कोचबिहारमण्डलम्
कोचबिहारमण्डलम् কোচবিহার জেলা | |
---|---|
मण्डलम् | |
देशः | भारतम् |
राज्यम् | पश्चिमबङ्गराज्यम् |
प्रशासनिकविभागः | जलपाइगुडि |
केन्द्रनगरम् | कोचबिहार नगरम् |
Area | |
• Total | ३,३८७ km२ |
Population (२०११) | |
• Total | २८,२२,७८० |
• Density | ८३३/km२ |
Time zone | UTC+५:३० (भारतीय-मान-समयः) |
लोकसभाकेन्द्रम् | कोचबिहार लोकसभाकेन्द्रम् |
Website | http://www.coochbehar.gov.in |
कोचबिहार पश्चिमबङ्गराज्ये स्थितम् एकं मण्डलम् । अस्य मण्डलस्य केन्द्रं कोचबिहार नगरम् । आयतनदृष्ट्या मण्डलमिदं राज्यस्य त्रयोदशतमम्[१] । जनसंख्यादृष्ट्या च षोडशतमम्[१] मण्डलम् । कोचबिहारमण्डलस्य उत्तरे जलपाइगुडिमण्डलम्; दक्षिणे बाङ्गलादेशः; पूर्वे असमराज्यम् एवञ्च पश्चिमे जलपाइगुडिमण्डलम् अस्ति । सुनिर्दिष्टं भूखण्डं विहाय अपि अस्मिन् मण्डले इतःस्ततः विक्षिप्तांशाः सन्ति[२]:४७
इतिहासः
[सम्पादयतु]वर्तमानं कोचबिहारमण्डलम् अतीतकाले वृहत्तरस्य कामरूपराज्यस्य प्रदेशः आसीत् । १७७२ तमे वर्षे कोचबिहारमण्डलं ब्रिटिशभारतस्य एकं करदराज्यम् अभवत् । १९४९ तमे संवत्सरे तदानीन्तनः राजा जगद्दीपेन्द्र नारायण स्वराज्यमिदं(कोचबिहारमण्डलम्) भारतस्य सर्वकाराय दत्तवान् । १९५० तमे वर्षे कोचबिहार इति स्थलं पश्चिमबङ्गस्य मण्डलरूपेण आख्यायितम् आसीत् । [२]:४७
कामारूपराज्यस्य अंशरूपेण स्थलमिदं यदा आसीत्, तदानीं अस्य अन्तर्भावः 'कामाता' इति प्रदेशे आसीत् ।
भूगोलम्
[सम्पादयतु]समग्रकोचबिहारमण्डलं समभूमिप्रदेशे अन्तर्भवति । परन्तु विशेषतः अस्य मण्डलस्य दिनहाटाप्रदेशः अवतलभूमियुक्तप्रदेशेषु अन्तर्भवति । कोचबिहारमण्डलस्य सर्वोच्चभूस्थलं भवति शीतलकुचिप्रदेशः । हिमालयपार्वत्यश्रेण्याः पाददेशे मण्डलमिदं अवस्थितम् । अस्मिन् मण्डले एकाधिकाः विशालाकाराः ह्रदाः सन्ति ।[२]:४७-४८
नदनद्यः
[सम्पादयतु]कोचबिहारमण्डले षट्-नदनद्यः सन्ति । ताः यथा-
- तिस्ता नदी,
- जलढाका नदी,
- तोर्सा नदी,
- कालजानि नदी,
- रायडाक् नदः एवञ्च,
- गदाधरनदः [२]:४८
प्रशासनिकविभागः
[सम्पादयतु]प्राशानिकदृष्ट्या समग्रे कोचबिहारमण्डले पञ्चबृहत्-ग्रामपञ्चायतसभाः, द्वादश-समष्ट्युन्नयनसभाः, तथा षट्-पुरसभाः सन्ति ।
ग्रामपञ्चायतसभा | बृहत्-ग्रामपञ्चातसभा | समष्ट्युन्नयनसभा | पौरसभा |
---|---|---|---|
कोचबिहार् सदर् | कोचबिहार् | कोचबिहार् -१ कोचबिहार् -२ |
कोचबिहार् |
मेखलिगञ्ज | मेखलिगञ्ज | मेखलिगञ्ज हलदिबाडि |
मेखलिगञ्ज हलदिबाडि |
माथाभाङा महकुमा | माथाभाङा | माथाभाङा -१ माथाभाङा -२ शीतलकुचि |
माथाभाङा |
तुफानगञ्ज महकुमा | तुफानगञ्ज | तुफानगञ्ज -१ तुफानगञ्ज -२ |
तुफानगञ्ज |
दिनहाटा महकुमा | दिनहाटा | दिनहाटा -১ दिनहाटा -২ सिताइ |
दिनहाटा |
टिप्पणी
[सम्पादयतु]जलपाइगुडि | कोकराझाड़मण्डलम्, असमराज्यम् | |||
बाङ्गलादेशः | धुबरीमण्डलम्, असमराज्यम् | |||
कोचबिहारमण्डलम् | ||||
बाङ्गलादेशः |