सामग्री पर जाएँ

कोलकाता

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(Kolkata इत्यस्मात् पुनर्निर्दिष्टम्)
कोल्काता
कलिकाता
কলকাতা  (Bengali)
सिटि ऑफ़् जॉय् (आनन्दनगरम्)
—  बृहन्नगरम्  —
उपरिष्टात् घटिकानुवर्तनम् : विक्टोरिया मेमोरियल्, सैण्ट् पॉल्स् कथीड्रल्, वाणिज्यकेन्द्रम्, हाव्डासेतुः, नगरे ट्राम् व्यवस्था, विद्यासागरसेतुः
उपरिष्टात् घटिकानुवर्तनम् : विक्टोरिया मेमोरियल्, सैण्ट् पॉल्स् कथीड्रल्, वाणिज्यकेन्द्रम्, हाव्डासेतुः, नगरे ट्राम् व्यवस्था, विद्यासागरसेतुः
कोल्काता
कलिकाता
কলকাতা  (Bengali)
Location of कोल्काता
कलिकाता
কলকাতা  (Bengali)
in पश्चिमवङ्गः
निर्देशाङ्काः

२२°३४′२२″उत्तरदिक् ८८°२१′५०″पूर्वदिक् / 22.5726723°उत्तरदिक् 88.3638815°पूर्वदिक् / २२.५७२६७२३; ८८.३६३८८१५

देशः भारतम्
राज्यम् पश्चिमवङ्गः
मण्डलम् कोल्कातामण्डलम्[upper-alpha १]
पौरपिता शोभन् चट्टोपाध्याय[१]
रक्षणमुख्यायुक्तः सुरजीत् कर् पुरकायस्थ[२]
शेरिफ़् इन्द्रजीत् राय्[३]
जनसङ्ख्या

• सान्द्रता
• महानगरम्

४४,८६,६७९

• 24,252 /किमी2 (62,812 /वर्ग मील)
• १,४१,१२,५३६

व्यावहारिकभाषा(ः) वङ्गभाषाः, आंग्लः, हिन्दी
समयवलयः IST (UTC+05:30)
विस्तीर्णम् 1,886.67 वर्ग किलोमीटर (728.45 वर्ग मील)
जालस्थानम् www.kolkatamycity.com

कोल्काता (वङ्ग: কলকাতা, কোলকাতা), भारतस्य पूर्वाञ्चलीयस्य पश्चिमवङ्गराज्यस्य राजधानी, प्रधानवानिज्यकेन्द्रं तथा वृहत्तमनगरम् । हुगलीनद्याः पूर्वतीरे अवस्थिते[४] नगरेऽस्मिन् पञ्चाशताधिकलक्षजनाः निवसन्ति । परन्तु कोलकातानगरसंलग्नानां प्रदेशानाम् अंशविषेशेन निर्मितस्य वृहत्तरकोलकातानगरस्य जनसंख्या प्रायः १ कोटि ४० लक्षपरिमितम् । जनसंख्याविचारे नगरमिदं भारतस्य तृतीयवृहन्नगरं तथा द्वितीयमहानगरम् । समग्रविश्वे कोलकातामहानगरं अष्टमस्थानम् (जनसंख्याविचारे) आवहति[५] ।

१७७२ तमे संवत्सरे वङ्गस्य राजधानी प्रथमवारं मुर्शिदाबादतः कोलकातां प्रति स्थानान्तरिता आसीत् । न केवलं वङ्गस्य अपि तु १९११ वर्षपर्यन्तं समग्रभारतस्य राजधानी आसीत् । १९२३ तमे वर्षे क्यालकाटा म्युनिसिपल् एक्ट् माध्यमेन कोलकातनगरस्य स्वायत्वशासनकर्ती एका पौरसंस्था स्थापिताऽसीत् । १९४७ वर्षे भारतविभाजनान्तरं कोलकाता नवनिर्मितस्य पश्चिमवङ्गराज्यस्य राजधानी घोषिता जाता आसीत् । तस्मिन् समये कोलकाता आधुनिकभारतस्य शिक्षा-विज्ञान-शिल्प-संस्कृति-राजनीतेः पीठस्थानमासीत् । १९५४ तमवर्षानन्तरं राजनैतिकास्थिरतया तथा अर्थनैतिकावक्षयेन प्राचीनगौरवस्थानं खर्वितम् आसीत् ।

वैप्लविकान्दोलननिमित्तम् एवञ्च सुदीर्घसांस्कृतिक-ऐतिह्यनिमित्तम् अस्य कोलकातानगरस्य प्रसिद्धिः । भारतस्य स्वाधीनतान्दोलने तथा परवर्तीकाले वामपन्थीनः गणान्दोलने नगरमिदं प्रमुखभूमिकाम् अवहत् । अपरपक्षे आधुनिकभारतस्य प्रधानसांस्कृतिककेन्द्रेषु अन्यतमा कोलकाता जाता । एतस्मात् कोलकाता भारतस्य सांस्कृतिकराजधानी इत्याख्यया अभिहिता[६] । अपरेपक्षे कोलकातायाः आनन्दनगरी(City of Joy) इत्यपि सुप्रसिद्धनाम विद्यते । राजा राममोहन राय, रवीन्द्रनाथ ठाकुर्, स्वामी विवेकानन्दः, सुभाष चन्द्र बसु, मादार् तेरेसा, सत्यजीत् राय, सी वी रमन्, अमर्त्य सेन् प्रमुखाणां विश्ववरेण्यव्यक्तीनां कर्मभूमिः कोलकाता महानगरी । समृद्धसांस्कृतिक-ऐतिह्यनिमित्तं एषा नगरी आ विश्वे उन्नतस्थानम् आप्नोति ।

नामौचित्यम्

[सम्पादयतु]
कालीघाटमन्दिरम्

वर्तमानकोलकाता नगरी भारते ब्रिटिशानां आगमनात् प्राक् 'सुतानुटि', 'गोविन्दपुर' तथा 'कलकाता' इति त्रिधा विभक्ता आसीत् । बाङ्गलाशब्दः कलकाता तथा आङ्ग्लशब्दः क्यालकाटा नामपदयोः उत्सः कलिकाता इति शब्दः[७] । "कलिकाता" इति नामपदस्य व्युत्पत्तिः व्युत्पत्तिप्रसङ्गे विद्वत्सु नास्ति मतैकम् । प्रसिद्धमतमस्ति यत् कालीक्षेत्रम् इति शब्दात् कलिकातापदम् आगतम् । कालीक्षेत्रमित्येन पदेन देव्याः काल्याः राज्यमिति अर्थः द्योत्यते । मतान्तरं पोषयन्ति केचनाः यत् किलकिला इति बाङ्गलाशब्दात् कोलकाताशब्दः आगतः[८] । अपरेकं मतानुसारं खाल(नलः) काट्टा(खननम्) इति पदयोः संयोगात् इदानीन्तन-नामपदमागतम्[९] ।

२००१ तमे वर्षे नगरस्य आधिकारिक-आङ्ग्लनाम क्यालकाटा"-तः ("Calcutta") परिवर्त्य कोलकाता" ("Kolkata") अभवत् । केचनाः मन्वन्ति यत् अस्य नगरस्य ब्रिटिशोत्तराधिकारसूत्रं विलोपं नामपरिवर्तनकरणेन जातम् [१०]। वैदेशीयगणमाध्यमाः इदं नामकरणं नाङ्गीकारं कृतवन्तः । परन्तु बि बि सी इति गणमाध्यमेन बोम्बाई स्थले मुम्बई[११] तथा क्यालकाटा स्थले कोलकाता[१२] इति नामद्वयम् अङ्गीकृतम् ।

इतिहासः

[सम्पादयतु]

प्राक्-ब्रिटिशकालः

[सम्पादयतु]
फोर्ट् विलियम्, कोलकाता,(विलियम् वुड् महोदयेन अङ्कितम्-१८२८ क्रै.स

कोलकतानगरस्य समीपे चन्द्रकेतुगढनामकस्थाने[१३] प्रत्नतात्त्विकखननात् प्रमाणितं यत् अयं प्रदेशः द्विसहस्रवर्षं पूर्वमपि वस्तिपूर्णमासीत् [१४]। मध्ययुगीय-नैकेषु ग्रन्थेषु(बाङ्गला) हुगलीनद्याः तीरवर्तीग्रामस्य कोलकातायाः उल्लेखमस्ति । एतेषु विप्रदासस्य मनसामङ्गलकाव्यम्(१४९५ क्रै.स), मुकुन्दराम-चक्रवर्तिना रचितं चण्डीमङ्गलकाव्यम्(१५९४-१६०६), सैयद् आलाओलस्य पद्मावती(१६४५-५२), कृष्णराम महोदयस्य कालिकामङ्गलकाव्यम्(१६७६-७७) सनातन घोषाल महोदयस्य भाषा-भागवत्(१६७९-८०) इति अन्यतमाः ग्रन्थाः भवन्ति[१५][१६] ।

१५८२ तमे वर्षे राज्ञः टोडरमलस्य निर्देशानुसारं समग्रवङ्गप्रदेशस्य(अविभक्तवङ्गः) भूमिमापनकार्यम् अभूत् । ओयालिश्-ए-जमा तुमार् इति नाम्ना मापनकार्यस्य एका आवली प्रकाशिता आसीत् । 'आबुल् फज़ल्' महोदयस्य आइन्-ए-आकबरी(१५९० क्रै स) इति ग्रन्थे उद्धृता इयं आवली । अस्याम् आवल्यां कलिकाता इति ग्रामस्य उल्लेखः अस्ति [१५][१६] । १६९० तमे वर्षे ब्रिटिश् ईष्ट् इण्डिया संस्थायाः वाणिज्यकाः प्रथमवारं वाणिज्यविस्ताराय ’कलिकाता’नगरीम् आगतवन्तः . इतःपरमेव कलिकातायाः लिखितेतिहासस्य प्रारम्भः आसीत् . साम्राज्यवादी ऐतिहासिकगणस्तु ’जब् चार्णक्’ इति ब्रिटिशप्रशासकं कोलकातानगर्य्याः प्रतिष्ठातारूपेण स्वीकरोति स्म[८] . यद्यपि आधुनिकैः गवेषकैः मतमिदं खण्डितम् अस्ति . २००३ तमे वर्षे कोलकाता-उच्चन्यायालयेन जनस्वार्थपरिप्रेक्षिते सूचितं यत् कामपि व्याक्तिं कोलकातायाः प्रतिष्ठाता इत्यभिधया अभिहितं कर्तुं न शक्यते [१७].

फोर्ट् विलियम्, कोलकाता, १७३५ क्रै स
कोलकाता पोताश्रये नौयानतः गजस्य अवतारणस्य दृश्यम् -”हार्पास् विक्ली”पत्रिका १८५८ क्रै.
चित्पुरमर्गस्य(अधुना रवीन्द्रसरणी) दृश्यम्; विलियम् सिम्पसन् महोदयस्य ”इन्डिया एन्सियेन्ट् एन्ड् मर्डार्न् पुस्तके प्रकाशितम्, १८६७


भौगोलिकावस्थितिः

[सम्पादयतु]
पूर्वकोलकातायाः जलाभूमिः
स्पट् स्याटेलैट्-तः स्वीकृतं कोलकातानगर्य्याः चित्रम्

कोलकाता नगरी पूर्वदिशि २२°३३′ उत्तरगोलार्धे तथा ८८°२०′ पूर्वद्राघिमांशे विद्यते . इयं नगरी गाङ्गेय-त्रिकोणाकारे द्वीप्रदेशे अवस्थिता अस्ति . समुद्रपृष्ठतः कोलकातायाः औन्नत्यं प्रायः १.५(५ फुट्) – ९(३० फुट्) मिटर् पर्यन्तम् भवति[१८] . उत्तर-दक्षिणदिशि अस्य नगरस्य विस्तारः हुगलीनद्याः तटीयप्रदेशानुभूमिकः आसीत् . वस्तुतः स्थलमिदं जलपूर्णमासीत् . नगरस्य जनसंख्यायाः वृद्ध्यानुगुणं वसतिनिमित्तं अवतलभूमिः जनैः पूरिमासीत्[१९] . अवशिष्टा पूर्वकोलकाता-जलभूमिः नाम्ना परिचिता । 'रामसार् कन्भेन्सन्' अनुसारं इयं जलभूमिः अन्ताराष्ट्रिय-गुरुत्वसम्पन्ना[२०] ।

सिन्धु-गाङ्गेय समभूमेः सदृशः अयं प्रदेशोऽपि पलिजया(alluvial) मृत्तिकया निर्मिता । अस्मिन् प्रदेशे कोवाटारनारियुगस्य मृत्तिकास्तरः दृश्यते । मृत्तिकास्तरे कर्दमास्तरद्वयम् अस्ति । अधस्तनस्य कर्दमास्तरस्य गहनता २५० मीटर्-तः (८२० फूट्) ६५० मीटर् (२,१३३ फूट्) पर्यन्तम् । तथा उपरितनस्य स्तरस्य गहनता १० मीटर्-तः (१३१ फूट्) ४० मीटर् (१३१ फूट्)-पर्यन्तम् [२१]। ब्युरो इण्डियन् स्ट्यान्डार्स् संस्थायाः अभिलेखनुसारं कोलकाता तृतीयस्तरीया भू-कम्पनक्षेत्रम् [२२]।


टिप्पणी

[सम्पादयतु]
  1. ↑ "शोभन च्याटर्जी कोलकातायाः मेयर् भविष्यति". हिन्दुस्थान् टैम्स् (नवदेहली). ६ जुन् २०१०. Archived from the original on 2011-07-19. आह्रियत २६ एप्रिल् २०११.
  2. ↑ "New CP reaches slain cop's house with job letter". Times of India. 16 February 2013. Archived from the original on 11 April 2013. आह्रियत 17 February 2013.
  3. ↑ "Doctor to be next sheriff". Times of India (New Delhi). 5 January 2011. Archived from the original on 6 May 2013. आह्रियत 27 January 2012.
  4. ↑ The Monthly Repository and Library of Entertaining Knowledge. 1833. p. 338.
  5. ↑ "World Urbanization Prospects: The 2005 revision" (PDF).
  6. ↑ Calcutta Travel Advice
  7. ↑ (Mukherjee 1991)
  8. 1 2 "Kolkata: History" (in Bangla). Calcuttaweb.com. Archived from the original on 2007-05-10. आह्रियत 2007-02-18.
  9. ↑ Nair, P. Thankappan (1986). "Calcutta in the 17th century". Firma KLM Private Limited.
  10. ↑ Easwaran, Kenny. "The Politics of Name Changes in India". OCF, UC Berkeley. आह्रियत 2007-08-12.
  11. ↑ "Arrests linked to Mumbai attacks". BBC. आह्रियत 2008-12-06.
  12. ↑ "Weather forecast". BBC. आह्रियत 2009-09-01.
  13. ↑ "History". Yahoo! Pte Ltd. Archived from the original on 2006-05-23. आह्रियत 2006-05-08.
  14. ↑ Das S (2003-01-15). "Pre-Raj crown on Clive House- Abode of historical riches to be museum". The Telegraph, Kolkata, India. आह्रियत 2006-04-26.
  15. 1 2 कलकाता विचित्रा, राधारमण राय, देव साहित्य कुटिर्, कोलकाता, २००६, पृ- २-५
  16. 1 2 कोलकाता : एक् पूर्णाङ्ग इतिहास्, अतुल् सुर्, जेनारेल् प्रिण्टर्स् एण्ड् पाब्लिशार्स्, कोलकाता, १९८१, पृ- १२-१३
  17. ↑ Gupta, Subhrangshu (18 May 2003). "Job Charnock not Kolkata founder: HC Says city has no foundation day". Nation (The Tribune). आह्रियत 2006-12-07.
  18. ↑ NASA image.
  19. ↑ "An Introduction". History of Kolkata. Catchcal.com. आह्रियत 2007-08-29.
  20. ↑ Roy Chadhuri, S.; Thakur, A. R. (2006-07-25). "Microbial genetic resource mapping of East Calcutta wetlands" (PDF). Current Science (Indian Academy of Sciences) 91 (2): 212–217. आह्रियत 2007-09-02.
  21. ↑ Bunting SW, Kundu N, Mukherjee M. "Situation Analysis. Production Systems and Natural Resources Use in PU Kolkata" (PDF). Institute of Aquaculture, University of Stirling, Stirling, UK. p. 3. आह्रियत 2006-04-26.
  22. ↑ "Hazard profiles of Indian districts" (PDF). National Capacity Building Project in Disaster Management. UNDP. Archived from the original on 2006-05-19. आह्रियत 2006-08-23.

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
    "https://sa.wikipedia.org/w/index.php?title=कोलकाता&oldid=497833" इत्यस्माद् प्रतिप्राप्तम्