विष्णुस्मृतिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
हिन्दुधर्मःOm symbol.svg

हिन्दुधर्मःइतिहासः

Portal:HinduismHinduSwastika.svg

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

स्वयं भगवता विष्णुनारायणेनेयं स्मृतिः लोकोपकाराय रचितास्ति । वराहरुपधारिणा भगवता विष्णुनाऽर्णवात् पृथिवी समुद्धृतेति वार्त्ता पुराणेऽपि वर्णिता वर्त्तते । तदा हि विष्णुपृथिव्योः संवादद्वारा स्मृतिसम्मता विषया मानवसमाजस्याचारव्यवहादि-नित्य -नैमित्तिक-काम्यकर्मसंरक्षणाय बहुलता वर्णिताः सन्ति ।

अस्यां स्मृतौ गृहस्थाश्रमस्य महत्त्वं सर्वोपरि वरिवर्त्ति । यतः सर्वैर्मुनिभिः देवैः भूतग्राम्,ऐरिमं गार्हस्थ्याश्रममेवाधारीकृत्य स्वस्वाभिप्रायाः प्रकटीकृताः । यजन-याजनोपासनदानादयः सर्वाः क्रियाकलापा गार्हस्थ्याश्रम मिममधिकृत्यैव संविहिताः सन्तीति हेतोः अस्य श्रेष्ठत्वं विष्णुना प्रतिपादितं वर्त्तते । मानवजीवनोपयोगि-धार्मिक-कृत्यसम्पादनाय वेश-वंश-ज्ञान-धनादीनामुपयोगितापि विष्णुनोट्टङ्किताऽस्ति । किञ्च धनं त्रिविधोपायेन कथङ्कारं समुपार्यते, तस्य पर्णना विष्णुना सुचारुतया प्रदर्श्यते । यथा प्रथमं शुल्कं(यत् स्वश्रमोपार्जितं धनम्)द्वितीयं शबलम् (यत् कौशलेन कपटोपायेन वा समुपार्यते) तृतीयं तु कृष्णधनम् (चौर्यादिना यत् प्राप्यते ।) किंरुपस्य धनस्य परिणामः कीदृशः उपजायते तदपि लिखितमस्ति । शुल्कधनेन जीवनस्य गति देवयोनित्वम् अश्नुते । शबलस्य परिणामः मनुष्ययोनित्वं तथा कृष्णधनस्य परिणामः तिर्यगयोनित्वमिति स्पष्टं वर्णितमस्ति । किन्तु मानव जीवनस्यावश्यकतापूर्त्तये यथा धार्मिक-नैतिक सांस्कृतिक कृत्यानि करणीयानि स्युस्तत् सर्वं साङ्गोपाङ्गतया विष्णुस्मृतौ प्रतिपाद्यते ।

विष्णुस्मृतौ शतसंख्याका अध्यायाः सन्ति । तत्र प्रथमाध्याये सृष्टेरुत्धत्तिवर्णनम्, द्वितीयाध्याये सवर्णाश्रमवृत्तिवर्णनम्, तृतीयाध्याये चतुर्थाध्याये च राजधर्मवर्णनम्, पञ्चमाध्याये राजदण्डव्यवस्था, षष्ठे ऋणादानम्, सप्तमे सलेखसाक्षिवर्णनम्, अष्टमे वर्जित-साक्षिलक्षणम् नवमे समयक्रियावर्णानम्, दशमे तुलादिव्यम्, एकादशेऽग्निदिव्यम्, द्वादशे जलदिव्यम्, ययोदशे विषदिव्यम्, चतुर्दशे कोषदिव्यम्, पञ्चदशे द्वादशविधपुत्रवर्णनम्, षोडशे पुत्रभेदवर्णनम्, सप्तदशे पुत्राभावे दायभाग-विचारः, अष्टादशे वर्णभेदेन ब्राह्मणादीनां दायभागविचारः, एकोनविंशतितमेऽध्याये शवस्पर्शिपुत्रवर्णनम्, विंशतितमेऽ ध्याये दिनरात्रिवर्षादीनां वर्णनं विद्यते । एकविंशतितमेऽद्याये अशौचात् श्राद्धाद्विवर्णनम्, द्वाविशंतितमेऽध्याये अशौचनिर्णयः, त्रयोविंतितमे द्रव्यशुद्धिः, चतुर्विंशतितमे विवाहः, पञ्चविंशतितमे स्त्रीधर्माः, षड्विंशतितमे सवर्णभार्या -प्रशंसा, सप्त-विंशतितमे निषेकादारभ्य उपनयनं यावत् दश-संस्कारणां वर्णनम्, अष्टाविंशतितमे ब्रह्मचारि-धर्मः सदाचार-कर्त्तव्यञ्च, एकोनविंशतितमेऽध्याये आचार्य ऋत्विकप्रभृतीनां कर्त्तव्यानिः, त्रींशत्तमे अनध्यायाविचारः एकत्रिंशत्तमे मातृ-पितृ-गुरुणां शुश्रूषा, द्वात्रिंशत्तमे उउपाध्याय आचार्य ऋत्विक - पितृव्यादीनां पत्नीनां मातृवन् मान्यता, त्रयत्रिंशत्तमे कामक्रोधादि-शत्रूणां विचारः चतुः त्रिंशत्तमेऽध्याये मात्रादिग्मनपातकम्, पञ्चत्रिंशत्तमे महापातकानि, षडचिंशत्तमे ब्रह्महत्यासमान पातकानि, सप्तत्रिंशत्तमे उपपातकानि, अष्टत्रिंशततमे जातिभ्रंशप्रायश्चित्तम्, एकोनचत्वारिंशत्तमे सङ्करी करण-प्रायश्चित्तम्, चत्वारिंशत्तभेऽध्याये अपात्रीकरणप्रायश्चित्तम, एकश्चत्वारिंशत्तमे मलिनी करणप्रायश्चित्तम, द्विचत्वारिशत्तमे प्रकीर्ण प्रायश्चित्तम, त्रिचत्वारिशत्तमे नरकाणां वर्णानम्, चतुः श्चत्वारिंशत्तमे नारकीया यमयातना, पञ्च चत्वारिश्त्तमे कर्मर्विपाकाः षटचत्वारिंशत्तमे कुछ्रादि-व्रतविधानम्, सप्तचत्वारिशत्तमे चान्द्रायणव्रतम्, अष्टचत्वारिंशत्तमे अन्नदोषप्रायश्चित्तम्, एकोन पञ्च्चत्वारिंशत्तमे सर्वपापनिवृत्तिप्रायश्चित्तम्, पञ्चशत्तमे ब्रह्मबधगोवधादिप्रायश्चित्तम्, एकपञ्चाशात्तमे सुरापानप्रायश्चित्तम्, द्विपञ्चाशत्तमे सुवर्णस्तेय-प्रायश्चित्तम्, त्रिपञ्चाशत्तमे अगम्यागमनप्रायश्चित्तम् चतुः पञ्चाशत्तमे पुरुषसूक्तादि माहात्म्यवर्णनम्, सप्तपञ्चाशत्तमे अभोज्याप्रति-ग्राहयोः त्यागवर्णनम् ।

अष्टपञ्चाशत्तमे गृहस्थस्य अर्योपार्जनम्, एकोनषष्ठितमे गृहस्थ-कर्त्तव्यनिरुपणम्, षष्ठितमे नित्यशौचब्राह्ममुहूर्त्त-कृत्यवर्णनम्, एकषष्ठितमे दन्तधापन विधानम्, द्विषष्ठितमे प्रजापत्यादितीर्यावर्णनम्, त्रिषष्ठितमे ईश्वरप्राप्तिः योगकर्मर्विधानञ्च, चतुः षष्ठितमे स्नानादि आचारकृत्यम्, पञ्चषष्ठितमे देवपूजावर्णनम्, षटषष्ठितमे देवपितृकर्मविधानम्, सप्तषष्ठितमे अग्निस्थापनविचारः अष्टषष्ठितमे चन्द्रसूर्यादिग्रहणे पाकत्यागादिवर्णनम्, एकोनसप्ततितमे निषेधतिथौ शयनविचारः, सप्ततितमे शयनादि अनेकाविचारः, एकसप्ततितमे आचारवर्णनम्, द्वासप्ततितमे इन्द्रियनिग्रहः, त्रिसप्ततितमे श्राद्धम, चतुः सप्ततितमे अष्टकाश्राद्धविधिः पञ्चसप्ततितमे श्राद्धाधिकारिनिर्णयः, सप्तसप्ततितमे काम्यश्राद्धविचारः, अष्टसप्ततितमे नक्षत्रश्राद्धविचारः, एकोनाशीतितमे श्राद्धे प्रशस्तवस्तूनां विचारः, अशीतितमाध्यायात् नवतितमा-ध्यायपर्यन्तं यथाक्रमं श्राद्दे पितरः, श्राद्धान्नस्य पादस्पर्शदोषः, श्राद्धे ब्राह्मणपरीक्षा, श्राद्धे पंक्ति पावनविचारः, केषां सन्निधौ श्राद्धे वृषोत्सर्गविचारः, दान -फलविचारः, गोदानमहत्वम्, कार्त्तिकमासे पापविमुक्तिविचारः, मासविशेषे दानविशेषविचारः, एवं एक नवतितमाध्यायात् शततमाध्यायपर्यन्तं यथाक्रमं कूपतडागादि खननो-त्सर्गविधानम्, अभयदानस्य महत्त्वम्, दानाधिकारि निर्णयः वानप्रस्थकालविचारः, वानप्रस्थाश्रमः, सन्यासाश्रमः अष्टाङ्गनमस्कारविधिः, लक्ष्मीनिवास-स्थानवर्णनम्, वसुधां प्रति च नारायणस्य उक्तिवर्णनम् ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=विष्णुस्मृतिः&oldid=423176" इत्यस्माद् पुनः प्राप्तिः