सामग्री पर जाएँ

आदित्यहृदयम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

आदित्यहृदयम् एकम् पुरातनम् स्तोत्रम् अस्ति। एष: रामायणस्य युद्ध काण्डे अभवत्। एतस्मिन् समये यदा रामः रावणं दृष्टवान्, स: अचिन्तयेत्। तदा अगस्त्यमुनिम् तत्र देवैः सह आगतः। स: रामम् सूर्य देवस्य माहत्वम् अविव्रौनुत:।

तस्य त्रिंशत् श्लोकाः सन्ति। स्तोत्रं सूर्यस्य शक्तयः अपि सूर्यपूजायाः लाभान् व्याख्यायते। हिन्दुभि: आदित्यहृदयम् अतीव पवित्रम् हिदुभि: इति मन्यते। ते सूर्यं गायित्वा पूजयन्ति।

शुर्य: हिन्दुभि: प्रत्यक्षदैवम् इति मन्यति। अतः स पूज्यते।

तस्य श्लोकाः[सम्पादयतु]

ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम्।

रावणं चाग्रतो दृष्टवा युद्धाय समुपस्थितम् ।।1।।

दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम्।

उपगम्याब्रवीद् राममगरत्यो भगवांस्तदा ।।2।।

राम राम महाबाहो श्रृणु गुह्यं सनातनम्।

येन सर्वानरीन् वत्स समरे विजयिष्यसे ।।3।।

आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम्।

जयावहं जपं नित्यमक्षयं परमं शिवम् ।।4।।

सर्वमंगलमांगल्यं सर्वपापप्रणाशनम्।

चिन्ताशोकप्रशमन- मायुर्वर्धन-मुत्तमम् ।।5।।

रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम्।

पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ।।6।।

सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः।

एष देवासुरगणाँल्लोकान् पाति गभस्तिभिः ।।7।।

एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः।

महेन्द्रो धनदः कालो यमः सोमो ह्यपां पतिः ।।8।।

पितरो वसवः साध्या अश्विनौ मरुतो मनुः।

वायुर्वन्हिः प्रजाः प्राण ऋतुकर्ता प्रभाकरः ।।9।।

आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान्।

सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः ।।10।।

हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान्।

तिमिरोन्मथनः शम्भुस्त्वष्टा मार्तण्डकोंऽशुमान् ।।11।।

हिरण्यगर्भः शिशिरःस्तपनोऽहस्कारो रविः।

अग्निगर्भोऽदितेः पुत्रः शंखः शिशिरनाशनः ।।12।।

व्योमनाथस्तमोभेदी ऋम्यजुःसामपारगः।

घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवंगमः ।।13।।

आतपी मण्डली मृत्युः पिंगलः सर्वतापनः।

कविर्विश्वो महातेजा रक्तः सर्वभवोद्भवः ।।14।।

नक्षत्रग्रहताराणामधिपो विश्वभावनः।

तेजसामपि तेजस्वी द्वादशात्मन् नमोऽस्तु ते ।।15।।

नमः पूर्वाय गिरये पश्चिमायाद्रये नमः।

ज्योतिर्गणानां पतये दिनाधिपतये नमः ।।16।।

जयाय जयभद्राय हर्यश्वाय नमो नमः।

नमो नमः सहस्रांशो आदित्याय नमो नमः ।।17।।

नम उग्राय वीराय सारंगाय नमो नमः।

नमः पद्मप्रबोधाय प्रचण्डाय नमोऽस्तु ते ।।18।।

ब्रह्मेशानाच्युतेशाय सुरायादित्यवर्चसे ।

भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ।।19।।

तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने।

कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ।।20।।

तप्तचामीकराभाय हरये विश्वकर्मणे।

नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे ।।21।।

नाशयत्येष वै भूतं तमेष सृजति प्रभुः।

पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ।।22।।

एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः।

एष चैवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् ।।23।।

देवाश्च क्रतवश्चैव क्रतूनां फलमेव च।

यानि कृत्यानि लोकेषु सर्वेषु परमप्रभुः ।।24।।

एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च।

कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव ।।25।।

पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम्।

एतत् त्रिगुणितं जप्तवा युद्धेषु विजयिष्यति ।।26।।

अस्मिन् क्षणे महाबाहो रावणं त्वं जहिष्यसि।

एवमुक्त्वा ततोऽगस्त्यो जगाम स यथागतम् ।।27।।

एतच्छ्रुत्वा महातेजा, नष्टशोकोऽभवत् तदा।

धारयामास सुप्रीतो राघवः प्रयतात्मवान् ।।28।।

आदित्यं प्रेक्ष्य जप्त्वेदं परं हर्षमवाप्तवान्।

त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ।।29।।

रावणं प्रेक्ष्य हृष्टात्मा जयार्थ समुपागमत्।

सर्वयत्नेन महता वृतस्तस्य वधेऽभवत् ।।30।।

भाव:[सम्पादयतु]

यः पठति तस्य शत्रवः नाश्यन्ति, सः आरोग्यं धनं च प्राप्नोति। सूर्यः लोकानां राजा। स: विश्वेश्वरः | स देवदानवैः पूज्यते। स ब्रह्मा विष्णुश्च शिवः | स इन्द्रस्च० वरुणस्च सोमस्च यमस्च वायुस्च अग्निस्च अश्विनौस्च इत्यादयः अनेके देवा: भवन्ति। तस्य सूर्यः, आदित्यः, खगः, पूसनः, रविः, सावित्रः, मार्तण्डः, दिवाकरे इत्यादयः अनेकानि नामानि सन्ति। सः जनान् वर्षम् ददाति। सः तमान् नाशयति। अतः श्म्भुः घनवृष्टिः तमोभेदि इत्यपि उच्यते। सः पूर्वपश्चिमपर्वतानां राजा अस्ति। सः सर्वान् ग्रहान् नक्षत्रानाम्च आज्ञापयति। अगस्त्य: तदा सूर्यं प्रशंसति यतः सः जगतः प्रजापतिः नाशकः च अस्ति। सूर्यश्च तेन ब्रह्मविष्णुमहेश्वरशक्ति समः इति अगस्त्य: अवदत्।


मुनिः रामं स्तोत्रं उपदिश्यम् कृत्वा। आदित्यह्रुदयं प्रयुज्य सूर्यं पूजयितुं वदति। ततः स गत्वा रामः सूर्यं पूजयति। आदित्यः रामं आशीर्वादं दत्व अपि "वच:" इति अवदत्। ततः रमा युद्धं गत्वा। स रणे रावणं हतवान् |

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=आदित्यहृदयम्&oldid=483123" इत्यस्माद् प्रतिप्राप्तम्