प्रह्लादः
प्रह्लादः काश्यपकुले जातः कश्चन दैत्यः। प्रह्राद इत्यप्येतस्य नाम श्रूयते[१]।। प्रह्लादो महान् विष्णुभक्तः। प्रह्लादस्य विष्णुभक्तिकारणतः साक्षाद् भगवान् विष्णुर् नरसिंहरूपेणागत्य प्रह्लादस्य पितुर् हिरण्यकश्यपोर् हननं कृत्वा प्रह्लादं रक्षितवान् ।
जन्म
[सम्पादयतु]प्रह्लादस्य पिता हिरण्यकशिपुः। माता च जम्भस्य तनया कयाधुः। एतयोर् ह्रादः संह्रादोऽनुह्रादः प्रह्लाद इति चत्वारः पुत्राः समजायन्त। कयाधुर् बहुकालं यावद् अपत्यरहिताऽऽसीत्। अतो नारदमुखाच्छ्रीमन्नारायणमन्त्रस्योपदेशं प्राप्य सन्ततिं प्राप्तवतीति कथा श्रूयते[२]। अतः प्रह्लादो जन्मन एव हरिभक्तोऽभवत्।
हरिभक्तिः
[सम्पादयतु]

प्रह्लादो महान् हरिभक्तः सञ्जातः। गुरुकुलेऽध्ययनावसरे राक्षसानां गुरुः शुक्राचार्यो हरिनामस्मरणं त्यक्त्वा हरनामस्मरणं करोत्विति मुहुर्मुहुः सूचयति स्म। परन्तु प्रह्लादस्तु निरन्तरम् हरिनामैव जपति स्म। गुरुकुलाद् गृहमागतः प्रह्लादो हरिस्मरणम् अनुवर्तितवान्। एतेन तस्य पिता राक्षसराजो हिरण्यकशिपुः क्रुद्धः। स्वपुत्रस्य मनःपरिवर्तनार्थं बहुविधप्रयासांश्चाकरोत्। किन्तु प्रह्लादो हरिमेव स्तौति स्म। अतीव क्रुद्धो हिरण्यकश्यपुः प्रह्लादं मारयितुम् उद्युक्तः। विषसर्पयुक्ते स्थानेऽपातयत्। पर्वताद् अधोऽक्षिपत्। गजपादैः प्रहारम् अकारयत्। परन्तु हरेः कृपया प्रह्लादस्य रक्षणम् अभवत्। अन्ततो गत्वा प्रह्लादं विषं पाययितुं स्वपत्नीं कयाधुम् अवोचत्। कयाध्वा रुदत्या दत्तं विषं पीतं चेदपि प्रह्लादो जीवितः[३]। हिरण्यकश्यपोः सोदरी होलिकाग्निनादाह्या भवेयम् इति वरं प्राप्तवत्यासीत्। हिरण्यकशिपुस्तस्या अङ्के प्रह्लादम् उपावेश्य ताम् अग्नावक्षिपत्। परन्तु विष्णोः कृपया प्रह्लादो जीवितो होलिका च मृता। होलिकोत्सवाचरण इदमपि किञ्चन कारणम् इति पुराणेषु वर्तते[४]।
हिरण्यकशिपुवधः
[सम्पादयतु]
देवता हिरण्यकशिपुना त्रस्ता महाविष्णुं प्रार्थयन्त। स देवेभ्योऽभयं दत्त्वा नरसिंहरूपेण हिरण्यकशिपोरास्थानं प्रविश्य तम् अमारयदिति कथा मत्स्यपुराणे वर्णिता।[५]। प्रह्लादस्य विष्णुजपेन रुष्टः हिरण्यकशिपुः विष्णुः कुत्र अस्ति इति प्रह्लादं पृच्छति। प्रह्लादः विष्णुः सर्वव्यापी इतिप्रतिवदति। तदानीं मम आस्थानस्य स्तम्भे विद्यते वा इति पृष्टे हिरण्यकश्यपौ निश्चयेन वर्तते इति प्रह्लादः प्रतिवदति। तदानीं कोपेन हिरण्यकश्यपुः स्तम्भं छिनत्ति। तदानीं स्तम्भादागतः नरसिंहः हिरण्यकशिपुं हत्वा प्रह्लादं रक्षति इति लोककथा प्रसिद्धा वर्तते[६]।
जीवनम्
[सम्पादयतु]हिरण्यकशिपोः मृत्योः परं प्रह्लादः असुराणां राजा अभवत्। ततः सः इन्द्रादपि बलिष्ठः सन् राजते स्म। प्रतिदिनं शतशः ब्राह्मणान् भोजयति स्म। कदाचित् कञ्चन ब्राह्मणं न भोजितवान् इति कारणतः विष्णुना सह तव विरोधः भवति इति शापः प्रह्लादेन प्राप्तः। देवेन्द्रः प्रह्लादात् रक्षणं प्राप्तुं पृथुः इक्ष्वाकुः इत्यादीनां राज्ञां साहाय्यं स्व्यकरोत्। अन्ततो गत्वा साक्षात् विष्णुरेव इन्द्रस्य साहाय्यार्थमागत्य प्रह्लादेन सह अयुध्यत। प्रह्लादः युद्धावसरे एव विष्णुः आगतः इति ज्ञात्वा युद्धं स्थगितवान्। परन्तु तावता विष्णुना सह सः युद्धम् आरब्धवान् आसीत्। एतेन शापः फलितः। [उद्धरणं वाञ्छितम्]।
परिवारः
[सम्पादयतु]प्रह्लादस्य विरोचनः कुम्भः निकुम्भः इति त्रयः पुत्राः। रचना इति पुत्री च[७]। विरोचनः देवैः सह युद्ध्यमानः मृतः। अतः विरोचनस्य पुत्रं बलिम् अपि प्रह्लादः एव अपालयत्। बलिः वामनेन सुतलं प्रतिप्रेषितः। बलेः पुत्रः बाणासुरः अपि कृष्णेन सह अयुध्यत।
संवादः
[सम्पादयतु]प्रह्लादेन कृताः अनेके संवादाः पुराणेषु प्रसिद्धाः यथा- प्रह्लादबलिसंवादः, प्रह्लादहंससंवादः, प्रह्लाद-इन्द्रसंवादः, प्रह्लाद-अजगरसंवादः, प्रह्लाद-मार्कण्डेयसंवादः, इत्यादयः पुराणेषु प्रसिद्धाः[८]।
उल्लेखाः
[सम्पादयतु]- ↑ श्रीमद्भागवतम् १८ सन्कन्धः (विकिस्रोतः)
- ↑ "ಅರಳಿಕಟ್ಟೆ ([[कन्नडभाषा|कन्नडभाषा-अन्तर्जालपुटम्]])". Archived from the original on 2021-08-01. आह्रियत 2019-11-30. उद्धरणे दोषः :
<ref>दोषपूर्णा शृङ्खला; अमान्यं नाम, उदा. अत्यधिकम् - ↑ उद्धरणे दोषः :
<ref>दोषपूर्णा शृङ्खला; अमान्यं नाम, उदा. अत्यधिकम् उद्धरणे दोषः :<ref>त्रुटिपूर्णं कूटम् (code); रिक्तेभ्यः सन्दर्भेभ्यः नामधेयम् अवश्यं भवितव्यम् - ↑ Varadaraja V. Raman – Variety in Religion And Science: Daily Reflections, iUniverse, 2005, ISBN|0-595-35840-3, p.259
- ↑ मत्स्यपुराणम् १६१ अध्यायः (विकिस्रोतः)
- ↑ उद्धरणे दोषः :
<ref>दोषपूर्णा शृङ्खला; अमान्यं नाम, उदा. अत्यधिकम् उद्धरणे दोषः :<ref>त्रुटिपूर्णं कूटम् (code); रिक्तेभ्यः सन्दर्भेभ्यः नामधेयम् अवश्यं भवितव्यम् - ↑ पुराणनामचूडामणिः (कन्नडभाषापुस्तकम्)
- ↑ पुराणनामचूडामणिः (कन्नडभाषापुस्तकम्)
