लवनीयम्
पठन सेटिंग्स
![](http://upload.wikimedia.org/wikipedia/commons/thumb/8/83/AnnonaMuricata_UaHuka_20061114.jpg/220px-AnnonaMuricata_UaHuka_20061114.jpg)
![](http://upload.wikimedia.org/wikipedia/commons/thumb/9/93/%E0%B4%86%E0%B4%A4%E0%B5%8D%E0%B4%A4-_%E0%B4%95%E0%B4%AE%E0%B5%8D%E0%B4%AA%E0%B5%8D.jpg/250px-%E0%B4%86%E0%B4%A4%E0%B5%8D%E0%B4%A4-_%E0%B4%95%E0%B4%AE%E0%B5%8D%E0%B4%AA%E0%B5%8D.jpg)
परिचयः
[सम्पादयतु]लवनीयवृक्षः सामान्यप्रमाणस्य तरुः । अस्य मूलं वेस्ट् इण्डीस् द्वीपसमूहः । इदानीं भारतदेशे सर्वत्र प्रारोपयन्ति । विशेषतः कर्णाटकराज्ये फलकृषौ प्रधानपात्रं वहति । आङ्ग्लभाषया बुल्लोक् हार्ट् (Bullock's Heart) इति वन्दन्ति । भारतीयासु बह्वसु भाषासु रामफलम्/सीताफलम् इति वदन्ति । अस्य जातौ दशाधिकाः भेदाः सन्ति ।
सस्यशास्त्रस्य वर्गीकरणम्
[सम्पादयतु]अनोनासि (Anonaceae) कुटुम्बसम्बद्धस्य लवनीयस्य वैज्ञानिकं नाम (Anona reticulata) अनोन रेटिक्युलेट इति ।
गुणलक्षणानि
[सम्पादयतु]नित्यहरिद्वर्णयुक्तस्य अस्य शाखाविशाखाः अधिकाः भवन्ति । किन्तु अधिकम् औन्नत्यं न भवति । अस्य फलानि अतीव मधुराणि भवन्ति ।
प्रयोजनानि
[सम्पादयतु]आहारार्थं अस्य फलानां सङ्ग्रहः । भारतीयविपणिषु अस्य फलानाम् अभ्यर्थना अधिका अस्ति अतः मौल्यं सर्वदा अधिकमेव भवति । अस्य कृष्या कृषकाः लाभमाप्नुवन्ति ।