श्रीदत्तात्रेयजयन्ती

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


पीठिका[सम्पादयतु]

मार्घशीर्षपूर्णिमायां भगवतः दत्तारेयस्य जयन्त्युत्सवम् आचरन्ति । गुरुः दत्तात्रेयः ब्रह्मविष्णुमहेश्वराणाम् अवताररूपः इति विश्वासः । त्रिमूर्तियः अत्रयनसूयादम्पत्योः पुत्ररूपेण अजायन्त । दत्तात्रेयस्य अवतरणकथा ब्रह्माण्डपुराणे एवम् उक्ता अस्ति ।

अवतारकथा[सम्पादयतु]

इन्द्रादयः देवाः अत्रिमहर्षेः पत्न्याः अनसूयायाः पातिव्रत्यस्य गुणगानं कुर्वन्ति स्म । एतत् श्रुत्वा अनन्दिताः त्रिमूर्तयः स्वयं गत्वा तां सन्दृष्टुम् उत्सुकाः अभवन् । ते ब्रह्माविष्णुमहेश्वराः कस्मिंश्चित् मध्याह्नकाले विप्रवेशेण अत्रिमुनेः आश्रमपदम् आगच्छन् तदा अत्रिमहर्षिः तत्र नासीत् । भवति भिक्षां देहि इति वदतः तान् विप्रान् दृष्ट्वा अनसूया श्रद्धया आमन्त्र्य आश्रमस्य अन्तः उपावेश्य भोजनसिद्धतां कर्तुम् उद्युक्ता अभवत् । पाके समाप्ते सा भोजनं परिवेशयितुं यदा सिद्धा अभवत् तदा ते त्रिमूर्तयः एवम् अवदन् । भिक्षार्थीनां भवती इच्छाभोजनं कारयतीति श्रुतम् इदानीं भवती विवस्त्रा भूत्वा भोजनं परिवेषयतु इति । अन्यथा वयम् अन्यत्र गमिष्यामः इति । एतत् श्रुत्वा देवी अनसूया एते असामान्याः एव जनाः मम पातिव्रत्यं परिक्षितुम् एव आगताः महात्मनः इति विचिन्त्य स्वपतिं ध्यात्वा विवस्त्रा बहिरागत्य पश्यति त्रिमूर्तयः शिशवः भूत्वा चङ्क्रमन्तः आसन् । क्रन्दद्भ्यः बालेभ्यः दुग्धं पाययित्वा सन्दने शायययित्वा स्वापितवती । गृहमागतः पतिः अत्रिमहर्षिः एतान् बालन् दृष्ट्वा के एते इत्यपृच्छत् । तया वृत्तान्तं सर्वं ज्ञात्वा एते त्रिमूर्तयः इत्येव निश्चित्य तान् बालान् नमस्कृतवान् । तदा ब्रह्माविष्णुमहेश्वराः प्रकटीभूताः अनसूयायाः पातिव्रत्यं प्रशंस्य वरं याचितुम् अवदन् । तदा सा साध्वी भवन्तः त्रिमूर्तयः स्वयं बालरूपेण मद्गृहमागताः अत्रैव तिष्ठन्तु इति वरम् अयाचत । तथास्तु इति वदन्तः तत्रैव न्यवसन् । यदा प्रौढाः अभवन् ब्रह्मा चन्द्रः भूत्वा चन्द्रलोकं महेश्वरः दूर्वासः भूत्वा गतवन्तौ । गमनावसरे स्वशक्तिं विष्णौ सन्यस्तवन्तौ । तदा विष्णुस्वरुपस्य दत्तस्य मुखत्रम् अभवत् । अयमेव विष्णोः अवताररूपेण दत्तात्रेययः इति ख्यातः ।

आचरणम्[सम्पादयतु]

भक्ताः परिशुद्धः भूत्वाः तत्तात्रेयमन्दिराणि गत्वा षोडषोपचारपूजाः अर्पयन्ति । दत्तगुरुभजनं नर्तनं कुर्वन्ति । विथिषु शोभायात्राः सङ्गीतगोष्टयः सार्वजनिककार्यक्रमाः भवन्ति । ५२ अध्यायायुक्तस्य गुरुचरित्रम् इति ग्रन्थस्य पारायणं कुर्वन्ति ।