तिन्त्रिणी

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
तिन्त्रिणी
तिन्त्रिणीवृक्षः

इयम् अपि भारते बर्धमानः, उपयुज्यमानः च सस्यजन्यः आहारपदार्थः । अयं तिन्त्रिणीवृक्षः भारते वर्धमानः कश्चन वृक्षविशेषः अपि । अयं वृक्षः भारतस्य सर्वेषु प्रदेशेषु वर्धते, दक्षिणभारते अधिकतया दृश्यते । तद्विना चीनादेशे अधिकतया वर्धते । अयं वृक्षः ३० – ३५ पादमितः उन्नतः भवति । अस्य पर्णानि लघ्वाकारकाणि, संयुक्तानि च । अस्य वृक्षस्य फलानि ३ – ४ अङ्गुलं यावत् दीर्घाणि भवन्ति । फलानाम् अन्तः कपिलवर्णीयाणि ५ – ६ बीजानि भवन्ति । इमानि फलानि आम्लानि भवन्ति । पर्णानि अपि आम्लानि भवन्ति । तानि फलानि पाके अपि उपयुज्यन्ते । संस्कृते अस्य वृक्षस्य “चिञ्चा” इति अपरं नाम अस्ति । अस्मिन् तिन्त्रिणीफले ५ % यावत् टार्टरिक् आम्लं, ४ % यावत् सिट्रिक् आम्लं, मालिक् आम्लम्, एसिटिक् आम्लं, ८ % यावत् पोट्याषियं टार्टरिक्, २५ – ४० % यावत् शर्करा, निर्यासः, डेकटिन् इत्यादयः अंशाः भवन्ति । अस्य बीजे ट्यानिक् मेदः, आल्ब्ग्युमिनोय्ड्, कार्बोहैड्रेट्, ६३.२२ % यावत् दलस्नसा, ससारजनकं, रञ्जकं चापि विद्यते ।

इतरभाषाभिः अस्य तिन्त्रिणीवृक्षस्य नामानि[सम्पादयतु]

हिन्दीभाषया “इम्लि” इति, तेलुगुभाषया “बेण्टापण्डु” इति, तमिळ्भाषया “पुलियां पलाम्” इति, कन्नडभाषायां “हुणसे मर” इति च उच्यते । एषा तिन्त्रिणी आङ्ग्लभाषायां Tamarind इति उच्यते । अस्याः तिन्त्रिण्याः वैज्ञानिकं नाम अस्ति Tamarindus indica इति । एषा तिन्त्रिणी प्रायः समग्रे भारते उपयुज्यते । दक्षिणभारते तु तिन्त्रिणी प्रतिदिनम् इव उपयुज्यते । सारस्य, क्वथितस्य, व्यञ्जनस्य, उपसेचनस्य वा निर्माणे तिन्त्रिण्याः उपयोगः क्रियते । तमिळुनाडुराज्ये तु तिन्त्रिणिप्रधानम् एव “पुळियोगरे” नामकं खाद्यविशेषं निर्मान्ति । (पुळियोगरे इत्यस्य संस्कृते “आम्लान्नम्” इति वक्तुं शक्यते)। अस्याः बङ्गभाषायां नाम वर्तते "तेँतुल्" अथवा "तिस्तिड़ी" इति, ओड़िआभाषायां च "तेन्तुळि" इति। एतस्याः तिन्त्रिण्याः संस्कृते “चिञ्चा” इति अपि नाम अस्ति ।

आयुर्वेदस्य अनुसारम् अस्य तिन्त्रिणीवृक्षस्य प्रयोजनानि[सम्पादयतु]

अस्य वृक्षस्य रसः आम्लः, गुणः गुरु, रूक्षः चापि ।

• इयं तिन्त्रिणी कफं शमयति ।
• अग्निमान्द्ये, अरुचौ चापि तिन्त्रिणी उपयुज्यते ।
• इयम् उदरबाधां, गुल्मं, मलबद्धतां चापि निवारयति ।
• बालानां ज्वरावसरे, आतपस्य बाधायां च अस्याः पानकस्य उपयोगः क्रियते ।
• शोथे अस्य तिन्त्रिणीफलस्य लेपः क्रियते ।
• अतिसारे अस्य बीजस्य चूर्णं हितकरम् ।
• ज्वरावसरे अस्य पर्णानां रसः उपयुज्यते ।
• मूलव्याधौ अस्य पर्णानां स्वरसः हितकरः ।
• कण्ठवेदनायाम् अस्य बीजस्य चूर्णं जले योजयित्वा उपयुज्यते ।
शाखासु लम्बमाना तिन्त्रिणी


आयुर्वेदस्य अनुसारम् अस्याः तिन्त्रिण्याः स्वभावः[सम्पादयतु]

तिन्त्रिणीसस्यम्
तिन्त्रिण्या निर्मितानि लड्डुकानि
तिन्त्रिणीपुष्पम्

एषा तिन्त्रिणी आम्लरसयुक्ता, गुणेषु गुरुगुणयुक्ता च ।


१. तिन्त्रिणी पित्तं, कफं, रक्तं च वर्धयति, प्रकोपयति च ।
२. तिन्त्रिणी वातं शमयति ।
३. तिन्त्रिणी रूक्षा, उष्णा च ।
४. तिन्त्रिणी अग्निदीपिका, कफवातहारिणी च ।
५. तिन्त्रिणीं जीरिकया, गुडेन सह समप्रमाणेन योजयित्वा जलमयं कृत्वा सेवनेन दाहः (पिपासा) निवारितः भवति । मुखे रुचिः अपि वर्धते ।
६. तिन्त्रिणीं मार्काण्डिकपत्रेण (Senna) सह सेवनेन मलस्य अवरोधः निवारितः भवति ।
७. तिन्त्रिणीपर्णस्य पेषणं कृत्वा व्रणस्य शोथे लेपनेन व्रणः शोथः च अपगच्छति ।
८. आम्लपित्तरोगेण बाधिताः तिन्त्रिण्याः उपयोगं न कुर्युः ।
९. पित्तरक्तदोषे सति अपि तिन्त्रिणी न उपयोक्तव्या ।
१०. चर्मरोगिभिः अपि तिन्त्रिण्याः उपयोगः न करणीयः ।
"http://sa.wikipedia.org/w/index.php?title=तिन्त्रिणी&oldid=250302" इत्यस्माद् पुनः प्राप्तिः