चित्तपरिणामः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
योगशास्त्रस्य प्रणेता पतञ्जलिः

चित्तस्य प्राथमिके द्वे अवस्थे भवतः-व्युत्थानं निरोधश्चेति । चित्ते गुणप्रभावात् जायमानं परिवर्तनं परीणाम इत्युच्यते, तथापि योगशास्त्रं सांख्य-सिद्धान्तानुरुपं चलति सांख्योक्तेन सत्यकार्यवादसिद्धान्तेन इदं स्पष्टमस्ति यत् पदार्थानां उत्पत्तिविनाशौ न भवतः, अपितु आविर्भावतिरोभावौ भवतः, अतो व्युत्थानस्य निरोधोऽपि व्युत्थानस्य तिरोभाव एवास्ति । पुनर्निरोधाद् व्युत्थानस्य आविर्भावो भवति । चित्तस्य धार्मेणि रुपे समाहितत्वं समाधिपरिणामः कथ्यते । अस्मिन् संस्कार प्रत्ययानां क्षयः उदयश्च जायेते । समाधिकाले शान्तोदितयोः तीव्ररुपेण चित्ते प्रावाहिकता एकाग्रतापरिणामः कथ्यते । अयं केवलं समाधावेव जायते । एवमेव इन्द्रियाणां भूतानां चापि परिणामा भवन्ति । ते च त्रिधा वर्गीकृताः सन्ति –(१) धर्मपरिणामः (२) लक्षणपरिणामः (३) अवस्थापरिणामश्च । यथा चित्तरुपिणि धर्मे व्युत्थानधर्मस्य तिरोभावो निरोधधर्मस्याविर्भावश्च धर्मपरिणामोऽस्ति । धर्माणां त्रिषु कालेषु स्वरुपावस्था लक्षनपरिणामोऽस्ति । व्युत्थाननिरोधयोराविर्भावोऽवस्थापरिणामश्च भवति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=चित्तपरिणामः&oldid=366640" इत्यस्माद् पुनः प्राप्तिः