सामग्री पर जाएँ

जीरकम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
जीरकम्

जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Asterids
गणः Apiales
कुलम् Apiaceae
वंशः Cuminum
जातिः C. cyminum
द्विपदनाम
Cuminum cyminum
कार्लोस् लिनेअस् [१]
जीरिका

इयं जीरिका भारते वर्धमानः कश्चन धान्यविशेषः । विशेषरुपेण उत्तरभारते, गुजरातराज्ये पञ्जाबराज्ये च महाप्रमाणेन अस्य वर्धनं भवति । जीरिका सस्यजन्यः आहारपदार्थः । एषा जीरिका आङ्ग्लभाषायां Jeera अथवा Cumin इति उच्यते । अस्याः सस्यशास्त्रीयं नाम अस्ति Cuminum इति । भारते तु एषा जीरिका सर्वेषां गृहस्य पाकशालायां भवति एव । एषा जीरिका यथा आहारत्वेन उपयुज्यते तथैव औषधत्वेन अपि उपयुज्यते ।

जीरकस्य सस्यं समान्यतः पदपरिमितम् उन्नतं भवति । एतानि अत्यन्तं कोमलानि भवन्ति । काण्डतः उद्वताः शाखा लघुगात्राणि भवन्ति । पर्णेषु द्वित्राः विभागाः भवन्ति, एतानि रेखाकाराणि च भवन्ति । पुष्पस्य श्वेतः, पाटलः वा भवति शैत्यकाले पुष्पाणि फलानि च भवन्ति । फलं १/४ अङ्गुलपरिमितं दीर्घं भवति । तस्य अग्रभागः तीक्ष्णः कण्टकवत् भवति ।

आयुर्वेदस्य अनुसारम् अस्याः जीरिकायाः स्वभावः[सम्पादयतु]

इयं जीरिका कटुरसप्रधाना । एषा रूक्षा, पचनार्थं लघु च । एषा उष्णवीर्या अपि ।

“जीरकं कटु रूक्षं वातहृद्दीपनं परम् ।
गुल्माध्मानातिसारघ्नं ग्रहणी क्रिमिहृत् परम् ॥“ (धन्वन्तरिकोषः)
कृष्णजीरिका

प्रभेदाः[सम्पादयतु]

एषा जीरिका त्रिविधा भवति । जीरिका, कृष्णजीरिका, कालाजाजी च इति

'भावप्रकाशे' जीरकस्य त्रयः प्रभेदाः उक्ताः । सुश्रुत –संहितायां जीरकस्य प्रभेदद्वयम् उक्तमस्ति । जीरकस्य प्रसिद्धः अपरः प्रभेदः कृष्णजीरकम् । जीरकस्य सर्वे औषधीयगुणाः कृष्णजीरके अपि सन्ति । मुखदौर्गन्ध्यरोगे इदं बहुपरिणामकारि ।

जीरिकाकषायम्[सम्पादयतु]

मुख्यलेखः : जीरिकाकषायम्

जीरिका सम्यक् कुट्टनीया । अनन्तरं चषपकपरिमिते जले तत् संयोज्य सम्यक् क्वथनीयम् । जलम् अर्धचषकमितं यावत् भवेत् तावत् क्वथनीयम् । क्वथनावसरे यदि अपेक्ष्यते तर्हि तत्र मरीचचूर्णं, शुण्ठीं, हरिद्रां, गुडं च योजयितुं शक्यते । तदनन्तरं शोधनं करणीयम् । तथैव अथवा तस्मिन् शोधिते कषाये दुग्धं योजयित्वा तदा तदा किञ्चित् किञ्चित् पातुं शक्यते ।


जीरके विद्यमानाः अंशाः[सम्पादयतु]

जीरके २-४% उडनशीलतैलम् (Volatile oil) 20-40% क्युमाल्डिहैड् (Cumaldehyde), 18.7% प्रोटीन्, ३६.६% कार्बोहैड्रेट् ३६.६% , सूत्रां १२% खनिजानि ४.८% क्याल्सियं १.०८% च भवति । तेन सह रञ्जकम् अयश्च भवति । १०० ग्रां परिमितायां जीरिकायां ८७० ए. यु, विटमिन् ए, ३ मि.ग्रां विटमिन् सि च भवति ।

आयुर्वेदीय उपयोगाः[सम्पादयतु]

चर्मरोगे प्रयोगः[सम्पादयतु]

जीरकं वेदनानिवारकम् । जीरकस्य लेपः शोथं न्य़ूनिकरोति केषाञ्चित् चर्मरोगाणां निवारणे बहु उपयुक्तम् । कण्डूया, पामा, कुष्ठरोगस्य प्रभेदाः चर्मवर्णपरिवर्तनं इत्येतेषु अस्य लेपनं परिणामकारी । वृश्चिकादंशने अस्य लेपनेन विषं देहे न प्रसरति ।

घृतं सैन्धवलवणं, जीरकं इत्येतैः कल्कं निमीय विषक्रिमीणां दंशनस्थले लेप्यते चेत् विषं निवारितं भवति । (केषाञ्चित् क्रिमीणाम्)

मूत्ररोगे प्रयोगः[सम्पादयतु]

मूत्रविसर्जनसमये वेदनायां, मूत्रमार्गे अवरोधे, गोनोरियारोगे च जीरकम् उत्तमम् औषधम् । मूत्रविसर्जने क्लेशे सति अष्मर्थां (Stones in bladder) च गुडेन शर्करया वा सह जीरककषायं निर्मीय पानम् आरोग्यप्रदम् ।

गर्भाशयशोधकम्[सम्पादयतु]

जीरकं गर्भाशयं शुद्धीकरोति । श्वेतप्रदरं (White discharge) निवारयति । प्रसवोत्तरं गर्भाशय विशोधनाय, स्तन्यजननाय, बलार्धनाय च जीरकम् उपयुक्तम् ।

पचनाङ्गसमस्यानिवारकम्[सम्पादयतु]

मनुष्यं बाधमानेषु रोगेषु जीर्णाङ्गसम्बद्धाः रोगाः एव अधिकाः इति अधुना संशोधनेन ज्ञातः विषयः । मनुष्यस्य शारीरकबलमपि तस्य आहारजीर्णीकरसामर्थ्यम् अवलम्बते । पचनसम्बद्धानाम् अनेकेषां निवारणे जीरकं रामबाणः । अतः एव जीरकम् इति पदमपि जरणार्थे पाचनार्थे इद्यमानेन धातुना उत्पन्नम् । विभिन्नासु भाषासु अस्य नाम परिवर्तनं भवति चेदपि इदं कदापि स्वस्य गुणं न परिवर्तयति । अरुचिः, वमनं, बुभुक्षायाः अभावः, अजीर्णं, पूर्णोदरस्य अनुभवः, उदरवेदना, क्रिमिरोगः इत्यादिषु जीरकचूर्णस्य घृतेन मिश्रीकृत्य सेवनं उत्तमा चिकित्सा ।

अन्ये उपयोगाः[सम्पादयतु]

जीरकम् उष्णगुणोपेतम् । अतः पुरुषेषु सन्तानशक्तिं वर्धयति । विषमशीतज्वरे, दीर्घकालीनज्वरे, वातप्रधानज्वरेषु च गुडेन निर्मितः जीरककषायः सेवनीयः ।

जीरकनिर्मितानि औषधानि[सम्पादयतु]

१. जीरकादिमोदकम् २. जीरकाद्यचूर्णम् ३. जीरकाद्यतैलम् ४. जीरकाद्यरिष्टम् इत्यादिः

संक्षिप्तचिकित्सासूची[सम्पादयतु]

१. इयं जीरिका वातं कफं च निवारयति ।
२. जीरिका गर्भाशयं स्वच्छीकरोति ।
जीरिका तथा जीरिकाचूर्णम्
३. जीरिका अग्निदीपिका, मेध्या, सङ्ग्राही च ।
४. जीरिका गुल्मरोगम्, अतिसारम्, अध्मानं, ग्रहणीं, क्रिमिरोगं च निवारयति ।
५. जीरिका पित्तं वर्धयति । अतः पित्तप्रकृतियुक्ताः, पित्तजन्यैः रोगैः पीड्यमानाः च अधिकतया अस्याः उपयोगं न कुर्युः ।
६. जीरिका उत्तमा पाचिका, रुचिकरी च ।
७. जीरिका बलं वर्धयति, वृष्या, चक्षुष्या च ।
८. जीरिका ज्वरघ्नी, छदिकम् अपसारयति ।
९. ज्वरावसरे जीरिकां गुडेन सह खादन्ति चेत् पाचनं सम्यक् भवति, बुभुक्षा वर्धते, दाहः निवार्यते, मलविसर्जनं च भवति ।
१०. अतिसारे जीरिका दध्ना सह सेवनीया ।
११. गर्भावस्थायां जायमानायां वमनशङ्कायां, वमने वा निम्बूकस्य रसेन सह जीरिका सेवनीया ।
१२. प्रसवानन्तरं क्षीरस्य वर्धनार्थं गुडेन सह जीरिका दातव्या ।
१३. जीरिकायाः लेपम् आर्शिस्, स्तनशोथे, वेदनायां च लेपयितुं शक्यते ।
१४. कण्डूयने जीरिकाकषायेन स्नातव्यम् ।
१५. बभुक्षायाः वर्धनार्थं, वेदनायां, क्रिमिरोगे, वमने, अरुचौ च जीरिकां भर्जयित्वा मधुना सह दातव्यम् ।
१६. प्रसवानन्तरं गर्भाशयस्य शोधनार्थं जीरिका दीयते ।
१७. जीरिका अत्यन्तं बलकरी । दुर्बलेभ्यः दातुं योग्या ।
१८. जीरिकायाः चूर्णं ३-६ ग्रां यावत् दातुं शक्यते ।
१९. जीरिकां गुडं च योजयित्वा सेवनेन विषमज्वरः, वातरोगः, अग्निमाद्यं च निवार्यते ।
२०. वृश्चिकादंशने जीरिकया सह सैन्धवलवणं योजयित्वा लेपयन्ति ।
  1. "Cuminum cyminum information from NPGS/GRIN". www.ars-grin.gov. आह्रियत 2008-03-13. 

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=जीरकम्&oldid=480353" इत्यस्माद् प्रतिप्राप्तम्