अशोकवृक्षः
अशोकवृक्षः | ||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
Ashoka flower bunch
| ||||||||||||||||
जैविकवर्गीकरणम् | ||||||||||||||||
| ||||||||||||||||
द्विपदनाम | ||||||||||||||||
Saraca asoca (Roxb.) Wilde | ||||||||||||||||
पर्यायपदानि | ||||||||||||||||
Saraca indica Linnaeus | ||||||||||||||||
अशोकः कश्चित् मध्यमाकारकः सुन्दरः वृक्षः । मन्दं प्रवर्धमानस्य अस्य वृक्षस्य औन्नत्यं ६मीटर् मितम् । लम्बानि कुशाग्राणि च अस्य पत्राणि । आवृक्षं पुष्पाणां मञ्जर्यः भवन्ति । काषायवर्णस्य पुष्पाणि नयनमनोहराणि भवन्ति । अस्य शलाटवः पिङ्गलवर्णीयाः १०सें.मी लम्बाः भवन्ति । शलाटूनाम् अन्तः बीजपङ्क्तिः भवति । समुद्रस्तरात् २-३सहस्रं पादपरिमितोन्नतेषु प्रदेशेषु नाम पूर्वभारतस्य ईशान्यभारतस्य च अरण्येषु अधिकतया प्ररोहन्ति । अयम् अशोकः भारते सर्वत्र वर्धमानः कश्चन प्रसिद्धः वृक्षविशेषः । अस्य वृक्षस्य त्वक्, बीजं, पुष्पं च औषधत्वेन उपयुज्यते । अस्मिन् अशोकवृक्षे “हिमोटाक्सिलिन्” इत्येषः रासायनिकः अंशः अस्ति । अस्य “आल्कोहालिक् एक्स्ट्राक्ट्(सारजननकीये सत्त्वे)” इत्यत्र “ट्यानिन्” अंशः तथा केचन् लोहांशाः च सन्ति । अस्य अशोकवृक्षस्य “ताम्रपल्लवः” इत्यपि नाम अस्ति ।
इतरभाषासु अस्य अशोकवृक्षस्य नामानि
[सम्पादयतु]अयम् अशोकवृक्षः आङ्ग्लभाषया Ashok Tree अथवा Saraca Indica इति उच्यते । हिन्दीभाषया “असोक्” इति, तेलुगुभाषया “असोक” इति, तमिळ्भाषया “असोगम्” इति, मलयाळभाषया “अशोक” इति, कन्नडभाषया “अशोक” अथवा “केङ्कलि मर” इति च उच्यते ।
आयुर्वेददृष्ट्या अशोकवृक्षस्य प्रयोजनानि
[सम्पादयतु]अशोकः यद्यपि वृक्षजातौ अन्तर्भवति तथापि तस्य औषधीयत्वस्य कारणतः औषधीयानां सस्यानां गणे अपि अन्तर्भवति । अशोकस्य रसः तिक्तमिश्रित - कषायरुचियुक्तः । सः रूक्षः न्यूनभारयुतः चापि।
- अशोकवृक्षस्य त्वक् गर्भाशयस्य रोगाणां निमित्तम् अत्यन्तं प्रयोजनकारिणि । अधिक–मासिक्रस्रावे अस्य उपयोगः उत्तमं फलं ददाति । अशोकस्य त्वचः चूर्णम् एकप्रमाणं, धेनोः दुग्धं तस्य चतुर्गुणितं, तथा जलं तस्य चूर्णस्य १६ गुणितं योजयित्वा सम्यक् क्वथनीयम् । जलं सम्पूर्णतया न्यूनं भवेत् । अनन्तरम् अवशिष्टम् औषधम् अधिकस्रावे ४ चमसं यावत् सेवनीयम् ।
- रक्त–अतिसारे अशोकस्य पुष्पस्य चूर्णं जलेन सह सेवनीयम् ।
वृक्षपावित्र्यम्
[सम्पादयतु]अशोकवृक्षस्य सस्यशास्त्रीयं नाम Saraca Indica इति । अस्य कुलम् abaceae। भारतीयाः अमुं वृक्षं पवित्रं भावयन्ति । अनेन वृक्षेण सह इतिहासपुराणादीनां कथाः सम्बद्धाः । रावणस्य लङ्कायाम् अशोकवनस्य उल्लेखः अस्ति । अयमेव वृक्षः यस्य अधः रावणेन अपहृता सीता उपविष्टा आसीत् । अशोकवृक्षे पुष्पाणां विकासः एव मनोहरम् । कुसुमकाले काण्डतः शाखापर्यन्तं सर्वत्र पुष्पगुच्छाः सम्भवन्ति । प्रतिगुच्छम् अनेकाः लघुगुच्छाः भवन्ति । ४दलायुतानां पुष्पाणां मध्ये लम्बाः केसराः भवन्ति । (यथा चित्रे) विकसनकाले मन्दपीतवर्णेन विद्यमानानि पुष्पाणि अन्येद्युः निबिडरक्तवर्णं प्राप्नुवन्ति । विकसनकाले पुष्पेषु प्रबलः सुगन्धः न भवति किन्तु दिनावसाने सुगन्धः अधिकः भवति । गौतमबुद्धः अशोकवने जातः इति प्रतीतिः अस्ति । अतः बौद्धविहारेषु अस्य वृक्षस्य विशेषप्रामुख्यम् अस्ति । कामदेवस्य अस्मिन् वृक्षे विशेषः आदरः इति पुराणेषु कथितम् ।
औषधी
[सम्पादयतु]अशोकवृक्षे भेषजगुणाः सन्तीति चरकसंहितायाम् उल्लिखितम् । अस्य वृक्षस्य वल्कलानि, पुष्पाणि, बीजानि अशोकारिष्टम्, अशोकघृतम् इत्यादिषु औषधेषु उपयुज्यन्ते । वल्कलेषु ट्यानिन् अंशः अस्ति । अतः रुचिवर्धनार्थं आकर्षकवर्णार्थं च अस्य त्वचः रजांसि चायपत्ररजोभिः सह योजयन्ति ।
चित्रवीथिका
[सम्पादयतु]-
अशोककाष्ठम्
-
अशोकपत्राणि पुष्पाणि च
-
पुष्पाणि
-
पुष्पाणि
-
पुष्पगुच्छम्
-
वृक्षे पुष्पाणि विकसितानि सन्ति
-
कुसुमम् पुष्पाणि च