सम्भाषणम्:योगः

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

योग:[सम्पादयतु]

पु युज- भावादौ घञ्।

१ मेलने
२ उपाये
३ ध्याने
४ वर्म्मादिधारणे

’योगश्चित्तवृत्तिनिरोध:’ इति पातञ्जलोक्ते। चित्तवृत्तिनिरोधरूपयोगश्च द्विविध:।राजयोगो हटयोगश्च ।तत्र राजयोग: पातञ्जलिनोक्त:।हटयोगस्तु तन्त्रशास्त्रोक्त:।

प्रकारान्तरेण त्रैविध्यम् ' ज़ानं कर्मश्च भक्तिश्च नोपायोऽन्योस्ति कुत्रचित्।' (भाग ११ ३० अ)'

समुदायशब्दस्य अवयवार्थसम्बन्धे ’योगबलम् समाख्या’ इति मीमांसका:।

ज्योतिषोक्तेषु रविचन्द्रयोगाधीनेषु विष्कम्भादिषु । थितिवारक्षत्राणम् अन्यतरान्यतमानां सम्बन्धविशेषेषु सिद्धियोग: अमृतयोग:इत्यादि।

सर्वविषयेभ्योऽन्त:करणवृत्तेर्निरोधे ’संयोगे योगमित्याहुर्जीवात्मप्र्मात्मनो:’(जीवत्मपरमात्मनोरैक्ये)।

"https://sa.wikipedia.org/w/index.php?title=सम्भाषणम्:योगः&oldid=175676" इत्यस्माद् प्रतिप्राप्तम्