सामग्री पर जाएँ

बांकुडामण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(बन्कुर मण्डलः इत्यस्मात् पुनर्निर्दिष्टम्)
बांकुडामण्डलम्
मण्डलम्
देशः  भारतम्
राज्यम् पश्चिमबङ्गराज्यम्
प्रशासनिकविभागः बर्धमानविभागः
केन्द्रनगरम् बांकुडा
Area
  Total ६,८८२ km
Population
 (2011)
  Total ३५,९६,२९२
  Density ५२३/km
Time zone UTC+५:३० (भारतीय-मान-समयः)
लोकसभाकेन्द्राणि बांकुडा , विष्णुपुर् ।
Website http://bankura.gov.in/

बांकुडामण्डलम्(Bankura) पश्चिमबङ्गराज्यस्य बर्धमानविभागस्य सप्तमण्डलेषु एकं मण्डलम् । दामोदरनदः बांकुडा-बर्धमानमण्डलयोः मध्ये विभाजिका रेखारूपेण स्थितः ।

नामौचित्यम्

[सम्पादयतु]
  • १७७९ तमे वर्षे रेनेल्-महोदयेन निर्मितमानचित्रे बांकोडाह(‘Bancoorah') इति ग्रामस्य उल्लेखः आसीत् । १८६३ तमे वर्षे ग्यासट्रेल्-महोदयेन अस्य बानकुन्डा इति नामकरणं कृतः । प्रायशः ततः 'बांकुडा' इति अविधा आगता ।
  • बांकुडा इत्यस्य नामस्य व्युत्पत्तिविषये विविधमतानि सन्ति । रेनेल्-महोदयस्य मतानुसारं नगरस्य प्रतिष्ठाता 'बङ्कु राइ' आसीत् । तस्य नामानुसृत्यैव इयम् अविधा इति एकः पक्षः । बांकुडामण्डलस्य आख्या 'मल्लराज्ञः' पुत्रः 'बाङ्कुडा राइ'-महोदयस्य नामानुकरणमेव इति अपरपक्षः ।
  • परन्तु डां सुनीतिकुमार चट्टोपाध्याय-महोदयस्य मतानुसारं संस्कृतपदं वङ्कः (वक्रः इत्यर्थे) तस्य अपभ्रंशःबांकु तथा कोलजातेः ओडा(वसति इत्यर्थे) पदयोः सम्मिलितरूपं बांकुडा इति ।

इतिहासः

[सम्पादयतु]
ऐतिहासिक बांकुडा
ऐतिहासिक बांकुडा

ऐतिहासिकमतानुसारं बांकुडामण्डलं प्राचीनकाले 'सूक्ष्मभूमिः' इति नाम्ना परिचितम् आसीत् । महाभारते वर्णितमस्ति भीमः सूक्ष्मभूमेः अधिपतिं जीतवान् । महाभारतस्य टीकाकारः नीलकण्ठः सूक्ष्मभूमिं राढः इति नाम्ना आख्यायितवान् । जैनागमग्रन्थे आचाराङ्गसूत्रे राढप्रान्तः लाढः इत्यविधया वर्णितः अस्ति । क्रैस्तवीय अष्टमशतके अत्र मल्ल मल्ल राजवंशस्य राजत्व आसीत् । तेषां शासनकाले मण्डलस्य आर्थ-सामाजिक-सांस्कृतिक उन्नतिः त्वरान्वितः अभवत् । वर्तमान विष्णुपुर् तदानीं मल्लभूम मल्लराज्यस्य राजधानी आसीत् । प्रायशः सहस्रवर्षाणि यावत् अस्मिन् प्रान्ते शासनम् अकरोत् । पश्चिमबङ्गस्य इतिहासे अन्यतमः श्रेष्ठः तथा प्रजहितैषीराजवंशरूपेण अस्य ख्यातिः अस्ति । १७६५ तमे वर्षे प्रान्तोऽयं इस्ट् इण्डिया कम्पानि अधीने आगतः । १८८१ तमे वर्षे वर्तमान बांकुडामण्डलस्य गठनम् अभवत् ।

भौगलिकावस्थानम्

[सम्पादयतु]

बांकुडामण्डलं दक्षिण-पश्चिमदिशि छोटोनागपुर्- उच्चभूमेः एवं निम्नगाङ्गेय समभूमेः मध्यवर्तीप्रदेशे अवस्थितम् । अस्य मण्डलस्य विस्तृतिः ६८८२ वर्ग कि मी । बांकुडामण्डलस्य पश्चिमदिशि लोहितमृत्तिकागठित(ल्याटेराइट्) उच्चभूमिः, उपत्यका, गहनारण्यम् एवं शिलास्तुपमयः भू-भागः अस्ति । बांकुडामण्डलस्य अधिकांशः लोहितमृत्तिका तथा पललमृत्तिका द्वारा गठित । दमोदरः, द्वारकेश्वरः, कंसावती, शिलाइ इत्याद्याः प्रधाननद्याः भवन्ति । ग्रीष्मकालिन सर्वोच्चतापमात्रा ४४º-४५º सेन्टिग्रेट् एवं सर्वनिम्नतापमात्रा १५º सेन्टिग्रेट् तिष्ठति । शीतकालिन सर्वोनिम्नतापमात्रा ६º सेन्टिग्रेट् भवति । वार्षिकवृष्टेः परिमाणं १४०० मिलिमिटर् । बांकुडामण्डले २४७.७० सहस्रहेक्टर् (मण्डलस्य समग्रायतनस्य २१.४७%) वनभूमिः अस्ति ।

जनपरिसंख्या

[सम्पादयतु]
बांकुडामण्डलस्य परिदृश्यम्
बांकुडामण्डलस्य परिदृश्यम्

२००१ वर्षस्य जनगननानुसारं बांकुडामण्डलस्य जनसंख्या ३१९२६९५ । तस्मिन् परिसंख्याने १६३६००२ पुरुषाः १५५६६९३ महिलाः सन्ति । तथा उभयोः अनुपातः १००:९५ । मण्डलस्य ग्रामीनजनसंख्या २९५७४४७ (समग्रजनसंख्यायाः ९२.६३%) तथा पौरजनसंख्या २३५२४८ (समग्रजनसंख्यायाः ७.३७%) । बांकुडामण्डलस्य साक्षरता परिसंख्या १७३४२२२ जनाः (समग्रजनसंख्यायाः ६३.४४%) ।

शिक्षा

[सम्पादयतु]

बांकुडामण्डलस्य सार्विकसाक्षरता ६३.४४ प्रतिशतम् अस्ति (पुरुषाणाम्-७६.७६%, महिलानाम्-४९.४३%) । मण्डलस्य ग्रामीनसाक्षरता ६२.०९% एवं पौरसाक्षरता ८०.२२% स्तः । २००४ वर्षस्य परिसंख्यानुसारं मण्डले ३९३० विद्यालयाः सन्ति । उच्चशिक्षाक्षेत्रे अत्र १४ महाविद्यालयाः तथा ५ यान्त्रिकमहाविद्यालयाश्च सन्ति ।

स्वास्थ्य

[सम्पादयतु]

बांकुडामण्डले सर्वकारस्य १५ चिकित्सालयाः सन्ति । एतद् व्यतिरिच्य ८७ स्वास्थ्यकेन्द्राणि, ५०८ आरोग्यनिकेतनानि, ४२ औषधालयाः सन्ति । बांकुडा पौरसभायां त्रयः बृहत्-भेषजालयाः सन्ति । विष्णुपुरे तथा सोनामुखीपौरसभायामपि चिकित्सालयः विद्यते ।

परिसीमा

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=बांकुडामण्डलम्&oldid=464703" इत्यस्माद् प्रतिप्राप्तम्