हरिद्रा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
हरिद्रा/ Turmeric
Curcuma longa
Curcuma longa
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
गणः Zingiberales
कुलम् Zingiberaceae
वंशः Curcuma
जातिः C. longa
द्विपदनाम
Curcuma longa
Linnaeus[१]


हरिद्रासस्यम्

  • संस्कृतं नाम - हरिद्रा, काञ्चनी, पीता, निशाख्या, क्रिमिघ्ना, हलदी योषित्प्रिया, इट्टविलासिनी
  • वैज्ञानिकं नाम -Curcume Longa, Linn
  • कन्नडनामानि - अरशिन /अर्शिना
  • आङ्ग्लनाम - Turmeric/n
  • हिन्दीनामानि - हल्दी, हर्द
  • तमिळुनामानि -मञ्जल् / हलद, हलदर
  • तेलगुनामानि - पसपु/ फा,जरद चोव
  • मराठीनामानि - हळद 

इयं हरिद्रा भारते वर्धमानः कश्चन सस्यविशेषः । हरिद्रा सस्यजन्यः आहारपदार्थः । एषा हरिद्रा भारते पाकशालातः स्नानगृहपर्यन्तम् अपि स्थानं प्राप्तवती अस्ति । हरिद्रायाम् अत्यधिकप्रमाणेन रोगनिरोधकशक्तिः अस्ति इति उच्यते । देवस्य पूजार्थम् अपि हरिद्रा आवश्यकी एव । अस्याः हरिद्रायाः पीतिका, पिङ्गा, रजनी, रञ्जनी, निशा, गौरी, वर्णवती, पीता, हरिता, वरवर्णिनी, हलदिका, भद्रलता, वर्णविलासिनी, विषघ्नी, जयन्ती, दीर्घरङ्गा, रङ्गिणी इत्यादीनि अन्यानि अपि नामानि सन्ति । एषा हरिद्रा यथा आहारत्वेन उपयुज्यते तथैव औषधत्वेन अपि उपयुज्यते ।

हरिद्रा एका वर्णकारिका , अस्य लेपनेन देहः सुन्दरं वर्णं प्राप्नोति । पिटकानां व्रणानां च अस्य लेपनं शीघ्रगुणकारी । हरिद्रामिश्रितजलेन नेत्रस्य क्षालनेन रक्तनेत्रदोषः निवारितः भवति । इयं रुचिवर्धिका । अजीर्णं, झांण्डीस्, जलोदरः दूषितरक्तरोगाः कण्डूया, शीतपित्तं, रक्तहीनता इत्यादीनां इयं उत्तमः औषधिः । प्रमेहरोगनिवारणे अस्य रसस्य चूर्णस्य वा सेवनं फलकारी ।

आयुर्वेदस्य अनुसारम् अस्याः हरिद्रायाः स्वभावः[सम्पादयतु]

इयं हरिद्रा रसे तिक्ता, गुणे रूक्षा, वीर्ये च उष्णा ।

“हरिद्रा स्वरसे तिक्तारूक्षोष्णा विषकुष्ठनुत् ।
कण्डूमेनव्रणान् हन्ति देहवर्णविधायिनी ॥
विशोधिनी क्रिमिहरा पीननारुचिनाशिनी ॥“ (धन्वन्तरिकोषः)

उपयोगाः[सम्पादयतु]

धूमसेवनम्[सम्पादयतु]

हरिद्रायाः धूमस्य आध्राणनेन हिक्कः, अस्तमा, पीनसः च नियन्त्रितः भवति । धूमसेवनेन मूर्छितः जाग्रतः भवति । वृश्चिकादंशनेन जाता तीव्रा वेदना अपि अनेन शाम्यति ।

प्रसवोत्तरोपयोगिता[सम्पादयतु]

प्रसवोत्तरं नियमितरूपेण हरिद्रासेवनेन गर्भाशयः शोधितः भवति । मातुः क्षीरं दूषितं चेत् शुद्धतां प्राप्नोति । अनेकेषां उपशमने विकाराणां हरिद्रा उत्तमः औषधिः । दीर्घकालीनस्य ज्वरस्य उपशमने अपि एषा उपयुक्ता स्त्रीणां समान्यबलहीनतां, निश्शक्ततां, दौर्बल्यं च निवार्य उत्साहदाने अद्वितीया एषा हरिद्रा ।

अर्बुदरोगनिवारिका[सम्पादयतु]

हरिद्रा सेवनेन मुखसम्बन्धी अर्बुधः निवारयितुं शक्यः इति हैदराबादनगरस्य National Institute of Nutrition संस्थायाः विज्ञानिनः घोषितवन्तः सन्ति । जीवकोशेषु जायमानं वैपरीत्यं डि.एन्. ए. कृते जातस्य आधातंस्य, रोगाणां च उपशमनं हरिद्रासेवनेन भवति इति शोधनेन ते ज्ञातवन्तः सन्ति ।

दन्तवेदनादिमुखरोगनिवारकी[सम्पादयतु]

दन्तरोगाणां निवारणे अपि हरिद्रा उपयुक्ता । हरिद्राचूर्णेन सह तैले निक्षिप्तेन वस्रखण्डेन वर्तिकां कृत्वा अग्निना ज्वालयेयुः । तस्य धूमः दन्तवेदनास्थले गृह्यते चेत् चूयः जलं च निर्गच्छति , वेदना न्यूनं भवति । शिघ्रं रोगः अपगच्छति ।

ताम्बूलसेवनसमये सुधाधिक्येन जातस्य व्रणस्य निवारणार्थं हरिद्रालेपस्य लेपनं शीघ्रशमनकारि ।

सेवनक्रमः[सम्पादयतु]

हरिद्रायाः रसः १०-२० मि.ली, प्रमाणे, चूर्णं १-३ ग्रां, परिमित परिमाणे च सेवनीयम् ।

हरिद्रायां विद्यमानाः प्रमुखाः अंशाः[सम्पादयतु]

१) पीतरञ्जकद्रव्यम् (Curcumin) 5.8%
२) विटमिन् ‘ए’ प्रोटिच् ६.३%
३) तैलांशः ५.१%
४) खनिजद्रव्यम् ३.५%
५) कार्बोहैड्रेट् ६९.४%

हरिद्रा प्रभेदः[सम्पादयतु]

१) हरिद्रा – यथा पूर्वम् उक्ता
२) आम्राग्रन्थिहरिद्रा - एषा हरिद्रातः सम्पूर्णतया भिन्ना विद्यते । एतस्य आम्रफलस्य गन्धः भवति । भोजने उपसेचनं खिचडि, अवलेहः इत्यादीनां निर्माणे अस्याः प्रयोगः क्रियते एवा चर्मरोगाणां कासस्य श्वाससम्बन्धिरोगस्य, जीर्णाङ्गरोगाणां उपशमिका ।
३) कर्पूरहरिद्रा
४) वनहरिद्रा

शास्त्रीयम् औषधम् हरिद्राखण्डम्

संक्षिप्तचिकित्सासूची[सम्पादयतु]

१. इयं हरिद्रा शरीरं शोधयति, विषबाधां, कुष्ठरोगं च निवारयति ।
२. हरिद्रा मधुमेहं निवारयति, कण्डूयनं च शमयति ।
३. हरिद्रा क्रिमिहरा अपि ।
४. हरिद्रा शरीरस्य गौरवर्णं वर्धयति ।
५. हरिद्रा मूत्रविकारं शमयति ।
६. हरिद्रा त्वक्दोषं, रक्तविकारं, शोथं, पाण्डुरोगं, प्रमेहं च दूरीकरोति ।
७. हरिद्रा उत्तमा व्रणहरा अपि ।
८. हरिद्रा रक्तस्रावं स्थगयति ।
९. हरिद्रां गुडंक्षीरे योजयित्वा क्वथयित्वा पानेन पीनसः, कासः, कफः, कण्ठवेदना च अपगच्छति ।
१०. हरिद्राम् अङ्गारस्य उपरि संस्थाप्य धूमसेवनेन अपि पीनसः न्यूनः भवति ।
११. हरिद्रां घृतं च योजयित्वा भर्जयित्वा मधुना सह खादनेन कासः अपगच्छति ।
१२. सर्वरीतीनां प्रमेहे अपि हरिद्राम् आमलकेन सह सेवन्ते चेत् रोगस्य नियन्त्रणं भवति ।
१३. हरिद्रां गोमूत्रेण सह सेवन्ते चेत् कण्डूयनं, पिटकाः, शीतपित्तं च अपगच्छति ।
१४. कर्णस्रावसमये अपि हरिद्रा उपयुज्यते ।
१६. अरुचिं, कामलां, निबन्धं, जलोदररोगं, क्रिमिबाधां च हरिद्रा निवारयति ।
१७. हरिद्रायाः तैलेन मुखपाकः करणीयः इति योगरत्नाकरे उक्तम् अस्ति ।
१८. कफजन्यायाः पिपासायाः निमित्तं हरिद्रा हितकरी इति वाग्भटः उक्तवान् अस्ति ।
१९. अस्रावस्य पैल्-रोगे हरिद्रां ’कळ्ळी’ (किञ्चित् कण्टकसहितं सस्यम्) क्षीरेण सह लेपनीया इति चरकः उक्तवान् अस्ति ।
२०. हरिद्रायाः उल्लेखः भावप्रकाशे अपि कृतः अस्ति ।
२१. कामलारोगे हरिद्रादि घृतस्य उपयोगम् उक्तवान् अस्ति चरकः ।
२२. श्वासकासे अपि हरिद्रादि वर्तेः उपयोगम् उक्तवान् अस्ति चरकः ।

टिप्पणी[सम्पादयतु]

  1. "Curcuma longa information from NPGS/GRIN". www.ars-grin.gov. आह्रियत 2008-03-04. 

चित्रवीथिका[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=हरिद्रा&oldid=425093" इत्यस्माद् प्रतिप्राप्तम्