वंशः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

परिचयः[सम्पादयतु]

वंशवृक्षः

वंशवृक्षः कश्चित् विशिष्टः वृक्षः। यतः अन्यवृक्षाः इव शाखासु विशाखासु अस्य वैशाल्यं न भवति । अबक्रः सन् ऊर्ध्वं वर्धते । यदा अयं पुष्पितः भवति तदा अस्य आयुः समाप्तः इति अर्थः । सामान्यतः अयं वृक्षः अरणोत्पनः चेदपि इदानीन्तनकाले सौन्दर्यार्थम् उद्यानेषु अपि प्रारोपयन्ति । अयं तृणानां वर्गसम्बद्धः Poaceae Sub, Bambusoideae Tribe, Bambuseae इति सस्यसमुदाये अन्तर्गच्छति । शतपर्व, वेणु,युवफल इति अस्य अपरनामानि । हिन्दुस्थान्यां बास् इति कथयन्ति येन बासुरि (वेणुवाद्यम्) निर्मीयते । अयं वृक्षः आङ्ग्लभाषया ठोर्न्य् बम्बू इति ल्याटिन् भाषया बम्बुस अरुन्दिनेसिअ इति परिचितः । अस्य औषधीयगुणानि अपि ज्ञात्वा मानवः एनम् अपबन्धु इव पश्यति ।

प्रभेदाः विशेषाः च[सम्पादयतु]

विश्वेऽस्मिन् ५५०वंशजातयः सन्ति । भारते एव १३६वंशभेदाः प्ररोहन्ति । किन्तु भारते सर्वसामान्याः वंशभेदाः ४०सङ्ख्याकाः एव । सकण्टकवंशाः कण्टकरहितवंशाः इति प्रधानभेदद्वयं भवति । एते वृक्षाः निबिडसमूहेषु प्ररोहन्ति इति अस्य अन्येकं वैषिष्ट्यम् । प्रतिदिनं ४अङ्गुलपर्यन्तम् अपि अस्य वर्धनं भवति । बालवंशं (कर्णाटके अस्य ’कळले’ इति वदन्ति) कर्तयित्वा पाकशालायां व्यञ्जनं, क्वथितम्, अवलेहः वा निर्मियन्ते । वंशवृक्षस्य बीजानि व्रीहयः इव भवन्ति । तुषैर्विमुकानि बीजानि तण्डुलाः इव ओदनं कृत्वा भोक्तुं शक्यते । सामान्यस्य तण्डुलान्नस्यापेक्षया अयम् आहारः पौष्टिकः भवति ।\

प्रयोजनानि[सम्पादयतु]

कार्गजस्य निर्माणे । गृहनिर्माणे । द्रोणिनावादिनां निर्माणे । दीपस्तम्भस्य, निश्रेण्याः वेणुवाद्यस्य च निर्माणे । कृष्युपकरणार्थम् । आसनानाम्, आसन्दानां, उप्तीठिकानाम्, अन्यगृहोपयोगिपरिकराणां निर्माणार्थं, अयुर्वेदीयचिकित्सासु च वंशवृक्षस्य उपयोगः ।

"https://sa.wikipedia.org/w/index.php?title=वंशः&oldid=345962" इत्यस्माद् प्रतिप्राप्तम्