दार्जिलिङ्गमण्डलम्
दार्जिलिङ(Darjeeling) इति पश्चिमबङ्गराज्ये स्थितमेकं जनपदम् । अस्य मण्डलस्य केन्द्रनगरम् दार्जिलिङ नगरम्।
दार्जिलिङ-जनपदम् দার্জিলিং জেলা | |
---|---|
जनपदम् | |
देशः | भारतम् |
राज्यम् | पश्चिमबङ्गराज्यम् |
प्रशासनिकविभागः | जलपाइगुडि |
केन्द्रनगरम् | दार्जिलिङ |
Area | |
• Total | ३,१४९ km२ |
Population (2011) | |
• Total | १८,४२,०३४ |
• Density | ५८५/km२ |
Time zone | UTC+५:३० (भारतीय-मान-समयः) |
लोकसभाकेन्द्रम् | दार्जिलिङ लोकसभाकेन्द्रम् |
Website | http://darjeeling.gov.in/ |
नामौचित्यम्
[सम्पादयतु]दार्जिलिङ इति शब्दस्य व्युत्पत्तिः संस्कृतं 'दुर्जयलिङ्गम्' इति शब्दात् । देवादिदेवः शिवः अत्र द्योत्यते । परन्तु अपरपक्षानुसारं तिब्बतदेशीय 'दोर्जे' (अर्थः-वज्रः) तथा 'लिङ' (अर्थः-भूमिः) पदयोः सम्मिलितरूपं 'दार्जिलिङ'(वज्रभूमिः) इति ।
परिचयः
[सम्पादयतु]दार्जिलिङ अन्ताराष्ट्रियस्तरे प्रसिद्धस्थलम् । विशेषतः सुगन्ध-चायपत्राणि पृथिवीख्यातः । 'युनेस्को' इति संस्थया दार्जिलिङप्रदेशीय हिमालयन् रेल्वे विश्वसम्पदस्थलमिति घोषितम् । दार्जिलिङमण्डले चायसस्यकृषिः प्रथमवारं प्रायः १८०० वर्षे प्रारब्धासीत् । भौगोलिकदृष्ट्या दार्जिलिङमण्डलं शिवालिक-पर्वतश्रेण्याम्(शिवलिङ्गपर्वतश्रेणी) अन्तर्भवति । दार्जिलिङमण्डलस्य नैसर्गिकपरिदृश्यानि अतीवरमणीयानि सन्ति ।
इतिहासः
[सम्पादयतु]- दार्जिलिङ मण्डलस्य इतिहासः पश्चिमबङ्गराज्ये सीमावद्धः न अपितु सिक्किम-नेपाल-भुटानप्रान्तेषु विस्तृतः । दार्जिलिङ इति प्रदेशस्य सन्धानं ब्रिटिशसेनया आंग्ल-नेपाल युद्धकालिन अलभत् । वस्तुतः ब्रिटिशसेनावाहिनी सिक्किम गमनाय लघुमार्गः अनुसन्धानम् अकरोत् । तदानीं दार्जिलिङ प्रदेशे ब्रिटिशसेना आगता । दार्जिलिङमण्डलस्य नैसर्गिकसौन्दर्यं बहुसमृद्धासीत् तदर्थं युद्धानन्तरवर्तीकाले ब्रिटिशजनाः अत्र वसतिस्थापनम् अकरोत् । रणनीतिगतदृष्ट्या दार्जिलिङमण्डलस्य गुरुत्वम् आसीत् । प्रारम्भिककाले दार्जिलिङ सिक्किमराज्यस्य मण्डलमासीत् । अनन्तरं प्रदेशोऽयं भुटानदेशेन अधिकृतासीत् । अष्टादशशताब्द्यां नेपालदेशः अत्र स्वाधिकारविस्तारम् अकरोत् । १८१७ तमे वर्षे आंग्ल-नेपाल युद्धे नेपालदेशस्य पराजयः अभूत् । ततः दार्जिलिङप्रदेशः ईस्ट इंडिया कम्पनी अधीनस्थ प्रदेशेषु एकः अभवत् ।
- उनविंशशतके दार्जिलिङमण्डले राजनैतिकाऽस्थिरता आसीत् । तस्मिन् समये प्रदेशोऽयं राजनैतिकशक्तिप्रदर्शनी स्थलरूपेण परिवर्तितासीत् । आदौ तिब्बत अनन्तरं यूरोप-[[रशिया-आफगानिस्तानाधीनं मण्डलमिदमासीत् । ब्रिटिशशासनकालेऽपि जापानसेनायाः तथा सुभाषचन्द्र बोस महोदयस्य भारतीयराष्ट्रियसेनावाहिन्या(इंडियन नेशनल आर्मी ) कार्यलयाः दार्जिलिङमण्डले आसन् ।
वर्तमानस्थितिः
[सम्पादयतु]वर्तमानकाले दार्जिलिङमण्डलं पश्चिमबङ्गस्य एकः भागः । अस्य मण्डलस्य विस्तारः ३,१४९ वर्गः कि मी । दार्जिलिङमण्डलस्य उत्तरदिशि सिक्किमराज्यस्तथा नेपालदेशः स्तः । अत्र अत्यधिकशैत्यता वर्षस्य अधिकांशसमये तिष्ठति । शिशिरऋतौ अत्र पार्वत्यप्रदेशेषु हिमपातः भवति ।
मुख्याकर्षकविषयाः
[सम्पादयतु]'शाक्य'मठम्
[सम्पादयतु]शाक्यसम्प्रदायस्य ऐतिहासिकमठमिदं अत्यन्तमहत्वपूर्णस्थलम् अस्ति । दार्जिलिङ नगरतः ८ कि मी दूरे स्थितस्य 'शाक्य'मठस्य स्थापना १९१५ तमे वर्षे अभूत् । भगवानबुद्धस्य पूजनम् अत्र बहुविशिष्ट्यं भवति ।
द्रुक्-थम्बटेन्-सांगग्-चोलिंग्-मठम्
[सम्पादयतु]१९६० तमे वर्षे एकादश 'गेलवांगद्रुकचन्-तेंजिन्-खेनरब्-जिलगवांगपो' महोदयस्य मृत्युः अस्मिन् मण्डले अभूत् । तस्य स्मृतिस्मारकरूपेण मठमिदं स्थापितमासीत् । तिब्बतीयशैल्या अस्य अतिसुन्दरमठस्य रचना अभवत् । बौद्धधर्मगुरूः दलाई लामा महोदयः अस्य(द्रुक-थम्बटेन-सांगग-चोलिंग-मठस्य) उद्घाटनम् अकरोत् ।
माकडोंग्-मठम्
[सम्पादयतु]माकडोंग्-मठं दार्जिलिङ-मण्डलस्य आलूबरीग्रामे स्थितम् । मठमिदं बौद्धधर्मस्य 'योलमोवा' इति सम्प्रदायस्य प्रार्थनास्थलम् । अस्य मठस्य उद्घाटनं 'संगे लामा' महोदयः कृतवान् । संगे लामा योलमोवा-सम्प्रदायस्य प्रमुखव्यक्तिः आसीत् । बौद्धधर्मस्य संख्यालघ्वऽयं सम्प्रदायः मूलतः नेपालदेशस्य पूर्वदिशिः अवस्थितासीत् । परन्तु अनन्तरवर्तीकाले योलमोवा-सम्प्रदायस्य जनाः निवसति स्थानम् अकरोत् । माकडोंग्-मठस्य निर्माणकार्यं १९१४ तमे वर्षे सम्पूर्णमभवत् । मठमिदं योलमोवा-सम्प्रदायस्य सामाजिक-सांस्कृतिक-धार्मिकप्रतीकरूपेण विशिष्ट्यतां भजते । पर्यटकानां भ्रमणप्रदेशेषु मठमिदम् अत्यन्तप्रीयम् ।
पीस्-पैगोडा(जपान्देशीय मन्दिरम् )
[सम्पादयतु]पीस्-पैगोडा इति मन्दिरं समग्रविश्वे शान्तिप्रतिष्ठानिमित्तं महात्मगान्धेः मित्रं 'फूजी गुरु' महोदयः निर्मितवान् । समग्रभारते षट्-शान्तिमन्दिराणि सन्ति । तेषु अन्यतममिदं मन्दिरम् । अस्य मन्दिरस्य निर्माणकार्यं १९७२ तमे वर्षे प्रारब्धासीत् । १९९२ वर्षस्य नवेम्बर् मासस्य प्रथमे दिनाङ्के पीस्-पैगोडा इति सार्वजनिकमिलनक्षेत्रस्य उद्घाटनम् अभवत् । पर्यटकाः इतः काञ्चनजङ्घा पर्वतश्रेण्याः मनोरोमाणि नैसर्गिकपरिदृश्यानि द्रष्टुं शक्नुवन्ति ।
व्याघ्रगिरिः (टाइगर्-हिल्)
[सम्पादयतु]व्याघ्रगिरिः दार्जिलिङ-मण्डलस्य दर्शनीयस्थलेषु अन्यतमः । अत्र पर्यटकानां मुख्यार्षकव्यापारं भवति पर्वतारोहणम् । व्याघ्रगिरेः समीपे एव काञ्चनजङ्घा पर्वतशिखरः अस्ति । १८४९ वर्षपर्यन्तं काञ्चनजङ्घापर्वतशिखरः एव पृथिव्याः सर्वोच्चशिखरःइति प्रचारितः आसीत् । परन्तु १८५६ तमे वर्षे सर्वेक्षणेन स्पष्टः जातः यत् 'एवरेस्ट' पृथिव्याः सर्वोच्चशिखरः इति । काञ्चन-एवरेस्ट् पर्वतशृङ्गयोः ८२७ फीट् उच्चताभेदः अस्ति । वर्तमाने 'काञ्चनजङ्घा'पर्वतशिखरः पृथिव्याः तृतीय-उच्चतमशिखरः । काञ्चनजङ्घायाः नैसर्गिकसुन्दरता अत्यन्तरमनीय तस्मात् 'मोस्ट् रोमान्टिक माउन्टेन' इत्युपाधिः लब्धास्ति । प्रख्यातचलच्चित्रनिर्माता सत्यजीत राय महोदयस्य चलच्चित्रेषुऽपि बहुवारं काञ्चनजङ्घा दर्शितम् । अनन्तरवर्तीकालेऽपि भारतीय-विदेशीयचलच्चित्रेषु च पर्वतमिदं प्रदर्शितम् ।
घूम-मठम् (जेलूग्पा)
[सम्पादयतु]व्याघ्रगिरेः समीपम् एव 'ईगा चोइलिंग् तिब्बतियन्' मठमस्ति ।
-
दार्जिलिङ-गिरिनन्दिनी 'टय्' धुम्रशकटम्
-
दार्जिलिङ-गिरिनन्दिनी 'टय्' धुम्रशकटम्
-
दार्जिलिङ-गिरिनन्दिनी 'टय्' धुम्रशकटम्