उमामाहेश्वरव्रतम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


श्रीसत्यनारायणपूजाकलशस्थापनम्

श्रीसत्यनारणकथा[सम्पादयतु]

भाद्रपदमासस्य पौर्णिमायां विशेषतः उत्तरभारते भागवतः सत्यनारायणस्य कथाश्रवणं पूजा च भवतः । पूर्णिमायाः सूर्योदयात् प्राक् नदीजलस्य प्रोक्षणं कृत्वा गृहने स्नात्वा विष्णोः आराधनं भवति । श्री विष्णोः अस्यां पूजाया कदलीपत्रं फलानि पञ्चामृतं क्रमुकफलानि, तिलानि, गन्धकस्तूरिकुङ्कुमादयः, दूर्वा, तुलसी, गङ्गाजलं, सुगन्धपुष्पाणि इत्यादीनाम् उपयोगः भवति । कथाश्रवणानन्तरं पूजा निराजनानि भवन्ति । देव्याः लक्ष्माः महादेवस्य ब्रह्मण च पूजा भवति । तदनन्तरं चरणामृतं स्वीकृत्य प्रसादभोजनं कुर्वन्ति ।

भागवतदृश्यम्

भागवतप्रवचनम्[सम्पादयतु]

दक्षिणभारते साधकाः अस्यां भाद्रपदपौर्णिमायां भागवतस्य पारायणं प्रवचनं श्रवणं च कुर्वन्ति । अस्य कार्यक्रमस्य प्रोष्ठपदी इति नाम । प्रोष्ठपदं नाम भाद्रपदमासः इति । अपि च यस्मिन् मासे चतुर्दशी पूर्णिमा प्रतिपत् तिथिषु पूर्वाषाढा उत्तराषाढा च नक्षत्रे आपतति तस्य प्रोष्ठपदी इति कथयन्ति । (स्वाभाविकतया मासः नाम त्रिंशत् दिनानि तथापि पक्षाः वै मासा इति पुराणवचनानुगुणं १५दिनानां पक्षः मासवत् भवति ।) अस्मिन् प्रोष्ठपदिषु दिनेषु भागवतस्य पठणं श्रवणस्य सम्प्रादायः अस्ति । पद्मपुराणनुगुणं पूर्वं गोकर्ण इति कश्चित् सत्विकः विप्रः भाद्रपदमसे भागवतपारायणं कृत्वा दुन्धुकारी इति नामानं स्वबन्धुं पैशाचात् विमोचितवान् । प्रलयकालस्य अनन्तरं शेषशायिनः भगवतः नारायणस्य नाभिकमलात् चतुर्मुखब्रह्मणः जन्म अभवत् । भगवान् तं आदिशति जगतः सृष्टिं कर्तुम् । तदा ब्रह्मा स्वाज्ञानं प्रदर्शयति । तदा भगवान् नारायणः ब्रह्मदेवं स्मृत्वा भागवतस्य उपदेशं करोति । नारायणेन ब्रह्मणे भागवतोपदेशस्य कालः अयं भाद्रपदपौर्णिमायाः दनम् । अतः अस्य दिनस्य भागवतपारायण्स्य परम्परा अस्ति ।

उमामहेश्वरव्रतम्[सम्पादयतु]

उमामहेश्वरव्रतस्य आचरणं भाद्रपदमासस्य पौर्णिमायां भवति । अतः पूर्वस्मिन् एव दिने शुचिर्भूत्वा पूजासङ्कल्पम् आचार्यद्वारा कृत्वा पूर्वभावी शिवपूजां कुर्यात् । तदनन्तरं देवताः ऋषीन् च सम्पूज्य हविष्यान्नेन व्रतनिष्टः भवेत् । पुनः सायम् अपि पूजां कुर्यात् । परेद्युः पूर्णिमायां स्नानाह्निकं सम्पूर्य १५ग्रन्थियुक्तं सूत्रं प्राप्त विध्यियुक्तप्रकारेण व्रताचरणं कुर्यात् । स्वर्णरचिताम् उमामहेश्वरमूर्तिं पूर्णकलशे च दैवत्वम् आहूय सम्पूजयेत् । शिवालये एव व्रताचारणमपि उचितम् एव ।

पञ्चाननमुमाकन्तमनलेन्दुरविप्रभम् ।
चन्द्रार्कशेखरं नित्यं जटामुकटामण्डितम् ॥

नित्यं शुद्धं परं ब्रह्मपुरुषं कृष्णपिङ्गलम् ।
ऊर्द्वकेशं विरूपाक्षं विश्वरूपं चिरात्मकम् ॥

एवं शिवपार्वत्योः ध्यानश्लोकं पठन् षोडषोपचारैः पूजयेत् ।

पूर्वकथा[सम्पादयतु]

पूर्वं कदाचित् दूर्वासमुनिः श्रीमन्नारयणस्य दर्शनार्थं वैकुण्ठम् अगच्छात् । तदा विष्णुः लक्ष्म्या सह गरुडमारूढः कुत्रचित् प्रस्थितः आसीत् । विष्णुः त्वरायां तेन दत्तं शिवप्रसादं पाक्षिपत् । तेन क्रुद्धः दूर्वासः सः लक्ष्मा वैकुण्ठेन गरुडेन च भ्रष्टः भवेत् इति शापम् अयच्छत् । शिवप्रसादस्य तिरस्करणेन लब्धशापः नारायणः वने सञ्चरन् गौतममुनेः दर्शनं प्राप्तवान् । गौतममुनिः तम् उमामहेश्वरव्रतम् उपदिश्य तेन तं व्रतम् अकारयत् । तेन फलेन नारायणः पुनः वैकुण्ठादिसर्वं प्राप्तवान् । कालान्तरेन इन्द्रः ब्रह्मा सूर्यादिदेवाः वैद्युतः इति विप्रः एतत् उमामहेश्वरव्रतं समाचर्य स्वे स्वे इष्टार्थं समपूरयन् ।


"https://sa.wikipedia.org/w/index.php?title=उमामाहेश्वरव्रतम्&oldid=408851" इत्यस्माद् पुनः प्राप्तिः