सामग्री पर जाएँ

शरत्पूर्णिमा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

आश्वयुजमासस्य पूर्णिमां शरत्पूर्णिमा रासपूर्णिमा, कौमुदीपूर्णिमा, कोजागर्ति पर्व, नवान्नपूर्णिमा, (लोकभाषासु कोजागरी) च इति कथयन्ति । दीपावली पर्वणः एकपक्षात् अनन्तरम् आचर्यमाणं प्रसिद्धम् इदं पर्व देशस्य विविधप्रदेशेषु विविधरीत्या आचर्यते ।

इदं पर्व प्रतिवर्षं शरदृतौ आश्वयुजमासस्य पूर्णिमा पर्वणि सम्पद्यते, यच्च क्रिस्ताब्दे २०२० तमे अक्टोबर्मासस्य ३१ तमे दिनाङ्के आपतितम् ।

ज्योतिष्कशास्त्रानुसारं चन्द्रः अस्यां पूर्णिमायां केवलं रात्रौ षोडषकलायुक्तः भवति । अस्मिन् दिने श्रीकृष्णः महारासलीलाम् अकरोत् । अस्यां पूर्णिमारात्रौ चन्द्रः अमृतकिरणान् स्रावयति इति विश्वासः । अतः उत्तरे भारते पायसं कृत्वा रात्रौ चन्द्रिकायां स्थापनस्य पद्धतिः अस्ति ।

पौराणिकम्

[सम्पादयतु]

भविष्यपुराणं कौमुदीपूर्णिमायां लक्ष्मीपूजनं निर्दिशति ।

आश्विने पौर्णमासी तु कौमुदीति प्रकीर्तिता। अस्यां चन्द्रोदये लक्ष्मीं पूजयेद्विधिवन्नरः॥भविष्यपुराणे २-८-१३२॥

प्रादेशिकरीतिः

[सम्पादयतु]

उत्कलेषु

[सम्पादयतु]

उत्कलेषु सूर्योदये नारिकेलपर्णैः निर्मिते कुळ इति पुटे भ्रष्टतण्डुलैः साकं नारिकेलं कदली उर्वारुकं इत्यादि सप्त फलानि संस्थाप्य नीराजनेन सूर्यम् अर्चन्ति । आदिनम् उपवासं कृत्वा प्रातः अर्चितैः तण्डुलैः साकं दधिगुडे मेलयित्वा मिष्टान्नं पचन्ति । तत् चन्द्राय निवेद्यते, यत् पारणरूपेण भक्ष्यते च ।

तत्पश्चात् कौमुद्यां कन्याः महिलाश्च क्रीडन्ति । उत्कलेषु कन्याः उत्तमवरप्राप्त्यै अस्मिन् देने उपवासं कुर्वन्ति इति विशेषः ।

महाराष्ट्रेषु

[सम्पादयतु]

उत्तरभारते

[सम्पादयतु]

कस्यचित् धनिकस्य पुत्र्यौ आस्ताम् । अभावपि पूर्णिमाव्रतम् आचरन्ति स्म । किन्तु ज्येष्टा पूर्णं व्रतं करोति स्म कनिष्ठा अर्धमेव करोति स्म । कालान्तरेण तयोः विवाहः सम्पन्नः । किन्तु कनीयस्याः जतसन्तानं सर्वं म्रियते स्म । सा ज्योतिष्कान् आहूयम् अस्य कारणम् अपृच्छत् । ते तु पौर्णिमाव्रतभङ्गं स्मारयन्तः पुनः पूर्णिमाव्रतं विधिपूर्वकं समाचरिष्यति चेत् सन्तानं प्राप्स्यति तत् जीवति च इति उक्तवन्तः । तेषां वचननुसारं सा द्वितीया पुत्री पूर्णिमाव्रतं विध्युक्तरीत्या कृतवती । कालन्तरेण तस्याः पुत्रः अजायत । किन्तु शीघ्रमेव मरणं गतः । पुत्रस्य कलेवरं विष्टरे शाययित्वा उपरि आच्छादनं कृत्वा स्वाग्रजाम् आहूय तस्मिन् उपवेष्टुम् अवदत् । ज्येष्टायः स्पर्शनेन पुत्रः क्रन्दितुम् आरब्धवान् । तत् दृष्ट्वा सन्तुष्ठा बालकस्य माताः स्वसहोरी प्रशंस्य वृत्तान्तं सर्वम् अवदत् । तदनन्तरं सा पूर्णिमाव्रतं पूरयमीति राज्ये सर्वत्र उद्घोषितवती ।

आचरणविधिः

[सम्पादयतु]

अस्मिन् दिने कर्ता शुचिर्भूत्वा निराहारः जितेन्द्रियः सन् ताम्रस्य अथवा मृदः कलशस्योपरि वस्त्रमाच्छाद्य तदुपरि स्वर्णरचितां लक्ष्मीप्रतिमां संस्थाप्य षोडषोपचारपूजां करोति । सायं चन्द्रोदयस्य अनन्तरं रजतस्य अथवा मृदः प्रणत्यां १००घृतदीपकान् ज्वालयन्ति । घृतयुक्तं पायसं निर्मीय अनेकेषु पात्रेषु पूरयित्वा चन्द्रिकायां स्थापयन्ति । घण्टात्रयानन्तरं सर्वाणि पायसपात्राणि लक्ष्मीदेव्यै निवेदयन्ति । तदनन्तरं सात्विकविप्रान् निमन्त्र्य सपायसं भोजयन्ति । मङ्गलपद्यानि गायन्तः आरात्रं जागरिताः भवन्ति । प्रातः पुनः शिचिर्भूत्वा स्वर्णमयीं लक्ष्मीमूर्तिं सम्पूज्य आचार्याय प्रयच्छन्ति । अस्यां रात्रौ देवी लक्ष्मीः, ये जनाः जागरिताः पूजां कुर्वाणाः भवन्ति तेभ्यः सर्वसम्पत् ददामि इति निश्चित्य प्रपञ्चे सञ्चरति ।

बाह्यसम्पर्कतन्तु

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=शरत्पूर्णिमा&oldid=456763" इत्यस्माद् प्रतिप्राप्तम्