सामग्री पर जाएँ

मुर्शिदाबादमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मुर्शिदाबादमण्डलम्
मण्डलम्
देशः  भारतम्
राज्यम् पश्चिमबङ्गराज्यम्
प्रशासनिकविभागः प्रेसिडेन्सी
केन्द्रनगरम् बहरमपुर
Area
 • Total ५,३२४ km
Population
 (2011)
 • Total ७१,०२,४३०
 • Density १,३३४/km
Time zone UTC+५:३० (भारतीय-मान-समयः)
लोकसभाकेन्द्राणि जङ्गीपुर, बहरमपुर, मुर्शिदाबाद
Website http://www.murshidabad.gov.in/

प्रसङ्गः

[सम्पादयतु]
मुर्शिदाबादस्य मुघलकालिनप्रतिकृतिः
मुर्शिदाबादस्य मुघलकालिनप्रतिकृतिः

मुर्शिदाबाद (Murshidabad)भारतीयराज्यपश्चिमबङ्गस्य एकं मण्डलम् । अस्य मण्डलस्य केन्द्रनगरं "बहरमपुर" इति । बहुधर्म-जाति-संस्कृतेः सङ्गमस्थलं मुर्शिदाबादमण्डलं वैचित्रम् आवहति । पर्यटकाः बौद्ध-ब्राह्मण-वैष्णव-जैन-इस्लामधर्मीयजनानाम् एकदेशीकरणमत्र परिलक्ष्ययितुं शक्नुवन्ति । सर्वोपरि क्षेत्रमिदम् ऐतिहासिकप्रसङ्गात् विश्वप्रसिद्धम् ।

नामेतिहासः

[सम्पादयतु]

क्रैस्तवीय प्रथमशतके महानगौडसम्राटशशाङ्कस्य राजधानी मुर्शिदबादमण्डलमासीत् । अष्टादशशतब्देः प्रथमार्धे मण्डलस्य वर्तमाननामकरणम् अभूत् । "मुर्शिदाबाद" इति नगरस्य नाम अनन्तरवर्तीकाले मण्डलस्यनाम अपि अभूत् । पुराकाले अस्य मण्डलस्य नाम मक्षुदाबाद मुघलराजा आकबरमहोदयेन दत्ता । "औरङ्गजेवशासनकाले" "कर्तलव खान्" अत्र सामन्तपदे आसीत् । औरङ्गजेव तस्मै मुर्शिद्-कुलि-खान् इति पदवीं दत्तवान् । १७०४ तमे वर्षे तस्यैव नामानुसारं मुर्शिदाबाद इति नगरस्य नाम अभूत् ।

प्रमुखदर्शनीयस्थलानि

[सम्पादयतु]

हजारदुयारी-अट्टालिका

[सम्पादयतु]
हजारदुयारी-अट्टालिका
हजारदुयारी-अट्टालिका
हजारदुयारी-अट्टालिका मुर्शिदाबादमण्डलस्य प्रमुखपर्यटनस्थलम् । अट्टालिकायां सहस्रद्वराणि सन्ति, परन्तु ९०० एव वास्तवद्वराणि अन्ये प्रतीकीमात्रम् । ४१ एकर अस्या विस्तारः । १८३७ तमे संवत्सरे डंकन मैकलियोडमहोदयः मीरजाफरस्य उत्तराधिकारी नवाब-नजीमहूमांयू-जाहाय पाश्चात्यशैल्या अट्टालिकानिर्माणं कृतवान् । मनोरमा इयं अट्टालिका पर्यटकहृदयान् आह्लादयति ।

संग्रहालयः

[सम्पादयतु]

अट्टालिकायाः समीपे एव विशालाकारसंग्रहालयः वर्तते । संग्रहालये शाहीनवाबजनानां आकर्षकवस्तुनि सन्ति । येषु अस्त्र-शस्त्रादयः, चित्रकलाकृतयः, हस्तिदन्तनिर्मितानि विविधवस्तुनि अन्यतमानि । अत्रस्थ सप्तशतद्विसहस्राधिकानि अस्त्रशस्त्रानि पर्यटकानां मुख्याकर्षणकेन्द्रम् । बृहदाकारग्रन्थालयोऽपि अस्य एव अंशरूपेण अत्र स्थितः ।

निजामत-इमामबाड़ा

[सम्पादयतु]

वर्तमाने यत्र निजामत-इमामबाड़ा स्थिता तत्रैव सिराज्-उद्-दुल्लायाः इमामबाड़ा आसीत् । परन्तु अग्निसंयोगात् सा इमामबाड़ा विध्वंसाऽसीत् । १८४७ तमे संवत्सरे अस्या निर्माणम् अभवत् । हुमांयू-जाहस्य अपत्यं नवाबनजीम-मंसूर-अलीखान् अस्या निर्माता । निजामत-इमामबाड़ा समग्रभारते सर्वबृहत् इमामबाड़ा ।

कटरामस्जिद्

[सम्पादयतु]

विशालगोलक(गुम्बद) तथा गगनचुम्बीस्तम्भ(मिनार्)-समन्वितं कटरामस्जिद् अतिरमणीयम् । १७२३-२४ तमे वर्षे नवाबमुर्शिद्-कुलीखान् अस्य निर्माणं कृतवान् । अस्य मुस्लिमदेवालयस्य ऐतिहासिकगुरुत्वमस्ति । अत्रैव नवाबमुर्शिद्-कुलीखान्-महोदयस्य शवस्मारकं विद्यते ।

परिवहनम्

[सम्पादयतु]
मुर्शिदाबादमण्डलम्
मुर्शिदाबादमण्डलम्

वायुमार्गः

[सम्पादयतु]

पर्यटकाः वायुमार्गेन कोलकाताविमानकेन्द्रं गन्तुं शक्नुवन्ति । ततः मुर्शिदाबादमण्डलं "बस"माध्यमेन अनयासेन संप्रप्यते ।

धूम्रशकटमार्गः

[सम्पादयतु]

मुर्शिदाबादमण्डलस्य केन्द्रनगरे बहरमपुरे पर्यटनार्थं धूम्रशकटस्थानकं (स्टेशन्) निर्मितमस्ति । सियालदहस्थानकतः(स्टेशन) "भागीरथी एक्सप्रैस" एवं "लालगोला सवारी" इत्यादिनि धूम्रशकटयानानि बहरामपुरनगरं गन्तुं सहजलभ्यानि ।

भूमार्गः

[सम्पादयतु]

पर्यटकाःपश्चिमबङ्गराज्यस्य विभिन्नप्रान्ततः तथा च भारतस्य अन्यराज्यतः अपि मुर्शिदाबादमण्डलं भूमार्गेन सुलभतया आगन्तुं शक्नुवन्ति ।

परिसीमा

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=मुर्शिदाबादमण्डलम्&oldid=464715" इत्यस्माद् प्रतिप्राप्तम्