कदम्बः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कदम्ब
Neolamarckia cadamba
Tree in Kolkata, West Bengal, India.
Close-up of flower
Close-up of flower
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Asterids
गणः Gentianales
कुलम् Rubiaceae
वंशः Neolamarckia
जातिः N. cadamba
द्विपदनाम
Neolamarckia cadamba
(Roxb.) Bosser
पर्यायपदानि
  • Nauclea cadamba Roxb.
  • Anthocephalus cadamba (Roxb.) Miq.
  • Anthocephalus chinensis auct., non Anthocephalus chinensis (Lam.) A.Rich. ex Walp.[१]
  • Anthocephalus indicus var. glabrescens H.L.Li
  • Anthocephalus morindifolius Korth.
  • Nauclea megaphylla S.Moore
  • Neonauclea megaphylla (S.Moore) S.Moore
  • Samama cadamba (Roxb.) Kuntze
  • Sarcocephalus cadamba (Roxb.) Kurz

कदम्बः इति वृक्षविशेषः आपुणकालत् श्रूयते । ..... सुराजीवजः कदम्बवनकैरवचारुकलिन्दनकन्यका ॥ ........ कटाक्षयतु कल्याणी कदम्बवनवासिनी॥ इत्यादिषु देवीस्त्रोत्रेषु कदम्बवनस्य प्रस्तावः इति अस्य प्राचीनतातां सूचयति । कदम्बस्य अधुनिकं नाम रूबियेसी कदम्बा । सस्यशास्त्रीयं नाम नियोलामार्सिका कदम्बा (Neolamarckia cadamba) इति । एतत् रूबियेसी कुटुम्बसम्बद्धः इति वदन्ति । कदम्बवृक्षाणां स्मरणेन श्रीकृष्णस्य स्मरणमपि भवति । वृन्दावने कदम्बावने श्रीकृष्णः वेणुं वादयन् नृत्यति स्म इति श्रूयते । अधुना अपि मथुरा- भरतपुर नगरयोः मध्ये कदम्बवनानि सन्ति । हिमालयस्य उपत्यकायां, नेपाले, बर्मादेशे च कदम्बवृक्षाः अधिकतया वर्धन्ते । कर्नाटकस्य पश्चिमघट्ट प्रदेशेषु अस्मां –राज्ये अण्डमाननिकोबारादिषु द्वीपेषु अपि कदम्बवृक्षाः वर्धन्ते । अयं सामान्यतः ३०-४० पाद्परिमितः उन्नतः भवति ।

समृद्धः कदम्बवृक्षः
कदम्बवृक्षः
कदम्बकलिका कुसुमं च

प्रभेदाः[सम्पादयतु]

निघण्डुषु कदम्बस्य अनेके प्रभेदाः उल्लिखितः सन्ति ते च

  • धाराकदम्बः ( Anthociphalus cadamba) – अयं वर्षाकाले । पुष्पितः भवति ।
  • धूलीकदम्बः (Mitragyna parviflora) – अयं वर्षाकालात् पूर्वं वसन्ते, ग्रीष्मे वा पुष्पितः भवति
  • भूमिकदम्बः (Mitragyna rotundifolia) – अयं वृक्षः गात्रे हस्वः लघुः च

गुणलक्षणानि[सम्पादयतु]

कदम्बः

अतिवेगेन वर्धमानः अयं वृक्षः अण्डमान्, आसाम् प्रदेशेषु दृश्यते । संवृद्धः वृक्षः ४०पादपरिमितम् उन्नतिं प्राप्नोति । अस्य पत्राणि मधूकवृक्षस्य पत्राणि इव भवन्ति । वर्षर्तोः काले अयं वृक्षः कुसुमितः भवति । अस्य शखासु पीतवर्णस्य सुगन्धितपुष्पगुच्छाः भवन्ति । मेघगर्जनं श्रुत्वा एतेषु वृक्षेषु पुष्पाणि विकसन्ति इति प्रतीतिः अस्ति । पीतः परागः यदा पक्वं भवति तदा तस्य वर्णः रक्तः भवति । एतस्य हरिद्रः अथवा नीपः इति अपि कथयन्ति । पुष्पाणि सुगन्धतैलनिर्माणार्थम् उपयुज्यते । कदम्बस्य त्वचि सिङ्कोटेनिक् आम्लसदृशं कार्यकारि द्रव्यम् उपलभ्यते । अपि च अस्मिन् क्षाराभः । स्टीराय्ड्, वसा, शर्करान्यूनीकः (Reducing sugars) च भवति । आयुर्वेदानुसारम् अयं रुक्षगुणः, तिक्वकषायरसः, कटुविपाकः , शीतवीर्यश्च विद्यते । अस्य त्वचि फले च औषधीयगुणाः अधिकाः विद्यन्ते ।


उपयोगः[सम्पादयतु]

१) कदम्बः त्रिदोषशामकः अस्ति ।
२) व्रणानाम् आच्छादनार्थम् अस्य पर्णानाम् उपयोगं कुर्वन्ति । व्रणशोथस्य, वेदनायाः च हरणाय कदम्बपर्णानि उष्णीकृत्य बद्धव्यानि ।
३) कदम्बपर्णानां कषायेन पिटकान् अपि क्षालयन्ति । मुखसम्बद्ध- रोगेषु अपि पर्णानां कषायेन गण्डूषं कुर्वन्ति ।
४) अयं कास- दाह –विषहरः । ज्वरेण जातं दाहं निवारयितु कदम्बफलस्य रसं पाययन्ति ।
५) कदम्बस्य त्वचः रसे जीरकं, शर्करां च योजयित्वा पीयते चेत् वमनं शाम्यति
६) दौर्बल्यस्य विषस्य च हरणे कदम्बस्य त्वक्, फलं च उपयुक्तम् ।
७) प्रजननसंस्थानस्य (Reproductive system) उपरि कदम्बस्य प्रभावः परिणामकरी । राजनिघण्टुग्रन्थे अयं शुक्रवर्धकः इति उक्तः । शुश्रुतसंहितायां शुक्रशुद्धिकारकाणां वनस्पतीनां पट्टिकायां कदम्बः अपि वर्तते । शिक्रमेहे, अन्येषु योनिव्यापदरोगेषु कदम्बस्य कषायः सेवनीयः ।
८) स्त्रीणां प्रदररोगनिवारणाय अस्य पर्णस्य रसं कषायं च १०-२० मि.ली परिमितं स्वीकुर्वन्ति ।
९) स्तनवृद्धयै अस्य फल रससेवनं परिणामकारि ।
१०) मूत्रमार्गे अवरोधः अश्मरी (मूत्राशाये शिलातिर्माणः) इत्यादिषु मूत्रजनकः अश्मशिशर्करानाशकः च सन् कार्यं करोति । अस्य कदम्बस्य मूलस्य कषायः सेवनीयः ।

टिप्पणी[सम्पादयतु]

  1. USDA, ARS, National Genetic Resources Program (8 January 2007). "Anthocephalus chinensis". Germplasm Resources Information Network - (GRIN). National Germplasm Resources Laboratory, Beltsville, Maryland. आह्रियत 31 August 2013. 

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कदम्बः&oldid=480078" इत्यस्माद् प्रतिप्राप्तम्