वसन्तपञ्चमी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

वसन्तपञ्चमी (/ˈvəsəntəpəŋxəm/) (हिन्दी: वसन्त पञ्चमी, आङ्ग्ल: Vasant Panchami) भारतस्य कश्चित् मुख्यः उत्सवः अस्ति । अयम् उत्सवः माघमासस्य शुक्लपक्षस्य पञ्चम्यां तिथौ आचर्यते ।

सरस्वतीदेवी

अस्मिन् दिने सरस्वतीदेव्याः पूजा भवति । सरस्वतीदेव्याः पूजा प्रतिदिनं भवति किन्तु माघमासस्य शुक्लपक्षस्य पञ्चम्यां तिथौ सरस्वतीदेव्याः विशिष्टा पूजा भवति । सरस्वतीदेव्याः पूजा तु नित्यं करणीयम् एव । आदिशक्त्याः रूपत्रयम् अस्ति -महासरस्वती, महाकाली, महालक्ष्मी च इति । एतासाम् उत्पत्तिः कथम् ? कथम् अवतरणमभवत् ? इति कोऽपि न जानाति । अस्माकं ऋषिभिः वेदपुराणानां साहाय्येन एतासां देवीनां पूजायाः विशिष्टं दिनं निर्धारितम् ।

महाकालीदेव्याः पूजा चैत्रे आश्विने वा मासे शुक्लपक्षस्य नवम्यां तिथौ भवति । महालक्ष्मीदेव्याः पूजा कार्तिकमासस्य अमावास्यायां भवति । तेन प्रकारेण एव महासरस्वतीदेव्याः पूजा माघमासस्य शुक्लपक्षस्य पञ्चम्यां तिथौ भवति ।

भगवती सरस्वती सत्वगुणी अस्ति । इयं वाग्देवी, ज्ञानदेवी, शारदा, गिरा, वाचा, गौ, ब्राह्मी, वाणी, भाषा इत्यपि कथ्यते । अस्याः माहात्म्यं प्रभावः च विशिष्टः अस्ति । सरस्वतीदेव्याः कृपया जनाः ज्ञानिनः, विद्वांसः, मेधाविनः भवन्ति । विद्या बुद्धिः च अस्याः कृपया एव प्राप्येते । वसन्त-पञ्चम्यां व्रतः उपवासः वा कृत्वा विधिपूर्वकं महासरस्वतीपूजा करणीया । शिशूनाम् अक्षरज्ञानस्य आरम्भः अस्मिन् दिने एव करणीयः । कारणं विद्यारम्भाय इदं दिनं पवित्रं मन्यते ।

गृहेषु बालकैः सह यज्ञादिकर्म, जपः, कीर्तनादि कृत्वा सरस्वतीदेव्याः पूजा करणीय़ा । इयं पूजा प्रातःकाले करणीया । प्रातःकाले अस्याः पूजायाः महत्त्वम् अधिकं वर्तते । कलशस्थापनां कृत्वा सरस्वत्याः आह्वानं करणीयम् । गायत्रीमन्त्रेण अपि होमकर्म कर्तुं शक्यते । ’ॐ श्रीं ह्रीं सरस्वत्यै स्वाहा’ इति मन्त्रेण अष्टोत्तरशत(१०८)आहुतयः दातव्याः । सरस्वत्याः १००८ नामभिः पूजां कर्तुं शक्नुमः । पूजायां लेखन्यः, पुस्तकानि च देव्याः समक्षे स्थापनीयानि ।

सरस्वतीपूजापरम्परायाः गृहेषु बालकाः मेधावन्तः, संस्कारवन्तः, यशस्विनः च भवन्ति । तान् बालकान् विद्यार्जनाय विद्यादानाय च प्रेरयितुं शक्नुमः । प्राचीनाः कवयः, ऋषयः, मुनयः च स्वेषां ग्रन्थेषु सर्वप्रथमं महासरस्वतीदेव्याः पूजां कुर्वन्ति स्म । कश्चित् सरस्वती-मन्त्रः अधः प्रदत्तः अस्ति । तस्य नित्यपठनं करणीयम् ।

सरस्वती माया दृष्टा विणा पुस्तकधारिणी।
हंस वाहनसं युक्ता विद्यादानं कराेतुमे ॥

प्रथमं भारती नाम, द्वितीयं च सरस्वती ।
तृतीयं शारदा देवी, चतुर्थं हंसवाहिनी ॥

पञ्चमन्तु जगन्माता, षष्ठं वागीश्वरी तथा ।
सप्तमं कौमुदी प्रोक्ता, अष्टमं ब्रहचारिणी ॥

नवमं बुद्धिदात्री च, दशमं वरदायिनी ।
एकादशं चन्द्रघण्टेती, द्वादशं भुवनेश्वरी ॥

द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ।
जिह्वाग्रे वसते नित्यं ब्रह्म रूपा सरस्वती ॥


एकस्य हुतात्मनः कथा अपि वसन्त-पञ्चम्या सह संलग्ना अस्ति । "हकीकत राय इत्याख्यः कश्चित् बालकः आसीत् । सः मदरसा इत्यस्मिन् पठति स्म । एकदा विद्यार्थिभिः सरस्वत्याः निन्दा कृता । तेन कारणेन हकीकत राय इत्यनेन तेभ्यः प्रत्युत्तरं दत्तम् । किन्तु तत्रत्याः शिक्षकाः खिन्नाः जाताः । तेन कारणेन शिक्षकैः हकीकत राय इत्यस्मै धर्मान्तरणस्य दण्डः प्रदत्तः । किन्तु हकीकत राय इत्याख्येन न स्वीकृतम् । तदा शिक्षकेन हकीकत राय इत्यस्मै मृत्युदण्डः दत्तः । लघुवयसि एव हकीकत राय इत्याख्येन वसन्त-पञ्चम्याः पर्वदिने स्वधर्माय बलिदानं दत्तम् । अतः वसन्त-पञ्चम्यां हकीकत राय इत्यस्मै श्रद्धाञ्जलिः दातव्या" ।

"https://sa.wikipedia.org/w/index.php?title=वसन्तपञ्चमी&oldid=406274" इत्यस्माद् पुनः प्राप्तिः