सामग्री पर जाएँ

सुब्रह्मण्यषष्ठी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
हिन्दुधर्मः

हिन्दुधर्मःइतिहासः

Portal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

मार्गशीर्षमासे शुक्लपक्षे षष्ठ्यां तिथौ आचर्यते एतत् पर्व । अस्य पर्वणः शास्त्रीयं नाम अस्ति “स्कन्दषष्ठी” (सुब्रह्मण्यषष्ठी} इति । यद्यपि एतत् षष्ठ्यामेव आचर्यमाणं पर्व तथापि तत्पूर्वतिथिः युक्ता चेत् श्रेष्ठम् इति मन्यते ।

कृष्णाष्टमी स्कन्दषष्ठी शिवरात्रिश्चतुर्दशी
एताः पूर्वयुताः कार्याः तिथ्यन्ते पारणं भवेत् ॥ इति अस्ति भृगुवचनम् ।

तद्दिने भानुवासरः वैधृतियोगः च अस्ति चेत अत्यन्तं प्रशस्तं दिनं तत् । एतादृशः योगः भवति चेत सा “चम्पाषष्ठी” इति उच्यते । अस्य पूर्वदिनं पञ्चमी अपि स्कन्दस्य प्रशस्तं दिनमेव । अस्मिन् षष्ठीदिने स्कन्दः तारकासुरस्य संहारम् अकरोत् । पञ्चम्यां तिथौ स्कन्ददेवसेनयोः विवाहः सञ्जातः । स्कन्दः श्रीयोगम् अप्राप्नोत् च । अतः पञ्चमी षष्ठी चेति दिनद्वयमपि स्कन्दपूजार्थं प्रशस्तमेव इति वदति महाभारतम्

वल्लिदेवसेनसहितः मयूरवाहनः सुब्रह्मण्यः
श्रीजुष्टः पञ्चमीं च स्कन्दस्तस्माच्छ्रीपञ्चमी स्मृता ।
षष्ठ्यां कृतार्थोभूद्यस्मात्तस्मात् षष्ठी महातिथिः ॥

स्कन्दः, षण्मुखः, कुमारः, कार्त्तिकेयः, सुब्रह्मण्यः इत्यादिभिः बहुभिः नामभिः पूज्यमानस्य सुब्रह्मण्यस्य आराधनं सर्वेपि कर्तुम् अर्हन्ति । सुब्रह्मण्यः चतुरः पुरुषार्थान् अपि प्रदानयोग्यः परादेवः अस्ति । आयुरारोग्यवृध्यर्थं, ब्रह्मज्ञानप्राप्त्यर्थम्, अपस्मार-कुष्ठादीनां महारोगाणां निवारणार्थं, भूतपीडापरिहारार्थं, सन्तानसौभाग्यार्थं, पुष्टि-तुष्टि-कीर्तिप्राप्त्यर्थं, शत्रुजयार्थं च स्कन्दपूजनं कुर्वन्ति ।

स पुष्टितुष्टी सम्प्राप्य स्कन्दसालोक्यमाप्नुयात् । (वनपर्व – २३२-२१)
सर्वपापविनिर्मुक्तो याति ब्रह्म सनातनम् ।
आयुष्मान् पुत्रपौत्रैश्च स्कन्द सालोक्यमाप्नुयात् ॥ (वाल्मीकिरामायणे बालकाण्डे ३७-३४)
अपस्मारकुष्ठक्षयार्शः प्रमेहज्वरोन्मादगुल्मादिरोगा महान्तः ।
पिशाचाश्च सर्वे भवत्पत्रभूतिं विलोक्य क्षणात्तारकारे द्रवन्ते ॥ (श्रीशङ्कराचार्यस्य सुब्रह्मण्यभुजङ्गम् -१५)
स्कन्दस्य स्वर्णप्रतिमा

येषां गृहदेवता सुब्रह्मण्यः तैः एतत् पर्व विशेषेण आचर्यते । षड्सु भक्तियोगदर्शनेषु स्कान्दभक्तिदर्शनम् अपि अन्यतमम् । तद्दर्शनम् अनुसरन्तः अपि एतत् पर्व विशेषेण आचरन्ति । सुब्रह्मण्यं नागरूपेण पूजयन्ति । ब्रह्मचारी बालसुब्रह्मण्यः इत्यपि पूजयन्ति । अनेकशक्तिवज्राङ्कुशाद्यायुधयुक्तः षण्मुखः देवीसहितः गृहस्थः इत्यपि पूजयन्ति । सुब्रह्मण्यमूर्तिषु १७ भेदान् परिचाययति “शैवागमशेखर”ग्रन्थः । ज्ञानशक्तिः, स्कन्दः, अग्निजातः, सौरभेयः, गाङ्गेयः, शरवणोद्भवः, कार्तिकेयः, कुमारः, षण्मुखः, ताराकारिः, सेनानी, गुहः, ब्रह्मचारी, देशिकः, क्रौञ्चभेदनः, शिखिवाहनः, वेलायुधः इति एते ते भेदाः । नागदेवतारूपिणं सुब्रह्मण्यं पञ्चम्यां षष्ठ्यां वा अथवा दिनद्वये अपि पूजयन्ति । वल्मीकेषु अथवा अश्वत्थवृक्षमूले विद्यमाने नागविग्रहे सुब्रह्मण्यम् आवाह्य क्षीरेण अभिषेकं कुर्वन्ति । पायसादिनैवेद्यं समर्पयन्ति च । तद्दिने उपवासम् एकभुक्तिम् वा आचरन्ति । नागदेवाय पक्तं, भर्जितं, लवणयुक्तं पदार्थं न समर्पयन्ति । अग्निशाखस्य स्पर्शम् अपि न सहते नागदेवता । तस्मै शीतलानि, लेखनानि, मधुराणि च भक्ष्याणि अर्पयन्ति । तिथिद्वये अपि ब्रह्मचर्यादिनियमाः पालनीयाः । नागदेवः नियमभङ्गं किञ्चिन्मात्रेण अपि न इच्छति । स्कन्दस्य प्रिया संख्या अस्ति षट् । तस्य पूजायाः तिथिः अपि षष्ठी । अस्य मुखानि षट् । शक्तयः षट् । तासु मुख्याशक्तिः “षष्ठी” इत्याख्या । तस्य प्रियस्य नादस्य नाम षष्ठीनादः । तस्य प्रियस्य रागस्य नाम षण्मुखप्रियः इति । तस्य पूजार्थम् अपि ६ संख्याकाणि पत्रपुष्पाणि उपयुज्यन्ते । नैवेद्यमपि षड्संख्याकाणि भवन्ति । तद्दिने ६ ब्रह्मचारीन् बालसुब्रह्मण्यभावेन पूजयित्वा भोजयन्ति । पूजाव्रतिनः उपवासम् आचर्य षष्ठीतिथेः अनन्तरं पारणं कुर्युः । पूजायाः अनन्तरं सत्पात्राय विग्रहस्य दानं कुर्युः इति वदति दिवोदासीयग्रन्थः ।

"https://sa.wikipedia.org/w/index.php?title=सुब्रह्मण्यषष्ठी&oldid=434407" इत्यस्माद् प्रतिप्राप्तम्