रथसप्तमी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
सूर्यदेवः
हिन्दुधर्मःOm symbol.svg

हिन्दुधर्मःइतिहासः

Portal:HinduismHinduSwastika.svg

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

माघमासस्य शुक्लपक्षस्य सप्तम्यां तिथौ आचर्यते एतत् पर्व । अस्मिन् पर्वणि आराध्यमानः देवः सूर्यः । एतत् पर्व “अचला सप्तमी” इत्यपि उच्यते । “रथवरः” इत्याख्यानः सूर्यः सप्तम्यां तिथौ पूज्यते इति तद्दिनं रथसप्तमी इति उच्यते । देवालयेषु अस्मात् दिनात् रथोत्सवस्य आरम्भः भवति इत्यस्मात् अपि एतद्दिनं “रथसप्तमी” इति उच्यते । एषा सप्तमी तिथिः अक्षयतृतीया इव अचलं फलं ददाति इत्यस्मात् एतद्दिनम् “अचला सप्तमी” इत्यपि उच्यते ।

सपत्नीकः भगवान् सूर्यः (शरण्या, छाया च)
सूर्यग्रहणतुल्या तु शुक्ला माघस्य सप्तमी ।
अचला सप्तमी दुर्गा शिवरात्रिर्महाभरः ॥

इत्यत्र माघमासस्य शुक्लपक्षस्य सप्तमी सूर्यग्रहणतुल्या इति उक्तम् अस्ति । रथसप्तमी मन्वादिषु परिगणिता इत्यस्मात् तद्दिने मन्वादियुक्तरीत्या श्राद्धं तदधिकारिणः आचरेयुः । अस्मिन् दिने अरुणोदयकाले स्नानं कुर्वन्ति चेत् तत् स्नानम् अक्षयं फलं ददाति इति ।

अरुणोदयवेलायां तस्यां स्नानं महाफलम् । इति विष्णुस्मृतौ उक्तम् अस्ति । माघमासः एव स्नानार्थं प्रशस्तः । माघमासे उषःकाले यः स्नाति सः मातापित्रोः कुले सप्त जनान् उद्धरति इति वदन्ति शास्त्राणि ।
रथोत्सवः
उद्धृत्य सप्त पुरुषान् पितृमातृवंश्यान् ।
स्वर्गं प्रयात्यमरदेहधरो नरोऽसौ ॥ इति ।

समग्रे माघमासे उषःकाले स्नातुं न शक्यते चेदपि सङ्क्रमण-रथसप्तमी-माघी इत्याख्येषु त्रिषु दिनेषु वा स्नातव्यमेव इति शास्त्रवाक्यम् ।

अस्मिन् योगे त्वशक्तोपि स्नायादपि दिनत्रयम् । इति । माघमासे शुक्लपक्षे सप्तम्यां तिथौ अरोणोदयकाले तीर्थराजे प्रयागे स्नानं क्रियते यत् तत् कोटिसूर्यग्रहणपुण्यकाले कृतानाम् आचरणानां समानं भवति इति । सप्तजन्मनि कृतस्य पापस्य परिहारः भवति । त्रिकरणपूर्वकं ज्ञानेन अज्ञानेन वा कृतं पापं नाशयति । दौर्भाग्यं दुःखं च प्रणश्यति । क्षणाभ्यन्तरे सः निष्कल्मषः भवति इति वदन्ति शास्त्राणि ।
तस्यां स्नानं महाफलम् ।
प्रयागे यदि ल्भ्येत कोटिसूर्यग्रहैस्समा ।
सूर्यग्रहणतुल्या तु शुक्ला माघस्य सप्तमी ।
कुर्यात् स्नानार्घ्यादाभ्याम् आयुरारोग्यसम्पदः ।
तन्मे रोगं च शोकं च माकरी हन्तु सप्तमी ।
एतज्ज्न्मकृतं पापं यच्च जन्मान्तरार्जितम् ॥
मनोवाक्कायजं यच्च ज्ञाताज्ञाते च ये पुनः ।
केशवादित्यमालोक्य क्षणान्निष्कल्मषो भवेत् ॥

तस्मिन् दिने यः सूर्यदेवस्य स्वर्णविग्रहं साश्वरथे संस्थाप्य दानं करोति सः अखण्डस्य भूमण्डलस्य चक्राधिपत्यं प्राप्नोति इति । रथसप्तमीदिने अरुणोदयकाले स्नात्वा जप-तप-मन्त्र-देवताराधनं कुर्वन्ति । तद्दिने समुद्रे, पुष्करादिपुण्यसरोवरे, गङ्गादिमहानदीषु वा स्नानं प्रशस्तम् । पूर्वदिने षष्ठ्यां स्नात्वा एकभुक्तिम् आचरन्ति । सप्तम्यां तु निश्चलं जलम् एव । पुण्यस्नानकरणे अनासक्तैः जनैः जलस्वर्शकरणात् पूर्वमेव स्नानम् आचरणीयम् । स्नानमपि अवगाहनस्नानं भवेत् (सम्पूर्णतया जले निमज्जनम्) । इक्षुदण्डेन जलम् आलोड्य स्नानम् आचरेयुः । शिरसि स्वर्णस्य रजतस्य अलाबुदीपपात्रे तिलतैलवर्त्तिकाभिः ज्वालितं दीपं संस्थाप्य सप्त अर्कपर्णानि सप्त बदरीपर्णानिबाह्वोः मध्ये संस्थाप्य सूर्यदेवस्य ध्यानं कुर्युः । अनन्तरं जलेन तर्पणं कृत्वा तं दीपं जले प्रवाहयेयुः । अनन्तरम् अर्कबदरीपर्णानि, अक्षताः, चन्दनं योजयित्वा सूर्यनारायणाय अष्टाङ्गविधिना अर्घ्यं समर्पयेयुः । रक्तवर्णस्य चन्दनेन कर्णिकासहितम् अष्टदलयुक्तं पद्म रचयेयुः । तस्य पूर्वादिष् दलेषु प्रदक्षिणप्रकारेण रवि-भानु-विवस्वन्-भास्कर-सवितृ-अर्क-सहस्रकिरण-सर्वात्मक-इत्येतैः नामभिः अर्च्यमानं सूर्यदेवं, मध्ये च प्रणवसहितं सपत्नीकं शिवं लिखित्वा आवाह्य पूजयेयुः । सूर्यस्य अश्वाः सप्त । लोकाः अपि सप्त । भूगोले विद्यमानाः द्वीपाः अपि सप्त । सूर्याराधनम् अपि सप्तम्याम् एव । तस्य पूजनम् अपि सप्तसंख्याकैः अर्कपर्णैः ।

भगवतः सूर्यस्य रथः


सप्ताश्वास्सप्तलोकाश्च सप्तद्वीपा वसुन्धरा ।
सप्तार्कपर्णान्यादाय सप्तम्यां स्नानमाचरेत् ॥

स्वार्णविग्रहे सूर्यनारायणस्य आराधनं न शक्यते चेत् जले सूर्यस्य प्रतिबिम्बस्य आराधनम् अपि कर्तुं शक्यते । तद्दिने सावित्राष्टाक्षरमहामन्त्रस्य, सूर्यगायत्र्याः, यजुर्वेदस्य अरुणमन्त्रस्य, ऋग्वेदस्य महासौरमन्त्रस्य, सौरनाम-आदित्यहृदयस्य च पारायणं कुर्वन्ति । पूजानन्तरं देवालयेषु प्रवर्तमानं सूर्यमण्डलोत्सवं रथोत्सवं वा पश्यन्ति ।

"https://sa.wikipedia.org/w/index.php?title=रथसप्तमी&oldid=366365" इत्यस्माद् पुनः प्राप्तिः