मालदामण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


मालदामण्डलम्
मालदामण्डलम्
Map-icon.gif गुगल् मानचित्रम्
विवरणम् पश्चिमबङ्गस्य मण्डलमिदम्
राज्यम् पश्चिमबङ्गः,  भारतम्
निर्माणकालः १८ अगस्ट्, १९४७
वातावरणम् आर्द्र-शुष्कश्च
एस्.टी.डी. कोड ०३५१२
ए.टी.एम् नगरे सर्वत्र लभ्यते
प्रशासनिकविभागः जलपाइगुडि
केन्द्रनगरम् इङ्गलिश्-बाजार
लोकसभाकेन्द्राणि उत्तरमालदा, दक्षिणमालदा
जनसङ्ख्या (२०११) ३९,९७,९७०
विस्तीर्णता ६७३३ वर्ग कि मी

(२,५९९.६ वर्ग मील्)

विस्तीर्णता ६७३३ वर्ग कि मी

(२,५९९.६ वर्ग मील्)

भारतीय-मान-समयः +५:३० (यु टी सि)
विमानस्थानकम् एरोड्राम् (डोमेस्टिक् एयर् लैन्स्)
रेलस्थानकम् मालदा टाउन् (पूर्व रेल्)
बस् स्थानकम् चित्तरञ्जनबस् स्थानकम्
यातायातव्यवस्था बस्, टैक्सी इत्यादि
दर्शनीयस्थलम् गौड ऐतिहासिकक्षेत्रम्,
आदिना मृगसंरक्षणालयः,
पाण्डुया
जालस्थानम् http://malda.nic.in/

मालदामण्डलम्(Malda) वा "मालदहमण्डलम्" (बाङ्गला-মালদহ বা মালদা ) पश्चिमबङ्गराज्यस्य जलपाइगुडिविभागस्य एकं मण्डलम् । मण्डलमिदं राज्यस्य राजधानीकोलकातातः २१५ कि मी उत्तरे अवस्थितम् । आम्रफलस्य तथा चीनांशुकस्य कृषिः अस्य मण्डलस्य उल्लेखयोग्यं वैशिष्ट्यम् । प्रसिद्धलोकसंस्कृतेः गम्भीरायाः(नृत्यप्रकारस्य) उद्भवस्थलं मालदामण्डलमेव । मालदामण्डलस्य केन्द्रम् इङ्गलिश-बाज़ारनगरं मालदा नाम्ना अपि विख्यातम् । पुराकाले मालदामण्डलं पश्चिमबङ्गराज्यस्य राजधानी आसीत् । मालदामण्डले पारम्परिकशिक्षा-संस्कृतेः पोषणं क्रियते । इङ्गलिश-बाजारनगरस्य विस्तृतरूपेण पुरातन-मालदानगरं महानन्दातटसमीपे वर्तते । आश्चर्यविषयोऽस्ति मालदामण्डलस्य स्वाधीनता १९४७ वर्षस्य अगष्टमासस्य १७ दिनाङ्के अभवत् इति।

नामकरणम्[सम्पादयतु]

मालदा इति नामकरणम् अस्य मण्डलस्य आदिवासिगणः मलद" इति कौमगोष्ठ्यात् आगतम् । भिन्नमतानुसारं फ़ारसिभाषायाः शब्दः "माल"(धनसम्पदः) एवं बाङ्गलाभाषायाः शब्दः "दह" इत्येतयोः समन्वयेन मालदह इति सिद्ध्यति ।

गौडदेशः

इतिहासः[सम्पादयतु]

प्राक्-गौडदेशः[सम्पादयतु]

महर्षिपाणिनि गौडपुरम् इति नगरस्य उल्लेखं कृतवान् । "गौड" जातेः निवासनगरमिदम् आसीत् । बहुप्रसिद्ध"गौड"जनानां राजत्व अत्र पुरकाले आसीदिति स्मारकस्तम्भादि दर्शनात् ज्ञायते । गौडदेशः पुराकाले द्विखण्डे विभज्यासीत् । गौड-पाण्डुया(पुण्ड्रवर्धनः) इति महन्नगरे द्वे पश्चिमबङ्गराज्यस्य मध्ययुगीयराजधानी आस्ताम् । वर्तमान-इङ्गलिशबाजारनगरस्य(पुरातननाम- "इङ्गलेज़ावाद" ब्रिटिशशासकजनैः निर्मितम्) उत्तर,दक्षिणदिशि नगरद्वयम् आस्ताम्।

  • क्रीस्तपूर्व पञ्चमशताब्द्यात् गौडप्रदेशस्य परिसीमा परिवर्तनशीला आसीत् । पौराणिकग्रन्थेषु अस्य नगरस्य आख्यानमस्ति । पुण्ड्रनगरं मौर्यशासकस्य प्रादेशिकराजधानी आसीदिति वर्तमानबाङ्गलादेशस्य बोगरामण्डलस्य महास्थानगढनामकस्थाने उपलब्धशिलालेखः प्रमाणयति । तथा प्रसिद्धचीनापरिब्राजकः ह्यु-एञ्-साङ् (Hiuen Tsang)महोदयः सम्म्राट-अशोकस्य बहुशिलालेखाः पुण्ड्रनगरे दृष्टवान् इति स्वभारतभ्रमणपुस्तके वर्णयति ।
  • गौडवंशीय विक्रमीराजा "शशाङ्कः" गुप्तशासकोत्तरकाले(प्रायशः सप्तमशताब्देः प्रारम्भकाले) दशकत्रयं अत्र शासनम् अकरोत् । अष्टम शताब्दीतः एकादशशताब्देः समाप्त्यावधिः बङ्गप्रान्तेषु पालवंशस्य आधिपत्यमासीत् । पालजनाः बौद्धमतं प्रसारितवन्तः । तेषां शासनकाले गौडप्रदेशस्य जगदल्लविहारः(बौद्धमठः) इति नाम आसीत् ।

गौडदेशः[सम्पादयतु]

  • पालवंशस्य अनुवर्तीसाम्राज्य सेनवंशस्यासीत् । वस्तुतः सेनवंशस्य आगमनान्तरं बौद्धाः बङ्गप्रदेशात् अवलुप्ताः अभवन् । सेनवंशस्य लक्ष्मणसेनगौडः महानराजा आसीत् । सेनवंशस्य शासनकालः क्रैस्तवीय १२०४ पर्यन्तमासीत्। तदनन्तरवर्तीकाले मुस्लिमजनानां राजत्व आसीत् । ते मालदह(माल= धनसम्पदः, दह= द्रहः नाम गभीरह्रदः) इति नामकरणं कृतवन्तः । मुघलसम्राटहुमायुन-महोदयस्य गौडदेशीय आम्रविषये महती प्रीतिः आसीत् । प्रायः एतस्मात् एव जन्नतावादः(स्वर्गोद्यानम्) इत्यपि नामकरणं तेन (हुमायुनेन) दत्तासीत् । १७५७ वर्षपर्यन्तं तेषां (मुस्लिमजनानाम्) गौडप्रान्ते आधिपत्यम् आसीत् ।
फिरोजमिनारः

गौडोत्तरकालः[सम्पादयतु]

  • १७५७ तमे वर्षे इस्ट् इन्डिया संस्थायाः जनाः गौडप्रदेशं आगतवन्तः । वैदेशिकवाणिज्यिकाः महानन्दानद्याः दक्षिणप्रान्ते निवासम् अकरोत् । आङ्गलजनाः मालदामण्डले तेषां वाणिज्यिककार्यालयाः स्थापितवन्तः । प्राच्यपण्डितः "उइलियाम क्यरि" अत्र कार्यं कृतवान् । परन्तु तदा गौडप्रदेश्स्य सुवर्णयुगस्य लेशमात्रमपि न आसीत् ।
  • १८७६ वर्षपर्यन्तं मालदामण्डलं वर्तमानबाङ्गलादेशस्य राजशाहीविभागान्तर्भुतासीत् । १८७६-१९०५ काले भागलपुरविभागस्य मण्डलम् आसीत् । १९०५ तमे वर्षे मालदामण्डलं पुनः राजशाहीविभागे आगतम् एवञ्च स्वाधीनताप्राप्तिरवधिः(१९४७ क्रैस्ताब्दः) तस्मिनेव विभागे आसीत् ।
  • १९४७ वर्षस्य अगष्ट्-मासस्य १२-१५ दिनाङ्कपर्यन्तं मालदामण्डलस्य भाग्यनिर्धारणं न जातम् । पूर्व-पाकिस्थाने उत भारते अस्य स्थानमिति विषये निर्णयः अगष्ट्-मासस्य १७ दिनाङ्के अभवत् । भारतवर्षेन विजीतमिदं मालदामण्डलम् ।
  • स्वाधीनभारतवर्षे मालदामण्डलम् उपेक्षितम् आसीत् । परन्तु केन्द्रीयमन्त्री ए वि ए गणिखान चौधुरीमहोदयस्य तत्त्वावधाने मण्डलमिदं पश्चिमबङ्गराज्यस्य एवं भारतवर्षस्य विशिष्टस्थानम् अलभत् । २८ वर्षाणि सः मण्डलस्य उन्नतिनिमित्तं बहुप्रकल्परूपायणं कृतवान् ।

thump.jpg

अवस्थानं जनसंख्या च[सम्पादयतु]

  • अक्षांशः : २४°४०’२०"- २५°३२’०८" उत्तरदिक्
  • द्राघिमांशः : ८७°४५’५०"- ८८°२८’१०" पूर्वदिक्
  • मण्डलस्य आयतनम् : ३४५५.६६ वर्ग कि मी
  • जनसंख्या (२००१ जनगणनाधारेण): ३,२९०,१६०

परिसीमा[सम्पादयतु]

मालदामण्डलस्य पश्चिमदिशि बिहारराज्यम् अस्ति । तथा उत्तरदिशि उत्तरदिनाजपुरं दक्षिणदिनाजपुरमण्डलञ्च स्तः । पूर्वदिशि बाङ्गलादेशः तथा दक्षिणे मुर्शिदावादमण्डलं विराजते ।

"https://sa.wikipedia.org/w/index.php?title=मालदामण्डलम्&oldid=283251" इत्यस्माद् पुनः प्राप्तिः