चातुर्मास्यव्रतम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
हिन्दुधर्मःOm symbol.svg

हिन्दुधर्मःइतिहासः

Portal:HinduismHinduSwastika.svg

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

एतत् व्रतं संन्यासिनाम् इति चिन्तयन्ति बहवः । शास्त्रवाक्यानुसारम् एतत् सर्वैः अपि आचरणीयं पर्व । न आचरन्ति चेत् प्रत्यवायदोषः भवति इति उच्यते ।

चत्वार्येतानि नित्यानि चतुराश्रमवर्णिनाम् ।
नित्यान्येतानि विप्रेन्द्र व्रतान्याहुर्मनीषिणः ॥ इति ।

एतत् व्रतं न आचरन्ति चेत् समग्रस्य वर्षस्य पापलेपः भविष्यति इति वदति महाभारतम्

वार्षिकान् चतुरो मासान् वाहयेत् केनचिन्नरः ।
व्रतेन नोचेदाप्नोति किल्बिषं वत्सरोद्भवम् ॥

प्रतिवर्षं मासचतुष्टयम् आचर्यते इत्यनेन एतत् व्रतं “चातुर्मास्यम्” इति उच्यते । ते चत्वारः अपि मासाः वर्षाकालात्मकाः इत्यनेन “वर्षर्तुव्रतम्” इत्यपि उच्यते । एतत् व्रतम् आषाढमसस्य एकादशीतः द्वादशीतः अथवा पूर्णिमातः आरभ्यते । कर्काटकसङ्क्रमणदिने वा अनिवार्यं चेत् तुलासङ्क्रमणदिने वा आरम्भणीयम् एव । उपर्युक्तेषु दिनेषु कस्मिन्नपि दिने आरब्धं चेदपि कार्त्तीकशुद्धद्वादशीदिने (उत्थानद्वादशी) व्रतसमाप्तिम् आचरेयुः ।

आषाढशुक्लद्वादश्यां पौर्णामस्यामथापि वा ।
चातुर्मास्यव्रतारम्भं कुर्यात् कर्कटसङ्क्रमे ।
अभावे तु तुलार्केऽपि मन्त्रेण नियमं व्रती ॥ (वराहपुराणम्)
चतुर्धा गृह्यवैचीर्णं चातुर्मास्यव्रतं नरम् ।
कर्त्तीके शुक्लपक्षे तु द्वादश्यां तत्समापयेत् ॥ (निर्णयसिन्धुः)

चातुर्मास्यावसरे गुडवर्जनात् मधुरध्वनिः, तैलवर्जनात् सुन्दराङ्गं च प्राप्नुवन्ति इति वदन्ति पुराणानि

मधुरस्वरो भवेन्नित्यं नरो गुडविवर्जनात् ।
तैलस्य वर्जनादेव सुन्दराङ्गः प्रजायते ॥
शेषशयनः नारायणः

उत्तरभारते विशेषरूपेण एतत् व्रतम् आचरन्ति । तत्रापि विशेषतया महिलाः आचरन्ति । एतत् व्रतम् आचर्यमाणाः उपवासं कृत्वा निद्रामुद्राभिरामं नारायणं ध्यान-स्तोत्र-पूजादिभिः आराधयन्ति । लौकिककार्याणि न्यूनीकृत्य ब्रह्मचर्यनियमं पालयन्ति । रादद्वेष-अनृतभाषणादिकं त्यजन्ति । व्रतदीक्षानुगुणं भवति तेषां वेषभूषणम् । प्राणिहिंसां न कुर्वन्ति । शास्त्रनिषिद्धम् आहारं न सेवन्ते । मधुमांसादिकं मासचतुष्टयम् अपि त्यजन्ति । श्रावणमासे शाकं, भाद्रपदे दधि, आश्वयुजे क्षीरं, कार्त्तीके च द्विदलधान्यं न उपयोक्तव्यम् । एतत् क्रमशः शाकव्रतं, दधिव्रतं, क्षीरव्रतं, धान्यव्रतम् इति वदन्ति ।

श्रावणे वर्जयेच्छाकं दधि भाद्रपदे तथा ।
दुग्धमाश्वयुजे मासि कार्त्तीके द्विदलं त्यजेत् ॥

द्विदलधान्यं, बहुबीजफलं, वृन्ताकं च सम्पूर्णतया त्यजन्ति चेत् उत्तमम् इति । कूष्माण्डं, बदरीं, तिन्त्रिणीं, मूलकम्, इक्षुम्, आमलकं च वर्जयेत् । तत्तत्काले प्राप्यमाणानि शाकानि अपि त्यक्तव्यानि । एतेषु मासचतुष्टयेषु अपि हविष्यान्नभोजनम् अत्युत्तमम् ।

द्विदलं बहुबीजं च वृन्ताकं च विवर्जयेत् ।
विशेषाद् बदरीं धात्रीं कूष्माण्डं तिन्त्रिणीं त्यजेत् ॥
तत्कालोद्भवश्याकाः वर्जनीयाः प्रयत्नतः ।
चतुर्ष्वपीह मासेषु हविष्याशी न पापभाक् ॥

व्रतसमाप्त्यनन्तरं श्रोत्रियान् आहूय गो-भू-हिरण्य-वस्त्रादिदानं दातव्यम् । काम्यदृष्ट्या गुड-तैल-कटुतैल-ताम्बूल-घृत-फल-शाकपत्राशन-दधिक्षीरत्यागं ये कृतवन्तः ते क्रमशः मधुरध्वनिं, सुन्दरशरीरं, शत्रुनाशं, सुखभोगं, लावण्यं, बुद्धिशक्तिं, बहुपुत्रभाग्यं, पक्वान्नलाभं, गोलोकं च प्राप्नुवन्ति । ब्रह्मचर्याचरणेन देहेन्द्रिय-मनो-बुद्धि-शक्तिवर्धनं भवति ।


एतैः नियमैः सह संन्यासिनाम् इतोपि केचन नियमाः भवन्ति । संन्यासी आषाढपूर्णिमायां क्षौरं समाप्य व्रतारम्भं कुर्यात् । व्रतसमाप्तिपर्यन्तं मध्ये क्षौरकरणं नास्ति । नदीक्रमणं न करणीयम् । क्रोशादपेक्षया अधिकं दूरं प्रयाणं न कुर्यात् ।

आषाढ्यां पौर्णमास्यान्तु वपनं कारयेद्यतिः ।
तेषु मासेषु केशादीनृतुसन्धौ न वापयेत् ।
नदीश्च न तरेत्तेषु क्रोशादूर्ध्वं न च व्रजेत् ॥

सर्वभूतहितार्थं माधवः चतुरः मासान् शेषशयनं करोति तावदहम् अपि एकत्र वसामि । भवतां क्लेशः नास्ति चेत अहम् अत्रैव वसामि इति गृहस्थान् वदेत् संन्यासी । अनन्तरं तस्य शिष्यवर्गः वयमपि अत्र यथाशक्ति गुरुसेवां कृत्वा कृतार्थाः भवामः इति उक्त्वा तत्रैव वसन्ति । तदवसरे वेदव्यासं, सनकादियोगीन्, श्रीगणेशं, दुर्गां, सरस्वतीं, क्षेत्रपालकान्, व्यासशिष्यान् गुरून् च आराधयन्ति ।

चतुरः मासान् आचरितुं न शक्यते चेत् आरम्भस्य मासद्वयं वा आचरेयुः एव । व्रतसमाप्त्यनन्तरं स्नात्वा मृत्तिकाशेषं जले विसर्ज्य पूर्वदिशि वा उत्तरदिशि वा प्रयाणं कृत्वा प्रत्यागच्छेत् । व्रतावसरे मौनव्रतम् आचरन्ति चेत् वरम् । अथवा ध्यान-जप-तप-पारायणं वा करणीयम् ।

"https://sa.wikipedia.org/w/index.php?title=चातुर्मास्यव्रतम्&oldid=398151" इत्यस्माद् पुनः प्राप्तिः