सामग्री पर जाएँ

नागलिङ्गम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

परिचयः

[सम्पादयतु]
कुसुमितः नागलिङ्गवृक्षः

नागलिङ्गवृक्षः काचित् आयाता वृक्षजातिः । अस्य मूलं दक्षिणामेरिका केरेबियन् देशौ । अलङ्करणार्थं भारतम् आनीता इयं जातिः । अङ्ग्ल्भाषया Cannon-Ball Tree इति अस्य नाम् । अस्य फलानि तूलकगोलकाः इव भावन्ति अतः एतत् नाम प्राप्तम् । अस्य पुष्पाणि अतीव मनोहरानि बृहन्ति च भवन्ति । शिवलिङ्गस्योपरि फणाप्रसारितः उरगः इव पुष्पं दृश्यते । तमिळुभाषायां शिवलिङ्गपुष्पम् इति, तेलुगुभाषाया मल्लिकार्जुनपुष्पम् इति, कन्नडभाषया, बङ्गलीभाषाया च नागलिङ्गपुष्पम् इति वदन्ति ।

वृक्षे नागलिङ्गफलानि

सस्यशास्त्रीयवर्गीकरणम्

[सम्पादयतु]

लेसितिडेसि (Lecythidaceace) कुटुम्बसम्बद्धस्य अस्य वृक्षस्य कौरौपिट जियनेन्सिस् (Couroupita guianensis) इति सस्यशास्त्रीयं नाम ।

सस्यस्य गुणलक्षणानि

[सम्पादयतु]

अस्य वृक्षस्य आकारः सामान्यः किन्तु अस्य बाह्यमूलानि आवृक्षं व्याप्तानि भवन्ति । तेषु एव सुन्दराणि नागलिङ्गपुष्पाणि विकसन्ति । कार्पासगोलकाः इव दृश्यमानानि अस्य बृहत्पलानि वृक्षकाण्डसमीपं भवन्ति ।

औषधीयगुणाः

[सम्पादयतु]
१. प्रतिजैविकत्वम् (Antimicrobial)
पत्रैः, पुष्पैः, फलमज्जेन च कृता लेपाः तथा क्वाथः रोगाणून् हन्यते।
चर्मरोगेषु, व्रणेषु च उपयोगी।
२. शोथहरत्वम् तथा वेदनाशमकत्वम् (Anti-inflammatory and Analgesic)
त्वक्-पत्रक्वाथः शूलनिवारणाय, शोथहरणाय च दीयते।
अष्टिसन्धिवाते, दन्तशूले च उपयोगः दृश्यते।
३. चर्मरोगेषु उपयोगः (Skin Diseases)
पत्रपेषः एकजं, विस्फोटकं, त्वग्रागः च शमयति।
चर्मदोषहरत्वं पारम्परिकचिकित्सायाम् अनुमीयते।
४. कास-श्वास-रोगः (Respiratory Disorders)
पुष्पाणां क्वाथः कासे, श्वासे च उपयोगी।
कण्ठशुद्ध्यै, कफहरत्वाय च प्रसिद्धम्।
५. प्रतीदाहकं तथा व्रणरोपणम् (Antiseptic & Wound Healing)
त्वचा उपरि पत्रपेषणं, फलमज्जा वा प्रयुज्यते।
रक्तस्तम्भनं तथा व्रणस्य शीघ्रं रोपणं करोत।
६. मधुमेहे संभाव्यम् लाभः (Potential Anti-diabetic Effect)
पत्रपुष्पक्वाथेन रक्तशर्करायाः नियंत्रणम् दृश्यते (प्रारम्भिकानुसन्धानस्य आधारः)।
७. वृष्यत्वम् (Aphrodisiac)
पुष्पाणि वृष्यगुणयुक्तानि परम्परायां स्वीक्रियन्ते।

सावधानता

[सम्पादयतु]
  • फलस्य अन्नरूपेण सेवनं न अनुशस्यते, विषवत् भवितुं शक्नोति।
  • गर्भवतीनां, स्तन्यदात्रीणां च चिकित्सकीयमार्गदर्शनं अपेक्षणीयम्।

अवधानसूचना

[सम्पादयतु]

उपयुक्ता माहिती परम्परागतस्रोताणां आधारेण उपलभ्यते। चिकित्सायै प्रयोगः कुशलचिकित्सकस्य परामर्शेन सहैव करणीयः।

प्रयोजनानि

[सम्पादयतु]

धार्मिके भारतदेशे शिवमन्दिरस्य पुरः प्रारोपिताः नागलिङ्गवृक्षाः । उद्यानेशु मार्गपार्श्वेषु अन्यत्र च सौन्दर्यवर्धनार्थं एते वृक्षाः संवर्धिताः । अस्य फालानि पाश्वाहार्थम् उपयुज्यन्ते ।

"https://sa.wikipedia.org/w/index.php?title=नागलिङ्गम्&oldid=493661" इत्यस्माद् प्रतिप्राप्तम्