नागकेसरः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

परिचयः[सम्पादयतु]

नागकेसरवृक्षः

नागकेसरवृक्षः अथवा चम्पेर्यवृक्षः इत्यस्य आङ्ग्लभाषया Ceylon ironwood, Indian rose chestnut, Cobra's saffron इति नामभिः अभिजानन्ति । अस्य वृक्षस्य आकारः बृहत् भवति । अस्य पुष्पाणि सुन्दराणि सुगन्धपूर्णानि च भवन्ति । अस्य काष्ठं तु दारुकर्मार्थम् उत्तमम् अस्ति ।

सस्यशास्त्रीयं वर्गीकरणम्[सम्पादयतु]

मेसुवफेर्रिया (Mesua ferrea) इति सस्यशात्रीयनाम्नः अयं वृक्षः गुट्टिफेरसि (Guttiferae) सस्यकुट्म्बद्धः अस्ति ।

सफलं नागकेसरवृक्षः

अन्यभाषासु अस्य नामानि[सम्पादयतु]

कन्नडम् - नागसम्पिगे आङ्ग्लम् - सिलोन् ऐरन् वुड्, इण्डियन् रोस् चेस्प् नट् मलयाळम् - वैनावु तुळु - बैनावु तमिळु - तडिनङ्गु

प्रयोजनानि[सम्पादयतु]

अयं सुन्दरः नित्यहरिद्वर्णयुक्तः वृक्षः। निबिडं शङ्क्वाकरे अस्य पत्रसमुच्चयः। अस्य त्वक् कृशः भवति । कर्णाटकस्य पश्चिमाद्रिवनेषु विद्यमानवृक्षाणां वर्णः निबिडरक्तः भवति । सुदृढदारु औषधीयगुणः च अस्य वृक्षस्य वैषिष्ठ्यम् । भवननिर्माणार्थं रेलयाने शय्यानिर्माणार्थं सेतुबन्धार्थं अस्य दारु उपयुज्यते । अस्य बीजेभ्यः तैलं प्राप्नुवन्ति यत् चर्मरोगनिवारण्स्य भेषजे उपयुज्यते । अस्य मूलं प्रतिविषौषधे प्रयुज्यते ।

"https://sa.wikipedia.org/w/index.php?title=नागकेसरः&oldid=341961" इत्यस्माद् प्रतिप्राप्तम्