सामग्री पर जाएँ

नृसिंहजयन्ती

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

वैशाखमासे शुक्लपक्षे चतुर्दश्यां तिथौ आचर्यते एतद् व्रतम् । चतुर्दश्यां स्वातिनक्षत्रं, सोमवासरशनिवासरौ वा सिद्धयोगः वणिजकरणं च भवति चेत् तद्दिनं प्रशस्तम् इति उच्यते ।

कर्णाटके हळेबीडुमन्दिरे विद्यमानः हिरण्यकशिपोः संहारं कुर्वन् उग्रनरसिंहः
वैशाखे शुक्लपक्षे तु चतुर्दश्यां निशामुखे ।
मज्जन्मसम्भवं पुण्यं व्रतं पापप्रणाशनम् ॥
अवतारो नृसिंहस्य प्रदोषसमये द्विजाः ।
महाप्रदोषसमयो नृहरेः समुपागतः ।

नरसिंहावतारः सन्ध्यासमये एव जातः । अतः तस्य व्रतस्य आचरणम् अपि सन्ध्यासमये एव । शरीरदौर्बल्यकारणेन सन्ध्यापर्यन्तं ये उपवासं कर्तुं न शक्नुवन्ति ते मध्याह्ने एव एतत् व्रतम् आचरन्ति । अस्य पूजावसरे आचारशुद्धिः महती स्यात् । अयं नृसिंहः किञ्चिदपि अनाचारं न सहते । व्रतम् आचर्यमाणाः चतुर्दश्यां प्रातःकाले स्नानादिकार्यं समाप्य सङ्कल्पसहितं पूजाम् आचरन्ति । सायङ्काले विशेषपूजां कुर्वन्ति । उपवासं कर्तुम् अशक्ताः शास्त्रीयम् आहारं सेवन्ते । न्यूनातिन्यूनं पूजासमयपर्यन्तं वा उपवासम् आचरन्ति । नृसिंहस्य पूजां सालिग्राम-यन्त्र-विग्रह-अग्निद्वारा वा कुर्वन्ति । श्रीनारसिंहमन्त्रेण उपनिषदा श्रुत्या वा विशेषाराधनं कुर्वन्ति । नृसिंहाय विशेषरूपेण गुडापूपं नैवेद्यरूपेण समर्पयन्ति । “गुडापूपं नृसिंहाय” इति उक्तम् अस्ति । तेन सह मुद्गदालं, चणकदालं, निम्बूपानकं च समर्पयन्ति । नरसिंहाय तुलसीं, पद्म, बिल्वं, जपाकुसुमं च रोचते इति तानि एव समर्पयन्ति पूजावसरे । सन्ध्यासमये विशेषाराधनं कृत्वा अनन्तरं पारणं कुर्वन्ति कुत्रचित् । कुत्रचित् तद्दिने पूर्णतया उपवासं कृत्वा अनन्तरदिने प्रातःकाले पारणं कुर्वन्ति । रात्रिं कथाश्रवणेन सङ्गीतनर्तनादिना वा यापयन्ति । अनन्तरदिने अग्नौ नृसिंहम् आवाह्य षोडशोपचारपूजां कृत्वा हवनं कृत्वा घृतं हविश्यान्नं च समर्पयन्ति । विग्रहद्वारा ये पूजयन्ति ते पूजानन्तरं तं विग्रहं सत्पात्राय ब्राह्मणाय दानं कुर्वन्ति । सन्ध्यासमये उग्रनरसिंहस्य आराधनं कुर्वन्ति । उत्तराराधनावसरे वामाङ्के लक्ष्मीसहितं लक्ष्मीनृसिंहम् आराधयन्ति ।

हिरण्यकशिपुम् अङ्के संस्थाप्य संहरन् नरसिहः । प्रह्लादः पार्श्वे स्थित्वा पश्यति ।

भगवतः महाविष्णोः पञ्चमः अवतारः एव नृसिंहावतारः । एषः अवतारः महाभारते, हरिवंशे, विष्णुपुराणे, श्रीमद्भागवते, शिवपुराणे, अध्यात्मशास्त्रेषु इतिहासे च वर्णितः अस्ति । सः नृसिंहः त्रिमूर्तिः परब्रह्मस्वरूपी च । नाभिपर्यन्तं ब्रह्मरूपः, कण्ठपर्यन्तं विष्णुरूपः, शिरपर्यन्तं रुद्ररूपः इति उच्यते ।

अनाभि ब्रह्मणो रूपम् आगलाद्वैष्णवं वपुः ।
आशीर्षं रुद्रमीशानं तदूर्ध्वं सर्वतः शिवः ॥

श्रीमद्भागवते नरसिंहावतारः एवं वर्णितः अस्ति –

वैकुण्ठस्य द्वारपालकौ जयविजयौ सनकादिमुनीनां शापकरणतः असुरजन्म प्राप्नुवन्ति । तेषु त्रिषु असुरजन्मसु प्रथमं जन्म एव हिरण्याक्ष-हिरण्यकशिपोः । महाविष्णुः वराहावतारेण हिरण्याक्षं संहरति । तेन कुपितः हिरण्यकशिपुः भगवद्भक्तान् सज्जनान् देवान् च बहुधा पीडयितुम् आरब्धवान् । तीक्ष्णं तपः आचर्य नरैः वा मृगैः वा, सुरासुरोरगैः वा, ब्रह्मणा सृष्टेन येनकेनापि प्राणिना वा, दिवा वा रात्रौ वा, भूमौ वा आकाशे वा, गृहस्य अन्तः वा बहिः वा, येन केनापि आयुधेन वा मम मृत्युः न सम्भवेत् । सर्वत्रापि मम एकाधिपत्यं च भवेत् । इति ब्रह्मसकाशात् वरं प्राप्नोत् । तस्य वरस्य बलेन लोककण्टकः सञ्जातः । हिरण्यकशिपोः पुत्रः प्रह्लादः । राज्ञः आज्ञानुगुणं शुक्राचार्यस्य शिष्याः तम् असुरसिद्धान्तं बोधितवन्तः । पित्रा यदा प्रश्नः कृतः तदा सः “विष्णुभक्तिरेव श्रेष्ठा” इत्यवदत् । पुनः पुनः पृष्टे सति तदेव उत्तरं प्राप्य कुपितः हिरण्यकशिपुः पुत्रं प्रह्लादं संहर्तुम् आदिष्टवान् । तदनुगुणं दैत्यभटाः तं शूलादि आयुधैः, विषसर्पैः, दिग्गजैः, अभिचारक्रियाभिः इत्यादिभिः बहुविधोपायैः मारयितुं प्रयत्नम् अकुर्वन् । किन्तु ते तस्मिन् कर्मणि सफलाः नाभवन् । तदा क्रुद्धः हिरण्यकशिपुः सन्ध्यासमये प्रह्लादं सभाम् आहूय सर्वेषां पुरतः खड्गपाणिः सन् “कुत्र अस्ति भवतः विष्णुः ? भवता सर्वव्यापी इति उच्यमानः सः अस्मिन् स्तम्भे अपि अस्ति वा ? यदि अत्र सः न दृश्यते तर्हि भवन्तम् अत्रैव मारयामि” इति वदन् स्तम्भं मुष्ट्या अताडयत् । तदा तस्मात् स्तम्भात् भीकरं गर्जनं श्रुतम् । ततः कण्ठपर्यन्तं नररूपः तदुपरि सिंहरूपः च उग्रमूर्तिः नृसिंहः आविर्भूतः ।

सत्यं विधातुं निजभृत्यभाषितम् ।
व्याप्तिं च भूतेष्वखिलेषु चात्मनः ॥
अदृश्यतात्यद्भुतरूपमुद्वहन् ।
स्तम्भे सभायां न मृगं न मानुषम् ॥

तत्रैव तं हिरण्यकशिपुं सभायाः देहल्याम् उपविश्य (गृहस्य अन्तः अपि न बहिः अपि न) नखैः तस्य उदरं विदार्य (केनापि आयुधेन न) समहरत् । सन्ध्याकालः दिनम् अपि न रात्रिः अपि न । नृसिंहः मनुष्यः अपि न पाणिरपि न, ब्रह्मसृष्टिरपि न ।

सृष्टेः आरम्भे ब्रह्मा एतत् व्रतम् आचर्य एव सृष्टिकार्यम् आरब्धवान् इति । रुद्रदेवः अपि एतत् व्रतम् आचर्य त्रिपुरासुरसंहारस्य सामर्थ्यं प्राप्नोत् इति । अस्य व्रतस्य महत्त्वं ब्रह्म-शिवादिभिः स्वयं नृसिंहेन अपि वर्णयितुं न शक्यते इति वदन्ति शास्त्राणि ।

"https://sa.wikipedia.org/w/index.php?title=नृसिंहजयन्ती&oldid=486697" इत्यस्माद् प्रतिप्राप्तम्