वचिद् न्यायाचार्योदयनः, क्वचिच्च उदयशङ्कर इत्येवंविधनामभिः प्रोच्चार्यते स्म ।
श्रीउदयनाचार्यो न्यायवैशेषिकोभयदर्शनयोरनुपमोऽत्युत्कटप्रतिभा, तज्जन्य वैदुष्यसम्पन्नश्वासीत् । अस्य महानुभावस्य विषये इत्थं श्रूयते यद्-यथा भगवतो भास्करस्योदये जायमानेऽन्धकारः सर्वथा समाप्ति गच्छति । तथैव आचार्य-प्रवर-श्रीउदयनाचार्ये समागते बौद्धप्रभृतिनास्तिकदार्शनिकैविस्तारितोऽयं शास्त्रीयोऽन्धकारः सर्वोऽपि विनाशं गतवान इत्याशयेनैवास्य महानुभावस्य 'उदयाकरः, उदयशङ्करः, इत्यादिरूपेण सविभक्तिकनामकरणं जातम् ।
तात्त्विकदृष्ट्या विचार्यमाणे न्याय-वैशेषिकोभयदर्शनयोः प्राचीन-नवीन युगाभिसन्धौ दर्शनजीवनस्य खलु आधारभूतः श्री उदयनो जातः ।
अयञ्चाऽऽचार्यप्रवरः श्रीउदयनो न्यायकन्दलीकार-श्रीधरस्य समकालीनो मैथिल ब्राह्मण आसीत् । भविष्यपुराणान्तर्गतभगवद्भक्तमाहात्म्यस्य त्रिंशदध्याये सुस्पष्टीकृतोऽयं समुल्लेखो मिलति । तथाहि -
'अथ वक्ष्ये तृतीयस्य हरेरंशस्य धीमतः ।
उदयनाचार्यनाम्नस्तु माहात्म्यं लोमहर्षणम् ।।
भूत्वा स मिथिलाख्ये तु शास्त्राण्यध्यैष्ट सर्वशः ।
विशेषतो न्यायशास्त्रे साक्षाद् वै गोतमो मुनिः' ॥
वारमेकं श्रूयते यत्--श्रीउदयनाचार्यः श्रीजगन्नाथस्य, आहोस्वित् श्रीबदरीनाथस्य दर्शनं कर्तुकामस्तत्रैवाऽऽश्रमं गतवान् । तत्र च मन्दिरस्या ऽवरुद्धं द्वारं विलोक्य क्रुद्धो भूत्वा प्रोवाच -
'ऐश्वर्य मदमत्तोऽसि मामवज्ञाय वर्तसे ।
समागतेषु बौद्धेषु मदधीना तव स्थितिः' ।
एतेनोदयनाचार्यकथनेन भगवन्तं परमेश्वरं श्रीबदरीनाथम्प्रति श्रीजगन्नाथ म्प्रति वा श्रीउदयनाचार्यस्य परमा भक्तिनिष्ठा वा सूचिता भवति । तादृशीं भक्ति निष्ठां वा समाश्रित्यैव श्रीउदयनो ब्रूते यद् बौद्धेषु समागतेषु ताव त्कालीना त्वदीया स्थिति रस्तित्वञ्चोभयमेव मदधीनमिति ।
इदमेव च जातम्, यदा सर्वमपि भारतं वर्ष बौद्धः समाक्रान्तमभूत्, नास्तिक = बौद्धवर्गश्च तदीयधर्मश्च सर्वतोभावेन सर्वत्र भारते .वर्षे प्रसृतो विस्तृतश्च जातः ।
एवम्भूतायां परिस्थिती 'समागतेषु बौद्धेषु मदधीना तव स्थितिः' इति पूर्ववक्तृत्वकलानुसारं भगवतो जगन्नाथस्य बदरीनाथस्य वाऽस्तित्वं पुनरक्षुण्णं व्यवस्थापितवान्, संस्थापितवांश्च ।
बौद्धेः सह शास्त्रीयचर्चायां जायमानायां श्रीउदयनाचार्यस्तर्क-युक्ति प्रमाणान्याश्रित्यैव तांस्तान् नास्तिकप्रभृतीन् बौद्धान् बहुवारं पराजितवान् ।
एवमेवाऽनेकबारं शास्त्रीयविचारचर्चावसरेषु समुपस्थितेषु बहोः कालात् प्रचलितायाम् 'ईश्वरोऽस्ति न वेति' विचारचर्चायामस्तित्वेतिविधिकोटिमभ्युप गच्छतः श्रीउदयनाचार्यस्य नास्तीतिनिषेधकोटयवलम्बिभिबौद्धैरेकदा लम्बाय मानो विचारः समजीजनत् ।
'अस्ति चेन्नास्तिको हतः' इत्यादि वदन्नुदयनाचार्यः -
'नेश्वरो जन्मिनां हेतुरुत्पत्तिविकलत्वतः ।
गगनाम्भोजवत् सर्वमन्यथा युगपद् भवेत् ॥
इति वदतो बौद्धान् प्रति तद्देशीयं राजानं साक्षिणं विधाय मत्वा च प्रोवाच-राजन् ! अद्य कीदृशो विचारो भवितेति विदाकर्तुं कामये ? |
राजा बौद्धान् प्रतीङ्गितं विधाय प्रोवाच-तदीयमिङ्गितं विज्ञाय बौद्धा वदन्ति स्म । अद्यतनकालावच्छेदेनापि स एव विचारो भविष्यति यश्चेश्वर विषयको विचारः समागच्छति राजन् !
एवं स्थिते श्रीउदयनाचार्यो ब्रूते-राजन् ! पूर्ववत् विचारविधानानुसारन्तु महान् लम्बायमानः कालो लगिष्यतीति तत्र कमपि समयबन्धं स्वीकृत्य विचारो विधेय इत्यव मे प्रतिभाति । स चाऽयमस्ति समयबन्धः यत् पराजिताः खल्वेत स्माद् राज्याद्, देशाद्वा बहिष्कृता भवन्तु । नो चेद् विजेतुः पक्षमाश्रयन्तु ।
अतो ये सन्ति सन्तिष्ठमाना लम्बायमाना इमे शालवृक्षास्तेषूभयपक्षा वलम्बिनो वयमारोहणं प्रकुर्मः । तदनन्तरञ्च वृक्षस्योपरिभागाद् वयं कूर्दामः । अस्ति चेदीश्वरस्तस्यास्तित्वं वा तहि मां रक्षिष्यति । नो चेद् यादृशी गतिरस्य स्यात्तादृश्येव ममापीति । राजापि 'ओम्' इत्येवंरूपां स्वीयां स्वीकृति प्रदत्तवान् ।
प्रत्यक्षातिरिक्तानां सर्वेषामेव प्रमाणानां प्रत्यक्षोपजीवकत्वात् प्रत्यक्षस्य चोपजीव्यत्वात् तस्य च बहुवादिसम्मतत्वाज्जेष्ठत्वाच्चेत्यस्य प्रामाण्यं सर्वथा निर्दुष्टमिति विज्ञेयम् इति मत्वोभयत्वावच्छिन्नं समादिदेश ।
ततश्च द्वावेव तत्र समारोहितवन्तौ । पुनश्च ततस्तयोबौद्धस्तु कूर्दति स्म । कूर्दनपरायणस्य बौद्धस्य सर्वेऽपि शरीरावयवाश्छिन्ना भिन्नाः सन्तस्तस्यैहिकी लीला समाप्तवन्तः श्रीआचार्याः ।
श्रीउदयनाचार्यविरचिता ग्रन्थाः
[सम्पादयतु]१. न्यायवात्तिक-तात्पर्यटीकाया उपरि श्रीउदयनाचार्यविरचिता 'परि शुद्धि'-नाम्नी टीका।
२. प्रशस्तपादभाष्योपरि 'किरणावलि'-टीका ।
३. 'कुसुमाञ्जलि'-ग्रन्थः-मौलिकः ।
४. 'आत्मतत्त्वविवेकः' स्वतन्त्रो मौलिको ग्रन्थः ।
५. 'न्यायपरिशिष्ट'-ग्रन्थः ।
श्रीआचार्यस्य जन्मकाल:
[सम्पादयतु]श्रीउदयनाचार्यस्य जन्मतिथिः ( जन्मकालः ), 'लक्षणावलि'-ग्रन्थनिर्माणा नुसारम् अर्थात् 'लक्षणावलि'-ग्रन्थघटकीभूत-'ताम्बराङ्के'त्यादितुरीयपद्या नुसारम् ९८४ ई० सिद्धयति । तदनुसारम् दशमशतकस्योत्तरार्ध एव प्रतीयते ।
'लक्षणावलि'-ग्रन्थस्य निर्माणकाल: ९०६ शकाब्दः, तदनुसारं ९८४ ईसवीयश्वास्ति ।।
एतेनेदं सुस्पष्टं प्रतीयते सिद्धयति च यत् श्रीउदयनाचार्यस्याऽस्तित्वं दर्शमशताब्द्यामक्षुण्णमासीत् ।।