चरकः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
भारतस्य हरिद्वारे स्थिते पतञ्जलियोगपीठे विद्यमाना चरकस्य मूर्तिः

(कालः – क्रि. पू. ३२०)

अयं चरकः (Charaka) वैद्यविज्ञानस्य आचार्यः इत्येव सुप्रसिद्धः । चरकस्य जन्मकालः वा मातापित्रोः विषयः वा न ज्ञायते । बौद्धराजस्य कानिष्कस्य आस्थाने क्रि. पू. ३२० अवधौ आस्थानवैद्यः आसीत् अयं चरकः इति विषयः केवलं ज्ञातः अस्ति । अयं चरकः साक्षात् आदिशेषस्य अवतारः इत्येव तदानीन्तने काले प्रतीतिः आसीत् । आचार्यः सुश्रुतः इव आचार्यः चरकः अपि चिकित्सायाः विधानानि (क्रमान्) "वैद्यसंहितायां” निरूपितवान् अस्ति । स च ग्रन्थः वैद्यजगति अद्यापि उपयुज्य । आचार्यः चरकः तावत् पर्यन्तं विद्यमानं वैद्यज्ञानम् अष्टसु भागेषु विभज्य “अष्टाङ्ग – आयुर्वेदः” इति नामकरणम् अपि अकरोत् । कर्णसम्बद्धाः, नेत्रसम्बद्धाः, नासिकासम्बद्धाः, मुखसम्बद्धाः, कण्ठसम्बद्धाः च रोगाः तथा शस्त्रचिकित्सा, विषविज्ञानं, मनश्चिकित्सा, बालानां रोगाणां चिकित्सा, पुनरुज्जीवनं, वैद्यविज्ञानं, पौरुषीकरणम् इत्येते एव तेन कृताः अष्ट विभागाः ।

अयम् आचार्यः चरकः २५ विधान् ज्वरान्, उदरस्य बहुविधान् शोथान्, कामलारोगं, मूत्रसम्बद्धान् रोगान्, मधुमेहं, कुष्ठरोगं, श्वासकोशस्य क्षयरोगं, हृदयसम्बद्धान् रोगान् च वर्णितवान् अस्ति । यथा वेदना न ज्ञायेत तथा करणस्य औषधीयस्य द्रवांशस्य विषयम् अपि सः ग्रन्थे प्रस्तुतवान् अस्ति । पञ्चशताधिकानाम् (५००) औषधीयसस्यानां प्रयोजनं, तेषां चिकित्साविधानं, प्रणिजन्यानां वस्तूनां निर्माणं, तथा च खनिजानां विषये अपि आचार्यः चरकः जानाति स्म । तानि सर्वाणि बलवर्धकानि, शामकानि, विरेचकानि, शुद्धिकारकाणि, वमनकारकाणि, कमोद्दीपकानि इति विभक्तवान् अपि । अनेकविधान् विषप्रयोगान्, विषहारिणाम् उपयोगम् अपि जानाति स्म आचार्यः चरकः । सः स्वीये ग्रन्थे पथ्यविषयं, शुद्धवायुविषयं, सूर्यस्य प्रकाशस्य विषयं, भाष्पप्रयोगं, स्वच्छतां च पौनःपुन्येन लिखितवान् अस्ति । सार्वजनिकानां चिकित्सालयानां, प्रसूतिचिकित्सालयस्य, बालानं चिकित्सालयस्य च रचनायाः तथा निर्वहणस्य अपि ज्ञानम् आसीत् अस्य चरकस्य ।

अयम् आचार्यः चरकः “वास्तविकं वैद्यकीयं नाम अवलोकनेन, ऊहया, तर्केण, अनुभवेन, ज्येष्ठानां गुरूणां तथा अनुभवीनां सूचनया कार्यसम्पादनकौशलस्य विज्ञानम्” इति उक्तवान् अस्ति । “वैद्यः सच्चारित्रवान् भवेत् । तेन क्रियमाणं चिकित्साकार्यं केवलं स्वहिताय, जीवनस्य निर्वहणाय वा न भवेत् । तत् कार्यं मानवकुलस्य हिताय भवेत् । यः वैद्यविज्ञानं वस्तु इव विक्रीणीते सः जीवननामकस्य सुवर्णखनौ सुवर्णं विहाय शिलाखण्डान् वा मृत्तिकां वा प्राप्स्यति ।“ इत्येतादृशानि आचार्यस्य चरकस्य वचनानि वैद्यपद्धतेः इतिहासे शाश्वतरूपेण स्थितानि सन्ति ।

अनेन आचार्येण चरकेण लिखितः “चरकसंहिता” नामकः ग्रन्थः आयुर्वेदस्य प्रमुखा प्रमाणाधारा कृतिः इति परिगण्यते वैद्यक्षेत्रे । स च ग्रन्थः अराबिक्, आङ्ग्ल (इङ्ग्लिष्), चीनी इत्यादिभिः भाषाभिः अनूदितः अस्ति । २ – ३ सहस्रेभ्यः वर्षेभ्यः पूर्वं तेन आचार्येण चरकेण अनुसृताः क्रमाः अद्यापि उपयोगयोग्याः सन्ति इति मन्यन्ते आधुनिकाः वैद्याः अपि ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=चरकः&oldid=316951" इत्यस्माद् पुनः प्राप्तिः