बीरभूममण्डलम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
बीरभूममण्डलम्
—  मण्डलम्  —
देशः  भारतम्
राज्यम् पश्चिमबङ्गराज्यम्
प्रशासनिकविभागः बर्धमान
केन्द्रनगरम् सिउरि, बीरभूम
विस्तीर्णम्
 • Total ४,५४५ किमी (१,७५४.८ वर्ग मी)
जनसङ्ख्या (2011)
 • Total
भारतीय-मान-समयः (UTC+५:३०)
लोकसभाकेन्द्राणि बीरभूम, बोलपुर,
जालस्थानम् http://www.birbhum.nic.in/

बीरभूम(Birbhum,बङ्गला-বীরভূম জেলা)) इति भारतवर्षस्य पश्चिमबङ्गराज्यस्य एकं प्रशासनिकमण्डलम् । अस्य मण्डलस्य केन्द्रनगरं सिउरि ।

नामौचित्यम्[सम्पादयतु]

बीरभूमौ महावीरस्य मूर्तिः

वीरभूमिः इति संस्कृतशब्दात् प्रादेशिकबीरभूमशब्दस्य निष्पत्तिः । अत्र "वीरः" नाम जैनतीर्थङ्करमहावीरः, तस्य भूमिः वीरभूमिः इति । जैनागमग्रन्थः आचारङ्गसंहितायां महावीरस्य "राढभूमिभ्रमणं"(बीरभूमप्रदेशस्य पूर्वनाम) वर्णितम् अस्ति । भिन्नमतानुसारम्, अत्र राजत्वकारी वीरराजवंशस्य नामानुसारेण मण्डलस्य नामकरणम् अभवत् इति । तथा सन्थालीभाषायां 'बीर'शब्दस्य अर्थः अरण्यमिति । तदनुसृत्य बीरभूमिः नाम अरण्यभूमिः इति सिद्ध्यति ।

वैशिष्ट्यम्[सम्पादयतु]

बीरभूममण्डलं सांस्कृतिक-ऐतिह्यस्वातन्त्र्यात् समग्रपश्चिमबङ्गे विशिष्टस्थानं भजते । बीरभूममण्डलस्य पश्चिमभागः अरण्यमयः । तथा पूर्वदिशि पललसमृद्धम् उर्वरकृषिक्षेत्रम् अस्ति । मण्डलमिदम् सांस्कृतिक-धार्मिकभावस्य पीठभूमिः । विश्वकविरवीन्द्रनाथेन प्रतिष्ठितः विश्वभारती विश्वविद्यालयः अन्ताराष्ट्रियख्यातिसम्पन्नः विश्वविद्यालयः अत्रैव वर्तते । सुसम्मृद्धे अस्मिन् मण्डले पौषोत्सवः वैभवेन आचर्यते ।

अवस्थानम्[सम्पादयतु]

  • बीरभूममण्डलस्य अवस्थानम्-
उत्तर अक्षांशः २३° ३२'३०" - २४° ३५' ०" (कर्कटक्रान्तिरेखा) तथा पूर्वरेखांशः ८७°५'४५" -८८° १' ४०"

बीरभूममण्डलस्य पश्चिमांशः पुराकाले वज्रभूमिः अथवा वज्जभूमिः (प्राकृतरूपम्) नाम्ना ख्यातः आसीत् । प्रान्तेऽस्मिन् ऊषरतरङ्गायितोच्चभूमिः वर्तते । परन्तु मण्डलस्य पूर्वांशः तु उर्वरतरः । राढप्रदेशस्य उत्तर-पूर्वदिशि अवस्थितस्य अस्य मण्डलस्य पूर्वांशः गाङ्गेयसमभूमौ अन्तर्भवति ।

वातावरणम्[सम्पादयतु]

बीरभूममण्डलस्य वातावरणं शुष्क-चरमभावापन्नं च । पूर्वांशस्य वातावरणं मृदुः । सामान्यतः ग्रीष्मकाले ४०º सेण्टिग्रेड्परिमितं तथा शिशिरकाले १०º सेन्टिग्रेड्परिमितं तापमानम् अत्र भवति । वार्षिकवृष्टेः परिमाणम् - १४०५ -१२१२ मिलिमिटर्-परिमितम् ।

नद-नद्याः[सम्पादयतु]

बीरभूममण्डले बहुनद-नद्याः प्रवहन्ति । तासु अजयः, मयूराक्षी(मोर), कोपाइ, वक्रेश्वरः, ब्राह्मणी, द्वारका, हिंलो, बांशलै इत्याद्याः उल्लेखयोग्याः ।

इतिहासः[सम्पादयतु]

प्राचीनयुगः[सम्पादयतु]

ऐतिहासिकवीरभूमिः

बीरभूममण्डले प्रत्नस्थलानि बहुत्र दृश्यन्ते, यथा- आउसप्रदेशस्य पाण्डुराज्ञः स्तूपादयः (बाङ्गला- আউসগ্রামের পাণ্ডুরাজার ঢিবি) ताम्रप्रस्तरयुगस्य निदर्शनानि । आचाराङ्गसूत्रम् इति जैनागमग्रन्थानुसारं सर्वशेषतीर्थङ्करः महावीरः अत्र आगतवान् । क्रैस्तपूर्वपञ्चमशतके अस्य प्रान्तस्य नाम लाढदेशः आसीत् । दिव्यावदानम् इति बौद्धग्रन्थम् आधारीकृत्य डां अतुल सुर् प्रतिपादितवान् यत्- भगवान् गौतमबुद्धः अत्र धर्मप्रचारं कृतवान् इति ।

मध्ययुगः[सम्पादयतु]

बीरभूममण्डले क्रैस्तवीय त्रयोदशशतके मुस्लिमशासनम् आसीत् । तथापि मुस्लिमशासनं सम्पूर्णमण्डले नासीत्(पश्चिमांशे केवलम्) । वस्तुतः प्रान्तोऽयं वीरः इति स्थानीयहिन्दूराजवंशेन शासितासीत् । तेषां राजत्वस्य ध्वंसावशेषाः हेतमपुरे, वीरसिंहपुरे तथा राजनगरे इदानीमपि सन्ति । पौराणिकविवरणानुसारं वज्जभूमिः वा वज्रभूमिः(पश्चिमबीरभूम) हिन्दूतान्त्रिकक्रियायाः पीठभूमिः आसीत् । ऐतिहासिकस्य डां अतुल सुर्-महोदयस्य मतानुसारं वज्रभूमेः जनवसतिविरलता धर्मीय-आचारानुष्ठानादि पालने अनुकूला आसीत् । तान्त्रिकपरिप्रेक्षितेन बहुग्रन्थकारेण कामकोटी इति अविधया मण्डलमिदं वर्णितमस्ति । शाक्त-बौद्धतान्त्रिकाः तन्त्रसाधनार्थमत्र बहुमन्दिराणि निर्मितवन्तः। अष्टादशशक्तिपीठेषु अन्यतमं तारापीठम् अत्रैव अस्ति ।

आधुनिकयुगः[सम्पादयतु]

१७८७ तमे वर्षे इस्ट् इन्डिया संस्थायाः शासने बीरभूम नामकस्य अस्य प्रशासनिकमण्डलस्य निर्माणम् अभवत् । पुराकाले प्रान्तोऽयं मुर्शिदाबादमण्डलस्य अंशः आसीत् । नवनिर्मितबीरभूममण्डलं वर्तमानस्वरूपतः बृहदासीत् । १७९३ वर्षपर्यन्तं विष्णुपुरं(वर्तमाने वांकुडामण्डलम्) बीरभूममण्डले आसीत् । १८५७ तमे वर्षे सेनाविद्रोहसमये अस्य मण्डलस्य विस्तृतिः देवघरपर्यन्तम् आसीत् । १८५५ वर्षे अविभक्तबीरभूममण्डले सन्थालिविद्रोहात् आदिवासिभिः अध्युषितस्य पश्चिमप्रान्तस्य विभाजनस्य आशुप्रयोजनम् सर्वकारेण अनुभूतमासीत् । तदर्थं कर्तृपक्षेण विद्रोहदमनानन्तरं मण्डलस्य विभाजनमपि कृतमासीत् । इदानीमपि बीरभूममण्डले सन्थालिविद्रोहस्य सिधु-कान्हु इति वीरनायकयोः विजयदिवसरूपेण संपाल्य स्मृतिचारणां जनाः कुर्वन्ति ।


"http://sa.wikipedia.org/w/index.php?title=बीरभूममण्डलम्&oldid=281589" इत्यस्माद् पुनः प्राप्तिः