गिरिमल्लिकावृक्षः
गिरिमल्लिकावृक्षः | |
---|---|
गिरिमल्लिका पुष्पः |
गिरिमल्लिकावृक्षः पत्रम् | |
---|---|
गिरिमल्लिकावृक्षः शाखा |
गिरिमल्लिकावृक्षः पत्रम् | |
---|---|
गिरिमल्लिकावृक्षः |
गिरिमल्लिकावृक्षः पत्रम् | |
---|---|
गिरिमल्लिकावृक्षः |
अस्य सस्यशास्त्रीयं नाम भवति होलर्र्हेन एण्टिडैसेण्ट्रिका इति । इन्द्रकालिङ्गः इति अस्य नामान्तरम् । अस्य कुटुम्बः अपोसैनेसि इति । भारतस्य नित्यहरिद्वर्णकाननेषु नितरां रोहति ।
अन्यभाषासु अस्य वृक्षस्य नामानि यथा...
आङ्ग्लम् - दि ईस्टर् ट्री, कोनेस्सि बार्क् । Cauch Tree, Black cauchu
कन्नडम् - कोडमुरक, हलगत्तिमर, तोडचग, बेप्पाले । ಕೊಡಮುರಕ, ಹಲಗತ್ತಿಮರ, ತೊಡಜಗ, ಬೆಪ್ಪಾಲೆ |
हिन्दी - कुर्चि, धुदि ।
तमिळु - वेपलि । வெபபி|
तेलुगु -कोडग । కొడగ।
मराठि - कुड, कोडग फंडरकुड ।
मलयाळम् - कुट्टुकप्पुल, कुडिजि । കുട്ടുകപ്പുല, കുഡിജി |
अयं गिरिमल्लिकावृक्षः कश्चित् लघुवृक्षः ३मी.पर्यन्तं वर्धते ।अस्य मन्दभस्मवर्णीयां त्वचि छेदरेखाः भवन्ति । अभिमुखसंयुक्तानि पर्णानि १०-२०से.मी दीर्घाणि १२से.मी.विशालनि तीक्ष्णहरिद्वर्णीयानि च भवन्ति । शाखायाः अन्ते एव पुष्पगुच्छानि जायन्ते । पुष्पदलमण्डलं प्रणाल्याकारे भवति । पुष्पानां वर्णः शुक्लः । ३.५से.मी. दीर्घः परागाशयः भवति । गिरिमल्लिकावृक्षाः मार्चमासतः मेमासस्य अवधौ कुसुमिताः भवन्ति । मुरुङ्गीफलमिव सुदीर्घं किन्तु यमलफलम् अस्य वृक्षस्य विशेषः । फलान्तर्गतस्य बीजस्य वर्णः पिङ्गलः । अस्य दीर्घबीजस्य उपरि चीनांशुकः इव केशाः सन्ति । अस्य वृक्षस्य वंशप्रसारः बीजैः एव भवति ।
उपयोगाः
[सम्पादयतु]उद्यानस्य शोभां वर्धयितुं गिरिमल्लिकावृक्षान् आरोपयन्ति । अस्य वल्कलानि बल्योत्पादने उपयोजयन्ति । ज्वरः अतिसारः मूलव्याधिः इत्यादिरोगशमनार्थं वैराणुनाशार्थम् उपयुज्यते । आस्तमारोगस्य कामलारोगस्य च निवारणस्य औषधेषु अस्य बीजानि वल्कलानि च उपयोगाय भवन्ति । उत्कीर्णताकार्ये पिठोपकरणनिर्माणे च सस्य दरुणाम् उपयोगः भवति ।