बर्धमानमण्डलम्
दिखावट
बर्धमान्(Burdwan) पश्चिमबङ्गराज्ये स्थितमेकं जनपदम् । अस्य मण्डलस्य केन्द्रं बर्धमान्नगरम्।
बर्धमानजनपदम् | |
|---|---|
|
मण्डलम् | |
|
| |
| देशः |
|
| राज्यम् | पश्चिमबङ्गराज्यम् |
| प्रशासनिकविभागः | बर्धमानविभागः |
| केन्द्रनगरम् | बर्धमान् |
| Area | |
| • Total | ७,०२४ km२ |
| Population (2011) | |
| • Total | ७७,२३,६६३ |
| • Density | १,१००/km२ |
| Time zone | UTC+५:३० (भारतीय-मान-समयः) |
| लोकसभाकेन्द्राणि | आसानसोल, दुर्गापुर्, बर्धमान्(पूर्वः), बोलपुर्, विष्णुपुर् । |
| Website | http://bardhaman.nic.in/ |
बर्धमानमण्डलस्य भित्तिः मूलतः कृषिः । मण्डलमिदं पश्चिमबङ्गराज्यस्य शस्यभण्डारम् इति प्रसिद्धम् अस्ति । बर्धमानमण्डलस्य राणिगंज अङ्गार-खनिः तथा आसानसोल अङ्गार-खनिः भारतेप्रसिद्धः ।
नामौचित्यम्
[सम्पादयतु]बर्धमान इति नामकरणप्रसङ्गे विविधमतानि प्रचलितानि सन्ति । प्रथममतानुसारं २४तमजैनतीर्थङ्करस्य वर्धमानस्य नामानुसृत्यैव मण्डलस्य नाम आगतम् । अन्यमतानुसारं भारते आर्यीकरणसमये अस्य जनपदस्य वर्धिष्णुता एव नामकरणप्राप्तेः कारणम् । गाङ्गेय-उपत्यकायाम् आर्यसभ्यतायाः विकाससमये उन्नतेः प्रतीकरूपेण प्रान्तोऽयं विख्यातः आसीत् । 'गलसि'-आरक्षकालयसंलग्नः "मल्लसरुल्" इति ग्रामे प्राप्ते षष्ठशतकस्य ताम्रपत्रशासने अस्य मण्डलस्य नाम प्रप्रथमवारम् अलभत ।