अरुजावृक्षः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
कुसुमितः अरुजावृक्षः

ग्रीक् मूलस्य अस्य वृक्षस्य नाम डयोस्कोण्डिस् क्यासिया इति । अस्य सस्यशास्त्रीयं नाम कासिया फिस्टुला इति। ल्याटिन् भाषया पिस्टुल इत्युक्ते नालिका इत्यर्थः । अस्य फलं तु नलिकाकारेण । भवति आङ्ग्लम् - इण्डियन् ल्याबर्नम्, गोल्डन् पवर् । Indian lyabarnum, Golden power.

कन्नडम् - कक्केमर, कोन्नि, अरगिना । ಕಕ್ಕೆಮರ, ಕೊನ್ನಿ, ಅರಗಿನಾ ।
हिन्दी - अमस्तास, बन्दर् लाठि ।
तमिळु - अप्पै, अरगोरम्, कडुक्के । அப்பை, அரகோரம், கடுக்கே ।
तेलुगु - रेल, सुवर्णम्, कोलपोन्न । రేల, సువర్ణమ్, కోలపోన్న।
मराठि - बोय,चिम्कनि, गिरिमाला ।
मलयाळम् - कृतमालम् । കൃതമാലമ്।
अस्य कुटुम्बः फ्याबेसी इति । शुष्कप्रदेशेषु सर्वत्र अयम् अरुजा वृक्षः प्ररोहति ।

सस्यस्य गुणलक्षणानि[सम्पादयतु]

अरुजावृक्षः ६-९मी.औन्नत्यपर्यन्तं प्ररोहति । अस्य काण्डः हरिद्मिश्रभस्मवर्णेन भवति । प्राचीनवृक्षेषु केवलं भस्मवर्णः दृश्यते । संयुक्तपर्णाणि नाम एकस्मिन् दण्डे ४-८युगलपर्णानि भवन्ति ।२३-४०सें.मी.दीर्घाणि अण्डाकारेण भवन्ति । स्वर्णपीतवर्णस्य दीर्घं पुष्पगुच्छं प्रलम्बमानं ३०-३५सें.मी.दीर्घं च भवति । प्रतिपुष्पं पञ्जदलानि चमसाकारेण १०पुङ्केसराः च भवन्ति । एप्रिल्-मे मासयोः वृक्षाः कुसुमिताः भवन्ति । तदनन्तरे काले ३०-६०से.मी.दीर्घाणि निबिडकपिलवर्णस्य फलनि उद्भवन्ति । प्रत्येकं फले ४०-१००बीजानि भवन्ति । बीजैः एव वृक्षस्य वंशप्रसारः सम्भवति ।

उपयोगाः[सम्पादयतु]

अरुजा कश्चित् सुन्दरपुष्पवृक्षः इति कारणेन उद्यानेषु मार्गपार्वेषु च शोभावर्धनार्थं प्रारोपयन्ति । अस्य वृक्षस्य शलटुषु विद्यमानाः गाढकपिलवर्णस्य पेशीः विरेचकत्वेन उपयुज्यन्ते । मूलानाम् उपयोगः क्षयस्य कुष्टरोगस्य सिफिलिस् रोगस्य चर्मरोगस्य च औषधनिर्माणेषु भवति । पत्राणाम् उपयोगः सन्धिवातस्य व्रणनिवारणस्य च औषधेषु भवति । मूलानि शक्तिवर्धकौषधेषु अपि उपयोगाय भवन्ति । पत्राणि देहस्य अधिकतापमानं न्यूनीकुर्वन्ति । दहनव्रणस्य चिकित्सार्थं वृक्षस्य वल्कलानाम् उपयोगः भवति । कण्डूयनं नियन्त्रयितुं पेशलपत्राणाम् उपयोगः भवति । फलानि कासस्य औषधेषु प्रयोजनाय भवन्ति । बीजचूर्णानां कषायम् उदरवेदानायाः उपशमनकारि भवति । अरुजावृक्षस्य दारु सुदृढं भवति अतः अस्य उपयोगः कृष्युपकरणानां निर्माणे भवति । त्वचाम् उपयोगः प्राणिचर्मणः उद्यमेषु भवति । फलसारं तमाकोः सुगन्धवर्धनार्थम् उपयुज्यते । केषुचित् प्रदेशेषु पुष्पाणि आहारवत् अपि उपयुज्यते ।

"https://sa.wikipedia.org/w/index.php?title=अरुजावृक्षः&oldid=369583" इत्यस्माद् पुनः प्राप्तिः