होलीपर्व

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

होलाकः, होलीकः, होली, फाल्गुनिका, वसन्तोत्सवः, कामपर्व इत्यादिभिः नामभिः निर्दिश्यमानम् एतत् पर्व समग्रे भारते सर्वत्रापि आचर्यते । फाल्गुणपूर्णिमायाम् एतत् पर्व आचर्यते । वङ्गदेशे अस्मिन् दिने एव श्रीकृष्णस्य दोलोत्सवम् आचरन्ति । होलीपर्वसम्बद्धाः बह्व्यः कथाः सन्ति पुराणेषु

भगवान् श्रीकृष्णस्य गोपिकाभिः सह होलीक्रीडा

होलिकानामिका हिरण्याक्ष-हिरण्यकशिपोः सोदरी । महामायाविनी सा अग्निसिद्धिम् अपि प्राप्तवती आसीत् । यद्यपि दैत्यराजः हिरण्यकशिपुः परमविष्णुभक्तं स्वपुत्रं प्रह्लादं मारयितुं बहुविधप्रयत्नानि अकरोत् तथापि सः सफलः नाभवत् । तस्मात् कुपितः हिरण्यकशिपुः सोदरीं होलिकाम् आदिशति प्रह्लादं मारयतु कथञ्चित् इति । तदा होलिका प्रह्लादं गृहीत्वा महाकाष्ठराशौ उपविशति । राक्षसान् च अग्निं ज्वालयितुं सूचयति । तेषां चिन्तनम् आसीत् होलिका अग्निसिद्धिं प्राप्तवती अस्ति, तस्याः किमपि न भवति । प्रह्लादम् अग्निः दहति इति । अतः राक्षसाः होलिकायाः उपरि अपि काष्ठानि संस्थाप्य अग्निं ज्वालितवन्तः । किन्तु परिणामः तु व्यतिरिक्तः जातः । होलिका तदग्नौ दग्धा सती तत्रैव मरणं प्राप्नोत् । भगवद्भक्तः प्रह्लादः भस्मराशितः बहिरागत्य सन्तोषेण नृत्यम् आरभत । अस्य दिनस्य स्मरणार्थं राक्षसत्वनाशाय सत्पुरुषरक्षणाय च होलीपर्व आचर्यते ।

कामदहनम्

सत्ययुगे ढुण्ढानामिका मालिनामकस्य राक्षसराजस्य पुत्री आसीत् । सा कठोरं तपः आचर्य युवैः वा वृद्धैः वा मनुष्यैः, देवैः केनापि प्राणिना च मम मरणं न भवेत् इति वरं प्राप्तवती । बालाः किं कर्तुं शक्नुयुः इति तेषाम् उपेक्षां कृतवती । सा पृथु अथवा रघु इत्याख्यातस्य राज्ञः काले अहर्निशं सञ्चरन्ती बालान् सर्वान् मारयति स्म । मायाविनीं तां राक्षसीं गृहीतुं केऽपि न शक्तवन्तः । वसिष्ठमहर्षिद्वारा तस्याः रहस्यं ज्ञातवान् राजा तस्याः ग्रहणकार्ये बालान् एव नियुक्तवान् । फाल्गुनमासस्य पूर्णिमायां देशस्य सर्वे बालाः सम्भूय काष्ठकारीषेषु अग्निं प्रज्वाल्य नृत्यन्तः चीत्कुर्वन्तः तस्याः ग्रहणार्थं धावितवन्तः । भीता सा मनुष्यलोकादेव निर्गता । एतस्य स्मरणार्थम् होलीपर्व आचर्यते ।

शिवः समाधिस्थितौ तपः आचरन् आसीत् । तदा तस्य तपः नाशितवान् कामदेवः । तदा तपोभाङ्गात् क्रुद्धः शिवः तृतीयं नेत्रम् उद्घाट्य कामदेवं दहति । तस्य दिनस्य स्मरणार्थं होलीपर्व आचर्यते ।

एतद्दिने कामदेवम् आवह्य षोडशोपचारैः पूजयन्ति च । अस्मिन् दिने होलिका अथवा पोलिका इति विशिष्टं भक्ष्यं समर्पयन्ति देवेभ्यः । तद्दिने देवपितृभ्यः तर्पणं प्रदाय दोषशान्त्यर्थं होलीधूलिं नमस्कुर्वन्ति । गृहस्य अङ्गणं शुद्धीकृत्य अक्षतारङ्गवल्लीभिः अलङ्कृत्य मध्यभागे श्वेतवस्त्रयुक्तं पीठं स्थापयन्ति । तत्पुरतः श्वेतचन्दन-रक्तवस्त्र-पल्लवैः युक्तं कलशं प्रतिष्ठापयन्ति । तदुपरि रतीदेवीसहितं कामदेवं प्रतिष्ठाप्य अर्घ्य-पाद्य-गन्ध-दीप-धूप-पुष्प-नैवेद्यानि समर्पयन्ति । महिलाः रक्तवर्णस्य वस्त्रम् आभूषणानि च धृत्वा चन्दनवृक्षं पूजयन्ति । तेन आयुरारोग्यवृद्धिः भवति इति । पञ्चमीतः आरभ्य दश दिनानि विनोदार्थं चोरितानि काष्ठानि सङ्गृह्य होलिकादहनं कुर्वन्ति । पूर्णिमादिने अग्निप्रदीपनं कुर्वन्ति । ग्रामात् बहिः मध्ये वा होलिकादहनम् आचरन्ति । चण्डालगृहात् वा सूतिकागृहात् वा बालानां द्वारा अग्निम् आनाययन्ति होलिकादहनार्थम् । राजा एव स्वयं स्नानादिना शुद्धः सन् स्वस्तिवाचनं कारयित्वा तूर्यनादसहितः आगत्य दानधर्मादिकम् आचर्य अग्निज्वालनं कुर्यात् । अग्नये घृतं दुग्धं च समर्पयन्ति । अनन्तरं जलेन अग्निकेन्द्रं शान्तं क्रुत्वा एकान्तस्थाने स्थापयन्ति । नारिकेलस्य दाडिमस्य बीजपूरस्य च दानं कृत्वा रात्रिं गीतवाद्यनृत्यैः यापयन्ति । त्रिवारम् अग्नेः प्रदक्षिणं कृत्वा गृहमानयन्ति तम् अग्निम् । अपरस्मिन् दिने प्रातःकाले तेन अग्निना एव जलम् उष्णीकृत्य स्नानं कुर्वन्ति ।

राजस्थाने पुष्करनगरे होलीक्रीडा
वर्णविलेपनम्
दशस्युः शोभमानास्तु काष्ठस्तेयं विधीयते ।
चण्डालसूतिकागेहाच्छिशुहारितवह्निना ॥
प्राप्तायां पूर्णिमायां तु कुर्यात्काष्ठप्रदीपनम् ।
ग्रामद्बहिा मध्ये वा तूर्यनादसमन्वितः ॥
स्नात्वा राजा शुचिर्भूत्वा स्वस्तिवाचनतत्परः ।
दत्त्वा दानानि भूरीणि दीपयेद्धोलिकाचितिम् ॥

एवं रात्रौ होलिकोत्सवम् आचर्य अपरस्मिन् दिने प्रातःकाले सर्ववर्गीयाः अपि जनाः मिलित्वा आमोदप्रमोदम् आचरन्ति । पाटलवर्णस्य जलं प्रथमं देवेभ्यः ज्येष्ठेभ्यः च समर्प्य प्रसादरूपेण परस्परं सिञ्चन्ति । वङ्गदेशे तद्दिने श्रीकृष्णस्य दोलोत्सवम् आचरन्ति । तत्र त्रीणि वा पञ्च वा दिनानि पर्व आचरन्ति । फाल्गुनशुद्धचतुर्दश्यां रात्रौ मण्डपस्य पूर्वभागे अग्निदेवस्य आराधनं कुर्वन्ति । गोविन्दस्य विग्रहं कृत्वा १६ स्तम्भैः युक्तस्य मण्डपस्य वेदिकायां प्रतिष्ठापयन्ति । पञ्चामृताद्यैः अभिषेकं कृत्वा देवस्य अलङ्कारं कुर्वन्ति । अनन्तरं सम्यगलङ्कृतायाम् आन्दोलिकायां देवम् उपवेश्य सप्तवारं आन्दोलयन्ति । उत्सवस्य प्रथमदिने ज्वालितम् अग्निम् अन्तिमदिनपर्यन्तमपि रक्षन्ति । अन्तिमदिने देवम् २१ वारम् आन्दोलयन्ति । इन्द्रद्युम्नमहाराजः वृन्दावने एतत् पर्व आरब्धवान् इति विश्वसन्ति जनाः ।

"https://sa.wikipedia.org/w/index.php?title=होलीपर्व&oldid=359319" इत्यस्माद् पुनः प्राप्तिः