पृथुः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(पृथु इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
पृथुः
Prithu appears from Vena's corpse.jpg
पितुः स्कन्धात् उत्पन्नः पृथुः
Information
भार्या(ः)/भर्ता अर्चिः, भूमिः
अपत्यानि अन्तर्धानः, हर्यक्षः, धूम्रकेशः, वृकः, द्रविणः(पुत्राः)
बान्धवाः वेनः(पिता), प्राचीनबर्हिः (पौत्रः)

पृथुः पुराणकालीनेषु चक्रवर्तिषु आद्यः। वैनः इति अस्य नामान्तरम्। पृथ्वी इति नाम पृथोः कारणादेव आगतम्[१]

वंशः[सम्पादयतु]

पृथोः वंशस्य मूलं विष्णोः आरभ्यते। विष्णुः विरजाः इति नामकम् मनुष्यम् उदपादयत्। भूम्यां सर्वेषां पालनं विरजसा करणीयम् इति विष्णोः उद्देश्यम् आसीत्। परन्तु विरजाः भूपालनं त्यक्त्वा तपसि निरतः। विरजसः पुत्रः कृत्तिमान्। सोपि तपसि निरतः। तस्य पुत्रः कर्दमः। कर्दमस्य पुत्रः अङ्गदः। अङ्गदस्य पुत्रः अतिबलः(अङ्गः)। अङ्गः भूमण्डलस्य परिपालनं योग्यरीत्या अकरोत्। अतिबलः मृत्योः अनुजां सुनीतां परिणीतवान्। अतिबलस्य वैनः इति पुत्रः जातः। वैनाद् उत्पन्ः एव पृथुः[२]

जन्म[सम्पादयतु]

पृथुः अयोनिजः। स्त्रीगर्भं वैना जन्म प्राप्तवान्। पृथोः पिता वैनः नास्तिकः आसीत्। सः नास्तिकः इति कृत्वा भूमौ महान् क्षामः उत्पन्नः। भूदेवी अमूल्यानि वस्तूनि स्वगर्भे गोपितवती। वैनस्य नास्तिकबुद्धिं दृष्ट्वा ऋषिभिः सः नाशितः। तदानीं लोकम् अराजकम् अभवत्। तदा पालनार्थं कस्यचित् राज्ञः सृष्ट्यै वैनस्य देहस्य मन्थनं कृतवन्तः। आदौ कृष्णवर्णीयः धूमः ततः उद्भूतः। वैनस्य पापरूपः स धूमः समाप्तः। ततः वैनस्य दक्षिणबाहोः मथनेन सुन्दरः कश्चित् पुरुषः उत्पन्नः। वैनस्य अंशादुत्पन्नस्य तस्य नाम वैनः इति कृतम्उद्धरणे दोषः : <ref> त्रुटिपूर्णं कूटम् (code); रिक्तेभ्यः सन्दर्भेभ्यः नामधेयम् अवश्यं भवितव्यम्

भूमेः दोहनम्[सम्पादयतु]

वैनस्य पुत्रः वैनः पिता इव नास्तिकः नासीत्। वेदादिषु तस्य श्रद्धा आसीत्। परन्तु भूमौ समृद्धता तु नासीत्। भूमिः गोरूपं धृत्वा धावनम् आरब्धवती। वैनःतस्याः अनुधावनं कृत्वा गोरूपां धेनुं दुग्धवान्। तेन भूमौ सर्वेषां कष्टानि दूरीकृतानि अभवन्[३][४] [५] । एतां घटनाम् आश्रित्य कुमारसम्भवेपि कश्चन श्लोकः दृश्यते।

यं सर्वशैलाः परिकल्प्य वत्सं मेरौ स्थिते दोग्धरि दोहदक्षे।
भास्वन्ति रत्नानि महौषधींश्च पृथूपदिष्टां दुदुहुर्धरित्रीम्॥[६]

भूमेः पालनम्[सम्पादयतु]

वसुन्धरा पूनरपि फलवती अभवत् इति जनानां कष्टानि नष्टानि। तदानीं वैनः आयुधानि धृतवान्। ततः भूमिं आश्वस्तवान् च। अहं सर्वाभ्यः आपद्भ्यः त्वां रक्षिष्यामि इति। तदा आरभ्य भूमेः पृथिवी, पृथ्वी इत्यपि नामान्तरं सञ्जातम्। अत्र भूमेः पुनर्जन्म दत्त्वा तं पालयति इति पृथुः भूमेः पिता इति किञ्चन मतम् । तथा च भूमेः भरणं करोति इति कारणतः पृथुः भुवः भर्ता इति मनुस्मृतौ च उक्तं वर्तते[७]

चक्रवर्तिता[सम्पादयतु]

पृथोः यज्ञाश्वं चोरयन् इन्द्रः

पृथुम् आदिराजः इति वायुपुराणं वदति। पृथोः हस्ते चक्रस्य चिह्नं आसीत्। इदं विष्णोः सुदर्शनचक्रस्य एव चिह्नम्। अतः पृथुः सुदर्शनधारिविष्णुरूपः इति केचित्। एवं चक्रचिह्नस्य सत्त्वात् पृथुः चक्रवर्ती इति प्रथितः। तदनन्तरं सः अखिलस्य भूमण्डलस्य अधिकारी अपि अभवत्। तदनन्तरं सर्वे अपि महान्तः भूपतयः चक्रवर्तिपदेन उच्यन्ते। चक्रवर्तित्वं नाम विष्णोरंशस्य धारणम्। अतः राजा देवसमानः इत्यपि भावः भारतीयपरम्परायां पृथोः आगतः। राजा प्रत्यक्षदेवता इति कथनस्यापि इदमेव कारणम्[८]

पुत्रत्वम्[सम्पादयतु]

लोके ऐदम्प्राथम्येन पुत्रशब्दभाक् पृथुः एव। स्वपितरं वेनं सः नरकाद् उद्धृतवान्। तस्य नरकस्य नाम पुम् इत्यासीत्। तदनन्तरं सर्वेपि सुताः स्वपितॄन् नरकाद् विमुच्य पुत्रनामभाजः अभवन्। उक्तं च विष्णुधर्मोत्तरपुराणे

पुन्नामनरकाद्यस्मात् त्रायते पितरं सुतः।
तस्मात् पुत्र इति प्रोक्तः स्वयमेव स्वयम्भुवा॥ इति[९]

अश्वमेधयागः[सम्पादयतु]

पृथुः नवनवतिं अश्वमेधयागान् परिसमापितवान्। शततमे यागे तस्य अश्वस्य चौर्यम् इन्द्रेण कृतम्। परन्तु विष्णुः पृथवे समग्रम् अनुग्रहं दत्तवान्। एतेन इन्द्रस्य अपराधस्य क्षमा पृथुना कृता। सनत्कुमाराः आगत्य विष्णुध्यानविषये पृथुं बोधितवन्तः इत्यपि कथा श्रूयते[१०]

परिवारः[सम्पादयतु]

पृथोः माता अथवा पत्नीरूपेण भूम्याः वर्णनं वर्तते। तथा च अर्चिः इत्यपि पृथोः पत्नी। इयम् अर्चिः लक्ष्म्याः अवतारः इत्यपि विश्वासः। पृथोः पुत्रः अन्तर्धानः। अन्ये च हर्यक्षः धूम्रकेशः वृकः द्रविणः इति च पुत्राणां नामानि[उद्धरणं वाञ्छितम्]। पौत्रश्च प्राचीनबर्हिः[११]। शुक्राचार्यः अङ्गिराः च तस्य गुरवः।

उल्लेखाः[सम्पादयतु]

  1. Monier Williams Sanskrit-English Dictionary (2008 revision)
  2. Pattnaik, Devdutt (2001). The Man Who Was a Woman and Other Queer Tales from Hindu Lore. Haworth Press. p. 55. ISBN 9781560231813. https://books.google.com/books?id=Odsk9xfOp6oC&pg=PA55&dq=prithu. 
  3. For Bhagavata Purana, see
  4. For Vishnu Purna W. J. Wilkins (March 2004). Hindu mythology, vedic and puranic. Kessinger Publishing. pp. 11–3. ISBN 978-0-7661-8881-5. https://books.google.com/books?id=84pTrICjfRcC&pg=PA12&dq=prithu. 
  5. Singh p.1716
  6. कुमारसम्भवम् १-२ (विकिस्रोतः)
  7. Pattnaik, Devdutt (1807). The Goddess in India: The Five Faces of the Eternal Feminine. India: Asiatic Society of Bengal (Original from Oxford University). pp. 253–5. ISBN 9780892818075. https://books.google.com/books?id=hSYJAAAAQAAJ&pg=PA254&dq=prithu. 
  8. Oldham, C.F. (1988). The Sun and the Serpent: A Contribution to the History of Serpent-worship. Asian Educational Services. p. 74. ISBN 9788120604162. https://books.google.com/books?id=pmXS7puep4cC&pg=PA74&dq=prithu. 
  9. विष्णुधर्मोत्तरपुराणम् तृतीयखण्डः २५६ अध्यायः (विकिस्रोतः)
  10. Srikrishna Prapnnachari. The Crest Jewel: srimadbhagwata Mahapuran with Mahabharata. Srikrishna Prapnnachari. pp. 94–100. ISBN 9788175258556. https://books.google.com/books?id=TT7AGZ3cBaUC&pg=PA98&lpg=PA98&dq=Prithu+Indra. 
  11. पुराणनामचूडामणिः (कन्नडभाषापुस्तकम्)
"https://sa.wikipedia.org/w/index.php?title=पृथुः&oldid=448554" इत्यस्माद् प्रतिप्राप्तम्