हरीतकी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
हरीतकी
A leafless T. Chebula tree
A leafless T. Chebula tree
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
गणः Myrtales
कुलम् Combretaceae
वंशः Terminalia
जातिः T. chebula
द्विपदनाम
Terminalia chebula
Retz.
पर्यायपदानि
  • Buceras chebula (Retz.) Lyons
  • Myrobalanus chebula (Retz.) Gaertn.
  • Myrobalanus gangetica (Roxb.) Kostel.
  • Terminalia acuta Walp.
  • Terminalia chebula var. chebula
  • Terminalia gangetica Roxb.
  • Terminalia parviflora Thw.
  • Terminalia reticulata Roth
  • Terminalia zeylanica Van Heurck & Müll. Arg.
हरीतकीवृक्षः

हरीतकी प्रायेण दक्षिण-एशिया प्रदेशे दृश्यते। वैज्ञानिकभाषया Terminalia chebula इति नाम्नः इदं सस्यं, 'काम्ब्रेटेनी' (Combretaceae)सस्यकुटुम्बे अन्तर्भवति. हरीतकी औषधरूपेण अस्माकं देशे आबहोः कालाद् प्रसिद्धा। आयुर्वेदे औषधराजः इति इदं फलं प्रसिद्धम्। यौवनपरिरक्षणाय, अनेकेषां व्याधीनां निवारणाय च अस्य उपयोगः क्रियते।

लक्षणानि[सम्पादयतु]

एतस्य वृक्षः उन्नतः भवति। वृक्षस्य उपरिभागः छत्रसदृशः दृश्यते। १५ तः २० मीटर् यावत् अस्य औन्नत्यं भवति। पर्णेषु कान्तिमत् रोमाणि भवन्ति। एतस्य पुष्पं धूसरवर्णीयम् अथवा पीतवर्णीयं, दुर्गन्धयुक्तं च भवति। अपक्वं फलं हरितवर्णीयम्, शुष्कं च पीतवर्णीयं भवति। फले लघुगर्ताः भवन्ति। फले दीर्घं दृढं च बीजं भवति।.

आयुर्वेदे[सम्पादयतु]

हरीतकी

विभीतकी आमलकी हरीतकी इति त्रितयं त्रिफला इत्युच्य़ते। हरीतक्याः विषये राजवल्लभनिघण्टुग्रन्थे एवमुक्तं वर्तते—

यस्य माता गृहे नास्ति तस्य माता हरीतकी।
कदाचित्कुप्यते माता नोदरस्था हरीतकी॥

[१]

उपयोगाः[सम्पादयतु]

  • त्रिदोषवारणे हरीतकी परमौषधम् । पीनसकासज्वरादारादीन् सामान्यान् हृद्रोगसदृशान् महतः रोगान् अपि हरीतकी वारयति।
  • व्रणोपशमनार्थं हरीतकीरसलेपनम् औषधं भवितुमर्हति। रोगप्रसारकान् सूक्ष्मजीविनः हरीतकी नाशयति।
  • हनूव्रणान् वारयति।
  • जीर्णक्रियां समीकरोति।
  • नेत्रवेदनां दूरीकरोति।
  • प्रातः हरीतकीकषायपानेन देहस्य औष्ण्यं समतोलनस्थितौ भवति।
  • लैङ्गिकदौर्बल्यं वारयति।.

रासायनिकपदार्थाः[सम्पादयतु]

हरीतक्यां चेब्युलाजिक्, अयासीड्, चेब्युलाजिक् अयासीड्, चेबुलेनिक् अयासीड् कारिलेजिन् इत्यादयः रासायनिकपदार्थाः भवन्ति इति रसायनिक तज्ञाः अभिप्रयन्ति।

वाणिज्यम्[सम्पादयतु]

भारते अनेकाः वाणिज्यसंस्थाः हरीतक्याः उत्पन्नानि विक्रीणन्ति। तेषु प्रसिद्धानि इमानि सन्ति।

  • हरिटाकी
  • अभयमोदक्
  • पथ्यादिचूर्णम्
  • त्रिफलाचूर्णम्

सरलाः चिकित्साक्रमाः[सम्पादयतु]

  • पक्वस्य हरीतकीफलस्य पेषणं कृत्वा नेत्रे लेपनेन नेत्रस्य रक्तिमायाः नेत्रस्रावस्य च उपशमनं भवति।
  • चित्रमूलम्, आर्द्रकम्, हरीतकीत्वचं च चूर्णीकृत्य यवक्षारेण सह कषायं निर्माय पानेन मूलव्याधिः वार्यते।
  • त्रिफलाचूर्णस्य कषायपानेन शिरोवेदना शाम्यते।
  • घृतेन सह त्रिफलाचूर्णभक्षणेन नेत्रयोरन्धकारभानम् न भवति।
  • हरीतकीकषायेन ज्वरवारणं भवति।
  • पित्तकासस्य वारणं हरीतक्या भवति।

उल्लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=हरीतकी&oldid=439168" इत्यस्माद् पुनः प्राप्तिः