मङ्गलवासरव्रतम्
भारतीये सम्प्रदाये साधकानां प्रतिदिनम् अपि कस्याचित् देवतायाः आराधनस्य विशेषः भवति । धार्मिकस्य प्रत्येकं दिवसः अपि विशिष्टः एव । मङ्गलवासरः अङ्गारकस्य नाम्नि अस्ति । अयं वासरः मङ्गलवासरः देव्याः अपि प्रियदिनम् । अतः कुजस्य देवीनां चाराधनम् अस्मिन् दिने भारते सर्वत्र प्रचलति । ये देव्याराधकाः भवन्ति ते अस्मिन् दिने एव उपवासम् आचरन्ति । दक्षिणभारते विशेषतः सुमङ्गल्यः मङ्गलगौरीव्रतम् आचरन्ति ।
आचरणविधिः
[सम्पादयतु]अस्मिन् व्रते गोदूमगुडयोः आहारः स्वीकरणीयः । २४घण्ठेषु एकवारम् एव आहारस्य स्वीकृतिः । रक्तवस्त्रं दृत्वा रक्तपुष्पैः पूजां कुर्यात् । अन्ते हनुमान्|हनूमतः]] पूजाम् अपि कुर्यात् ।
व्रतपूर्वकथा
[सम्पादयतु]कस्यचित् निस्सन्तानः ब्राह्मणः सपत्नीकः दुःखी आसीत् । सः पूजां कर्तुं वनम् अगच्छत् । तत्र हनूमन्तं पूजयित्वा सत्सन्तानार्थं प्रार्थयत् । गृहे पत्नी अपि तस्मिन् मङ्गलवासरव्रतं कृत्वा पुत्रप्राप्तये अयाचत । व्रतस्यानन्तरं हनूमते नैवेद्यं समर्प्य भोजनं कृतवती । व्रतस्य दिने कदाचित् सा पाकं कर्तुम् अशक्ता अभवत् । अतः हनूमते नैवेद्यम् अपि नाभवत् । अतः सा प्रतिज्ञा कृतवती यत् अग्रिममङ्गलवासरे एव नैवैद्यं कृत्वा प्रसादभोजनं करोमि । तावत् निराहारा भविष्यामि इति । किन्तु उपवासकारणेन सा प्रज्ञाहीनां स्थितिमवाप्नोत् । तस्याः निष्टां भक्तिं च ज्ञात्वा प्रसन्नः हनूमान् दर्शनं दत्त्वा सुन्दरं बालकम् अनुग्रह्य अन्तर्हितः अभवत् । ब्रह्मणी अनेन अतीव सन्तुष्टा बालकस्य मङ्गलः नामाङ्कितवती । कञ्चित्कालानन्तर आगतः विप्रः कोऽयं बालकः इति अपृच्छत् । पत्नी सर्वं वृत्तान्तम् अवदत् । किन्तु तस्याः वचने अविश्वस्तः विप्रः तस्याः चारित्र्यविषये एव शङ्काम् अकरोत् । अवकाशं दृष्ट्वा कस्मिंश्चित् दिने बालकं कूपे पातितवान् । गृहे पत्न्याः प्रश्नेन भीतः अभवत् । तस्य पृष्टभागे एव बालकं मङ्गलं मन्दस्मितं दृष्ट्वा ब्राह्मणः आश्चर्यचकितः अभवत् । रात्रौ तस्य स्वप्ने हनूमान् दर्शनं दत्त्वा सर्वं वृत्तान्तं सम्प्रबोधितवान् । तेन ब्राह्मणः अतीव हृष्टः अभवत् । तदनतरं तौ दम्पती सुखेन आस्ताम् ।
दक्षिणभारतीयक्रमः
[सम्पादयतु]मङ्गलगौरीव्रतम् मङ्गलगौरीव्रतं नवविवाहिता स्त्रीः पञ्चवर्षाणि आचरति । मङ्गलस्नानं कृत्वा पूजागृहं रङ्गवल्या पुष्पैः च् अलङ्कृत्य काष्टासने वस्त्रमाच्छद्य तस्मिन् असने ताम्रस्थल्यां सर्वमङ्गलां पार्वतीं प्रतिष्ठापयेत् । श्रीगणेशम् अपि संस्थाप्य हरिद्राकुङ्कुमादिभिः अलङ्कुर्यात् । अन्यानि पर्णफलानि दर्मणं कलशाः इत्यादीनि मङ्गलद्रव्याणि समीपे एव भवेयुः । त्रीणि मङ्गलवस्त्राणि त्रिकोणाकारेण पुटीकृत्य स्थापयेत् । रजतस्य अथवा ताम्रस्य लघुकलशे तण्डुलान् संस्थाप्य त्रिकोणीकृतवस्त्रं तमुखे स्थापयित्वा तदुपरि कज्जलेन मुखाङ्कितं नारिकेरफ्लं स्थापयेत् । उभयपार्श्वयोः नागवल्लीदरैर्युतं पूगफलानि स्थापयेत् । सुमङ्गलिभ्यः दातुं वायनदानस्य वस्तूनि सज्जीकृत्या स्थापयेत् । एतदतिरिच्य यथाशक्ति यथाभक्तिः देव्याः कलाम् अलङ्कर्तुं शक्नुवन्ति । आदौ गणपतिं समर्च्य तदन्तरं मङ्गलगौरीमाराधयेत् । १६तन्तूनां कर्पासहारेण देवीं समलङ्कुर्यात् । नैवेदार्थे मुद्गदलस्य परमन्नं गुडन्नं वा कुर्यात् । १६ वारं नीराजयेत् । दीपशिखया नागव्ल्यां अञ्जनं कृत्वा मङ्गलगौर्यै समर्प्य स्वयं नेत्रयोः लेपयेत् । पूजायाः अनन्तरम् आचार्यमुखेन मङ्गलगौरीव्रतकथां श्रुणुयात् । प्रतिवर्षम् अन्तिमपूजायाः सप्ताहान्ते शूर्पे ४विधधान्यानि गुडं, नारिकेलफलं, १६तन्तुकार्पासहाराः इत्यादीनि मङ्गलद्रव्याणि संस्थाप्य स्वमात्रे दानं कुर्यात् । नववधूः वैवाहिकजीवनारभे व्रतम् एवं पञ्चवर्षाणि कुर्यात् ।