पीतशाल्मली
पीठिका
[सम्पादयतु]अस्य सस्यशास्त्रीयं नाम काक्लोस्पर्म् (Cochlospermun go symposium DC.)इति । काक्लोस् नाम शङ्खः, स्पर्म इत्युक्ते बीजम् । प्रायः एतत् फलस्य रूपगुणौ च सूचयति । गास्सिप्पियं इति बीजं परितः विद्यमानं कौशेयसदृशं वस्तुं सूचयति । विविधाभाषासु अस्य नामानि एवं भवन्ति ।
आङ्ग्लम् - येल्लो सिल्ककाटन् ट्री । Yellow silk cotton Tree
कन्नडम् - काडुबूरुग, बेट्टदावरे, ಕಾಡುಬೂರುಗ, ಬೆಟ್ಟದಾವರೆ
हिन्दी - गल् गल् कुम्बि
तमिळु - तन्नकु काट्टिलवन् , தன்னகு காட்டிலவன் ।
तेलुगु - अक्षोतमु, पिसुन । అక్షోతము, పిసున ॥
मराठि - गनेरि ।
मलयाळम् - चम्पानि, ചമ്പാനി ।
अस्य कुटुम्बः - काक्लोस्पर्मेसि
भारतस्य सर्वेषु शुष्कोष्णप्रदेशेषु प्ररोहति ।
वृक्षस्य रूपपरिचयः
[सम्पादयतु]पीतशाल्मलीवृक्षस्य औन्नत्य ६मी पर्यन्त वर्धते । पर्णानि विरलानि निबिडहरिद्वर्णानि एरण्डलेव षड्दलयुक्तानि किन्तु शाखानाम् अन्ते केवलं भवन्ति । काण्डः भस्मवर्णितः वल्कलः मसृणः च भवति । पीतशाल्मलीवृक्षः फेब्रवरितः मार्चमासान्ते काले पत्राणि पातयन्ति । एप्रिल् मासे पत्ररहितेषु वृक्षेषु क्रमशः पुष्पोद्भवः भवति । भासमानसुवर्णवर्णस्य पुष्पाणि गुच्छेषु भवन्ति । अस्य शलाटवः पिङ्गलवर्णिताः५तः७.५से.मी.दीर्घाः बीजकोशसहिताः भवन्ति । बीजानि काजूतकः इव दृश्यमानानि कौशेयः इव वस्तुभिः आवृतानि च भवन्ति । बीजेनैव अस्य वृक्षस्य वंशप्रसरणं भवति ।
उपयोगाः
[सम्पादयतु]पुष्पानि अलङ्करणार्थम् उपयुज्यन्ते । आलङ्कारिकवृक्ष इव मार्गपर्श्वे प्रारोपयन्ति । अस्य निर्यासः खासस्य औषधेषु शुष्कपत्राणि पुष्पाणि च उत्तेकपानीयेषु उपयुज्यन्ते । अस्य वृक्षचर्मणः कषायं रोटिकाचूर्णेन सह उपयोगेन पौष्टिकः आहारः भवति । शिरसः अत्यष्णता निवारणार्थं पत्राणां रसेन शिरक्षालनं कुर्वन्ति । रक्तातिसारस्य नियन्त्रणार्थमपि अस्य निर्यासस्य उपयोगः भवति । केशवर्णनार्थं पुष्पाणाम् उपयोगः भवति । अस्य फलानां कौशेयसदृशवस्तुभिः शय्याः उपधानानि च निर्मीयन्ते । अस्य बीजतैलं तु दीपज्वालनाय भवति । पादरक्षा निर्माणे अपि वृक्षनिर्यासस्य उपयोगः भवति । केचन बीजानि भर्जयित्वा खादन्ति ।