बांकुडामण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
बांकुडामण्डलम्
मण्डलम्
देशः  भारतम्
राज्यम् पश्चिमबङ्गराज्यम्
प्रशासनिकविभागः बर्धमानविभागः
केन्द्रनगरम् बांकुडा
Area
 • Total ६,८८२ km
Population
 (2011)
 • Total ३५,९६,२९२
 • Density ५२३/km
Time zone UTC+५:३० (भारतीय-मान-समयः)
लोकसभाकेन्द्राणि बांकुडा , विष्णुपुर् ।
Website http://bankura.gov.in/

बांकुडामण्डलम्(Bankura) पश्चिमबङ्गराज्यस्य बर्धमानविभागस्य सप्तमण्डलेषु एकं मण्डलम् । दामोदरनदः बांकुडा-बर्धमानमण्डलयोः मध्ये विभाजिका रेखारूपेण स्थितः ।

नामौचित्यम्[सम्पादयतु]

  • १७७९ तमे वर्षे रेनेल्-महोदयेन निर्मितमानचित्रे बांकोडाह(‘Bancoorah') इति ग्रामस्य उल्लेखः आसीत् । १८६३ तमे वर्षे ग्यासट्रेल्-महोदयेन अस्य बानकुन्डा इति नामकरणं कृतः । प्रायशः ततः 'बांकुडा' इति अविधा आगता ।
  • बांकुडा इत्यस्य नामस्य व्युत्पत्तिविषये विविधमतानि सन्ति । रेनेल्-महोदयस्य मतानुसारं नगरस्य प्रतिष्ठाता 'बङ्कु राइ' आसीत् । तस्य नामानुसृत्यैव इयम् अविधा इति एकः पक्षः । बांकुडामण्डलस्य आख्या 'मल्लराज्ञः' पुत्रः 'बाङ्कुडा राइ'-महोदयस्य नामानुकरणमेव इति अपरपक्षः ।
  • परन्तु डां सुनीतिकुमार चट्टोपाध्याय-महोदयस्य मतानुसारं संस्कृतपदं वङ्कः (वक्रः इत्यर्थे) तस्य अपभ्रंशःबांकु तथा कोलजातेः ओडा(वसति इत्यर्थे) पदयोः सम्मिलितरूपं बांकुडा इति ।

इतिहासः[सम्पादयतु]

ऐतिहासिक बांकुडा
ऐतिहासिक बांकुडा

ऐतिहासिकमतानुसारं बांकुडामण्डलं प्राचीनकाले 'सूक्ष्मभूमिः' इति नाम्ना परिचितम् आसीत् । महाभारते वर्णितमस्ति भीमः सूक्ष्मभूमेः अधिपतिं जीतवान् । महाभारतस्य टीकाकारः नीलकण्ठः सूक्ष्मभूमिं राढः इति नाम्ना आख्यायितवान् । जैनागमग्रन्थे आचाराङ्गसूत्रे राढप्रान्तः लाढः इत्यविधया वर्णितः अस्ति । क्रैस्तवीय अष्टमशतके अत्र मल्ल मल्ल राजवंशस्य राजत्व आसीत् । तेषां शासनकाले मण्डलस्य आर्थ-सामाजिक-सांस्कृतिक उन्नतिः त्वरान्वितः अभवत् । वर्तमान विष्णुपुर् तदानीं मल्लभूम मल्लराज्यस्य राजधानी आसीत् । प्रायशः सहस्रवर्षाणि यावत् अस्मिन् प्रान्ते शासनम् अकरोत् । पश्चिमबङ्गस्य इतिहासे अन्यतमः श्रेष्ठः तथा प्रजहितैषीराजवंशरूपेण अस्य ख्यातिः अस्ति । १७६५ तमे वर्षे प्रान्तोऽयं इस्ट् इण्डिया कम्पानि अधीने आगतः । १८८१ तमे वर्षे वर्तमान बांकुडामण्डलस्य गठनम् अभवत् ।

भौगलिकावस्थानम्[सम्पादयतु]

बांकुडामण्डलं दक्षिण-पश्चिमदिशि छोटोनागपुर्- उच्चभूमेः एवं निम्नगाङ्गेय समभूमेः मध्यवर्तीप्रदेशे अवस्थितम् । अस्य मण्डलस्य विस्तृतिः ६८८२ वर्ग कि मी । बांकुडामण्डलस्य पश्चिमदिशि लोहितमृत्तिकागठित(ल्याटेराइट्) उच्चभूमिः, उपत्यका, गहनारण्यम् एवं शिलास्तुपमयः भू-भागः अस्ति । बांकुडामण्डलस्य अधिकांशः लोहितमृत्तिका तथा पललमृत्तिका द्वारा गठित । दमोदरः, द्वारकेश्वरः, कंसावती, शिलाइ इत्याद्याः प्रधाननद्याः भवन्ति । ग्रीष्मकालिन सर्वोच्चतापमात्रा ४४º-४५º सेन्टिग्रेट् एवं सर्वनिम्नतापमात्रा १५º सेन्टिग्रेट् तिष्ठति । शीतकालिन सर्वोनिम्नतापमात्रा ६º सेन्टिग्रेट् भवति । वार्षिकवृष्टेः परिमाणं १४०० मिलिमिटर् । बांकुडामण्डले २४७.७० सहस्रहेक्टर् (मण्डलस्य समग्रायतनस्य २१.४७%) वनभूमिः अस्ति ।

जनपरिसंख्या[सम्पादयतु]

बांकुडामण्डलस्य परिदृश्यम्
बांकुडामण्डलस्य परिदृश्यम्

२००१ वर्षस्य जनगननानुसारं बांकुडामण्डलस्य जनसंख्या ३१९२६९५ । तस्मिन् परिसंख्याने १६३६००२ पुरुषाः १५५६६९३ महिलाः सन्ति । तथा उभयोः अनुपातः १००:९५ । मण्डलस्य ग्रामीनजनसंख्या २९५७४४७ (समग्रजनसंख्यायाः ९२.६३%) तथा पौरजनसंख्या २३५२४८ (समग्रजनसंख्यायाः ७.३७%) । बांकुडामण्डलस्य साक्षरता परिसंख्या १७३४२२२ जनाः (समग्रजनसंख्यायाः ६३.४४%) ।

शिक्षा[सम्पादयतु]

बांकुडामण्डलस्य सार्विकसाक्षरता ६३.४४ प्रतिशतम् अस्ति (पुरुषाणाम्-७६.७६%, महिलानाम्-४९.४३%) । मण्डलस्य ग्रामीनसाक्षरता ६२.०९% एवं पौरसाक्षरता ८०.२२% स्तः । २००४ वर्षस्य परिसंख्यानुसारं मण्डले ३९३० विद्यालयाः सन्ति । उच्चशिक्षाक्षेत्रे अत्र १४ महाविद्यालयाः तथा ५ यान्त्रिकमहाविद्यालयाश्च सन्ति ।

स्वास्थ्य[सम्पादयतु]

बांकुडामण्डले सर्वकारस्य १५ चिकित्सालयाः सन्ति । एतद् व्यतिरिच्य ८७ स्वास्थ्यकेन्द्राणि, ५०८ आरोग्यनिकेतनानि, ४२ औषधालयाः सन्ति । बांकुडा पौरसभायां त्रयः बृहत्-भेषजालयाः सन्ति । विष्णुपुरे तथा सोनामुखीपौरसभायामपि चिकित्सालयः विद्यते ।

परिसीमा[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=बांकुडामण्डलम्&oldid=464703" इत्यस्माद् प्रतिप्राप्तम्