सामग्री पर जाएँ

वटसावित्रीव्रतम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


ज्येष्ठमासस्य पूर्णिमायां भारतीयाः ’वटसावित्रीव्रतम्’ आचरन्ति । इदं व्रतं सन्तानसौभाग्यप्राप्तये विशेषतः महिलाः आचरन्ति । व्रतमेतत् भारतीयसंस्कृतौ आदर्शनार्याः प्रतीकं भवति । स्कन्दपुराणानुगुणं ज्येष्ठमासस्य पूर्णिमायाम् आचरेत् । निर्णयामृतानुगुणम् अस्य आचरणं ज्येष्ठमासस्य आमावास्यायाम् इति मतभेदः अस्ति ।

उद्देश्यः

[सम्पादयतु]

तिथिभेदः अस्ति चेदपि उद्देशः एकः एव सत्सन्तानप्राप्तिः सौभाग्यवृद्धिः च । अनेन भारतीयमहिलाः स्वपतिव्रताधर्मम् आत्मसात् कुर्वन्ति । विशेषज्ञाः ज्येष्ठमासस्य शुक्लपक्षस्य त्रयोदशीतः अमावास्यापर्यन्तं दिनत्रयस्य व्रतम् इति वदन्ति । अस्मिन् व्रते वटस्य (वटवृक्षस्य) सावित्र्याः च द्वयोः महत्त्वम् अस्ति । सामान्यतः भारतीयपरम्पपरायाम् अश्वत्थवृक्षः पवित्रः । अस्मिन् वृते तु न्यग्रोधस्य प्राधान्यम् अस्ति । पराशरमुनिना उक्तं यत् ’वटमूले तोपवासाः’ इति । वटवृक्षे ब्रह्मा विष्णुः महेश्वरः च वसन्ति इति पुराणेषु उक्तम् । अस्य छायायाम् उपविश्य व्रतपूजादिभिः कथाश्रवणेन च मनोकामनाः पूर्णिताः भवन्ति इति । अस्य विश्वासस्य पृष्ठभूमौ एवं वैज्ञानिकं सत्यमपि भवेत् । वटवृक्षः स्ववैशाल्यविषयेऽपि प्रसिद्धः एव । ज्येष्ठमासस्य तीक्ष्णातपात् अपि रक्षणं भवति इति चिन्तनं स्यात् ।

दार्शनिका दृष्टिः

[सम्पादयतु]

दार्शनिकदृष्ठिकोणे यदि पश्यामः चेत् वटवृक्षस्य आयुः दीर्घम् अस्ति । पत्युः दीर्घायुष्यर्थम् अपि पतिव्रताः अस्य पूजनं कुर्वन्ति । अयं वृक्षः ज्ञानस्य निर्वाणस्य च प्रतीकोऽपि अस्ति । महिलाः वटसावित्रीव्रतकथाश्रवणपूर्वकं वृटवृक्षस्य काण्डे सूत्रबन्धनम् अपि कुर्वन्ति ।

वटवृक्षस्य पूजनं कृत्वा सत्यवतः सावित्र्याः च कथाश्रवणम् अपि कुर्वन्ति । अतः अस्य वटसावित्रीव्रतम् इति नाम प्राप्तम् । भारतीयसंस्कृतौ, अल्पायुषः सत्यवतः पत्नी सावित्री तु ऐतिहासिकी नारी । सावित्री पदस्य अर्थः तु वेदमाता गायत्री अथवा सरस्वती इति भवति । अस्याः सावित्र्याः जन्म अपि विशेषरीत्या एव अभवत् । भद्रदेशस्य राजा अश्वपतिः । तस्य बहुकालं यावत् सन्तानप्राप्तिः नाभवत् । सत्सन्तानप्राप्तये सः अष्टदशवर्षाणि प्रतिदिनं मन्त्रोच्चारणपूर्वकं लक्षाहुतिपूर्वकं यज्ञं करोति स्म । यज्ञस्य फलरूपेण देवी सावित्री प्रकटीभूता ते तेजस्विनी कन्या जायते इति वरम् अयच्छत् । सावित्रीदेव्याः कृपानुग्रहेण पुत्री जाता इति तस्याः नाम सावित्री इत्येव अङ्कितम् । कन्या तारुण्यं प्राप्य रूपवती अभवत् । किन्तु अनुरूपः वरः न प्राप्तः इति कारणात् पिता अतीव दुःखितः अभवत् । वरस्य अन्वेषनार्थं राजा अश्वपतिः स्वयं प्रस्थितवान् । सावित्री तपोवनेषु अटन्ती राज्यभ्रष्टं साल्वदेशस्य नृपं द्युमत्सेनं दृष्टवती । तेन सह विद्यमानं तस्य पुत्रं सत्यवन्तं दृष्ट्वा तेन अनुरक्ता नारदमुनेः वचनमपि निरकृत्य तं पतित्वेन स्वीकृतवती । किन्तु पतिः सत्यवान् अल्पायुः आसीत् । पत्युः मरणकालत् पूर्वम् एव सावित्री घोरं तपः समाचरत् । तस्य फलं सा अन्ते प्राप्तवती एव ।

बाह्यसम्पर्कतन्तु

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=वटसावित्रीव्रतम्&oldid=373116" इत्यस्माद् प्रतिप्राप्तम्