अङ्गिराः
अङ्गिराः | |
---|---|
चोलादेवीं पाठयन् अङ्गिराः | |
Information | |
Family | ब्रह्मा (पिता) |
भार्या(ः)/भर्ता | सुरूपा, श्रुद्धा |
अपत्यानि | उत्तास्यः, संवर्तनः, बृहस्पतिः |
धर्मः | हिन्दू |
अङ्गिराः कश्चन ऋषिः। ऋग्वेदे अग्निसूक्तस्य द्रष्टा अयं ऋषिः[१][२]। अङ्गिराः एव देवमानवयोः संवादे मध्यवर्ती इति ख्यातः। क्वचित् अङ्गिराः सप्तर्षिषु अन्यतमः इति उल्लेखः विद्यते। अपरत्र सप्तर्षिषु अङ्गिराः न गृह्यते.[३]। अथर्ववेदस्य अथर्वाङ्गिराः ऋषिः द्रष्टा इति केषुचित् हस्तलेखेषु विद्यते। अयम् अङ्गिराः एव प्रसिद्धः ऋषिर्वा इत्यत्र सन्देहः वर्तते[४][५]। अङ्गीरसः शिष्याः आङ्गीरसाः इत्युच्यन्ते। अङ्गीरसः शिष्याः एव ऋग्वेदस्य प्रथमाध्यायस्य, द्वितीयाध्यायस्य, पञ्चमाध्यायस्य, अष्टमाध्यायस्य, नवमाध्यायस्य दशमाध्यायस्य च केषाञ्चन मन्त्राणां द्रष्टारः विद्यन्ते।[१][६][७]
व्युत्पत्तिः
[सम्पादयतु]अगि गतौ इति धातोः इरुट् प्रत्यये अङ्गिरस् इति शब्दः सिद्ध्यति। अयं च सकारान्तपुंलिङ्गशब्दः। अतः प्रथमाविभक्त्यैकवचने अङ्गिराः इति रूपं भवति।
मन्त्राः
[सम्पादयतु]ऋग्वेदस्य अनेके मन्त्राः अङ्गिरसा तच्छिष्यैः च द्रष्टाः इति उल्लेखः दृश्यते। यथा[७]
- अग्नि-इन्द्र-ऋभु-अश्विनि-उषस्-रुद्र-सूर्यसम्बद्धमन्त्राः, १.१०० तः १.११५ पर्यन्तम्[८]
- २.१ तमः मन्त्रः अग्निसम्बद्धः आङ्गीरसेन सौनहोत्रेन दृष्टः।[९]
- ५.३५ एवं ५.३६ तमः मन्त्रः इन्द्रसम्बद्धः प्रभुवसुना आङ्गिरसेन दृष्टः।[१०]
- ८.२ (आदिमाः ४० मन्त्राः) प्रियमेधेन आङ्गिरसेन दृष्टः।[११]
- ९.९७ (अन्तिमाः १४ मन्त्राः), ९.१०८ एवं ९.११२ मन्त्राः कुत्साङ्गीरसेन, उर्वाङ्गीरसेन, ऊर्ध्वसद्माङ्गीरसेन, कृत्यसाङ्गीरसेन शिश्वाङ्गीरसेन च दृष्टाः।[१२]
- दशममण्डलस् मन्त्राः इन्द्र-अग्नि-बृहस्पति-मेधा-सूर्य-वैश्वानर-उषस्सम्बद्धाः विविधैः आङ्गिरसैः दृष्टाः।[१३]
अयं न केवलं मन्त्रदृष्टा अपि तु वेदेषु अपि अङ्गिरसः उल्लेखः दृश्यते। अग्निरेव अङ्गिराः इति क्वचित्। ऋग्वेदस्य ३.३१ तमे मन्त्रे अङ्गिराः गायक इति कथितः[१४]। यथा
अगच्छदु विप्रतमः सखीयन्नसूदयत्सुकृते गर्भमद्रिः ।
ससान मर्यो युवभिर्मखस्यन्नथाभवदङ्गिराः सद्यो अर्चन् ॥[१५]
अथर्ववेदपरम्परायां अथर्वणस्य मान्यता अधिका। सद्गुणाः परोपकारप्रवृत्त्यादयः अथर्वणेन उक्तः। हेयाः वामाचारादयः अङ्गिरसा उक्तः इति हेतोः अथर्वणस्य मान्यता अधिका वर्तते इति पाश्चात्यविदुषां मतम्[१६][१७]।
बौद्धसाहित्ये अपि अङ्गिरसः उल्लेखः दृश्यते दिङ्निकाये तेविज्जसुत्ते बुद्धस्य वैदिकऋषिभिः सह संवादः वर्णितः। तत्र बुद्धः समकालीनां ऋषीणां पूर्वऋषीणां च उल्लेखं करोति। इमे पूर्वऋषयः दश विद्यन्ते इति तस्य कथनम्। तेषु दशसु ऋषिषु अङ्गिराः अपि अन्यतमः।
इतिहासः
[सम्पादयतु]पुराणादिषु अङ्गिरसः नाम्नः उल्लेखः बहुत्र बहुधा वर्तते। तस्य जीवनस्य विवाहस्य च विषये नैकाः कथाः श्रूयन्ते।[२] क्वचित् ब्रह्मणः पुत्ररूपेण तस्य उल्लेखः भवति चेत् अन्यत्र क्वचित् प्रजापतिषु तस्य उल्लेखः दृश्यते। महाभारते ब्रह्ममानसपुत्राणां कथनावसरे अङ्गिरसः अपि नाम उच्चारितम् यथा- ब्रह्मणो मानसाः पुत्त्रा विदिताः षण्महर्षयः मरीचि-रत्र्यङ्गिसौ पुलस्त्यः पुलहः क्रतुः” इति मार्कण्डेयपुराणे अपि “त्वमग्ने प्रथमोऽङ्गिरा ऋषिर्देवानामिति” श्रुतौ अग्ने-रङ्गिरस्त्वमुक्तं तत्कथा । इत्युक्तम् [१८]।अङ्गीरसः पत्नीनां सङ्ख्या एकम् द्वे चत्वारि इति मतभेदः वर्तते।.[२] क्वचित् तस्य पत्नी सुरूपा, पुत्राश्च उत्तास्यः, संवर्तनः बृहस्पतिश्च इत्युल्लिखितम्[१९]। अन्यत्र तस्य पत्नी स्मृतिः (दक्षपुत्री) एवं स्वधा इत्यपि उल्लिखितम्।[६] शुभां परिणीय अग्निरूपाः सप्त पुत्रीः बृहस्पतिनामकं पुत्रं च प्राप्तवान् इत्यपि कथा श्रूयते।[१][६]
अन्यत्र अङ्गिराः तपः समाचर्य परब्रह्म प्राप्तुम् एच्छत्। अङ्गीरसः तु जन्मना एव तेजः आसीत्। तत् च तेजः तपसः कारणात् अनन्तम् अभवत्। तथापि तपः अनुवर्तयन् अङ्गिराः परब्रह्मैक्यं सम्पाद्य ब्रह्मर्षिः सञ्जातः। अनेकान् मन्त्रान् च ददर्श। भृगुना सह अग्न्याराधनपरम्परायाः आरम्भकर्ता अभवत्।[६]
उल्लेखाः
[सम्पादयतु]- ↑ १.० १.१ १.२ Roshen Dalal (2010). Hinduism: An Alphabetical Guide. Penguin Books. pp. 29–30. ISBN 978-0-14-341421-6.
- ↑ २.० २.१ २.२ George M. Williams (2008). Handbook of Hindu Mythology. Oxford University Press. pp. 55–56. ISBN 978-0-19-533261-2.
- ↑ John Brough (2013). The Early Brahmanical System of Gotra and Pravara: A Translation of the Gotra-Pravara-Manjari of Purusottama-Pandita. Cambridge University Press. p. 66. ISBN 978-1-107-62398-9.
- ↑ Maurice Bloomfield (1899). Atharvaveda. K.J. Trübner. pp. 7–11.
- ↑ Moriz Winternitz; V. Srinivasa Sarma (1996). A History of Indian Literature. Motilal Banarsidass. pp. 109–111. ISBN 978-81-208-0264-3.
- ↑ ६.० ६.१ ६.२ ६.३ Wilkins, W.J. (2003). Hindu Mythology. New Delhi: D.K. Printworld (P) Limited. pp. 369–70. ISBN 81-246-0234-4.
- ↑ ७.० ७.१ Stephanie Jamison; Joel Brereton (2014). The Rigveda: 3-Volume Set. Oxford University Press. pp. 1673, 1675, 1679, 1684, 1689–1693. ISBN 978-0-19-972078-1.
- ↑ Stephanie Jamison; Joel Brereton (2014). The Rigveda: 3-Volume Set. Oxford University Press. p. 1673. ISBN 978-0-19-972078-1.
- ↑ Stephanie Jamison; Joel Brereton (2014). The Rigveda: 3-Volume Set. Oxford University Press. p. 1675. ISBN 978-0-19-972078-1.
- ↑ Stephanie Jamison; Joel Brereton (2014). The Rigveda: 3-Volume Set. Oxford University Press. p. 1679. ISBN 978-0-19-972078-1.
- ↑ Stephanie Jamison; Joel Brereton (2014). The Rigveda: 3-Volume Set. Oxford University Press. p. 1684. ISBN 978-0-19-972078-1.
- ↑ Stephanie Jamison; Joel Brereton (2014). The Rigveda: 3-Volume Set. Oxford University Press. p. 1689. ISBN 978-0-19-972078-1.
- ↑ Stephanie Jamison; Joel Brereton (2014). The Rigveda: 3-Volume Set. Oxford University Press. pp. 1690–1693. ISBN 978-0-19-972078-1.
- ↑ Tatyana J. Elizarenkova (1995). Language and Style of the Vedic Rsis. State University of New York Press. p. 238. ISBN 978-0-7914-1668-6.
- ↑ ऋग्वेदः तृतीयमण्डलम् (विकिस्रोतः)
- ↑ Charles Rockwell Lanman (1904). Atharva-veda Saṁhitā. Harvard University. pp. 1039–1040.
- ↑ F. Max Muller (2004). The Sacred Books of the East: Index, Volume 50. Routledge. pp. 45–46. ISBN 1-135-79045-0.
- ↑ https://sa.wiktionary.org/wiki/%E0%A4%85%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A4%BF%E0%A4%B0%E0%A4%B8%E0%A5%8D
- ↑ Gopal, Madan (1990). K.S. Gautam, ed. India through the ages. Publication Division, Ministry of Information and Broadcasting, Government of India. p. 67.