सामग्री पर जाएँ

कार्त्तिकपूर्णिमा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कार्तिक पूर्णिमा
कार्तिक पूर्णिमा
कार्तिक पूर्णिमा : २८, नवम्बर, २०१२
इतर नामानि त्रिपुरी पूर्णिमा, त्रिपुरारी पूर्णिमा, देवा-दीवाली, देवा-दीपावली
के आचरन्ति हिन्दुः, सिक्खाः जैनाः च
वर्गः Dharmic
दिनाङ्कः Kartika Purnima
रीतयः Prayers and religious rituals, including puja to Vishnu and Harihara
त्रिपुरसंहारं कुर्वतः शिवस्य चित्रम्

कार्त्तिकपूर्णिमा इति पूर्णिमायाः दिनम् अथवा कार्त्तिकमासस्य पञ्चदशं दिनं (नवेम्बरडिसेम्बरमासयोः) हिन्दुभिः आचार्यमाणं पवित्रं दिनम् अस्ति ।एषा पूर्णिमा त्रिपुरिपूर्णिमा तथा त्रिपुरारिपूर्णिमा इत्यपि प्रसिद्धा अस्ति। कदाचित् देवदीपावली अथवा देवदिवाली देवस्य प्रकाशस्य पर्व इत्यपि आह्वयन्ति ।

हिन्दूधर्मे अस्य पर्वणः प्रामुख्यता

[सम्पादयतु]

त्रिपुरिपूर्णिमा ,त्रिपुरारिपूर्णिमा इति नाम त्रिपुरासुरनामकस्य राक्षसस्य कारणेन प्राप्तम् । त्रिपुरारिः शिवस्य अपरं नाम अपि । शिवः स्वयं त्रिपुरान्तकस्य रूपेण त्रिपुरासुरम् अस्मिन् दिने मारितवान् । अस्मिन् विषये एवं कथा अस्ति -त्रिपुरासुरः समग्रविश्वम् आक्राम्य देवान् देवाताश्च पराजितवान् । सः आकाशे नगरत्रयं निर्मितवान् । तानि नगराणि "त्रिपुरम्” इति ख्यातानि । शिवः एकेनैव बाणेन राक्षसं मारयित्वा तस्य नगराणि नाशितवान् । ,एतेन देवताः बहु हृष्टाः भूत्वा ,तत् दिनं प्रकाशस्य पर्व इति घोषितवन्तः। एतत् दिनं देवातानां दीपावली- "देव –दीपावली” इति च वदन्ति । दिपावली हिन्दूनां प्रकाशस्य पर्व अपि अभवत् । कार्त्तिकपूर्णिमायाः दिने एव विष्णुः मत्स्यावतारं गृहीतवान् ।एतत् दिनं तुलसीसस्यस्य तथा युद्धदेवस्य शिवपुत्रस्य कार्त्तिकेयस्य अवतारः इति परिगण्यमानस्य वृन्दस्य जन्मदिनम् अपि । विष्णोः अवतारः श्रीकृष्णः। तस्य प्रियतमायाः राधायाः प्रियं दिनम् एतत् इति परिगणयन्ति ।अस्मिन् दिने राधाकृष्णौ रासनृत्यं कृतवन्तौ, अपि च कृष्णः राधाम् ऊढवान् इति विश्वसन्ति । पूर्वजानां पितॄणां कृते तर्पणदानदिनमपि दिनमपि ।

हिन्दूनां सम्प्रदायाः

[सम्पादयतु]

कार्त्तिकपूर्णिमादिनं विष्णोः चतुर्मासात्मकस्य शयनस्य अवधेः समापनकालं सूचयति। प्रबोधिनी-एकादश्या सह नैकट्यम् अपि अस्ति । प्रबोधिनी-एकादश्यां देवाः निद्रातः जागरिताः भवन्ति । अतः एतस्य अपरं नाम देवोत्थान-एकादशी इति ।चातुर्मासस्य प्रायश्चित्तम् अस्मिन् दिने समाप्तिं गच्छति । प्रबोधिनी-एकादशी दिने प्रारम्भ्यमानाः बहु यात्रामहोत्सवाः कार्त्तिक- पूर्णिमादिने समाप्ताः भवन्ति । सामान्यतः कार्त्तिकपूर्णिमा यात्रामहोत्सवस्य प्रमुख दिनं भवति । तादृशमहोत्सवेषु पण्ढरपुरस्य प्रबोधिनी-एकादशी तथा पुष्करमेला प्रधानौ । कुत्रचित् तुलसीविवाहः अपि अस्मिन् एव दिने भवति । पुष्करयात्रा अथवा पुष्करमेला राजास्थाने प्रबोधिनी-एकादशीतः कार्त्तिक- पूर्णिमापर्यन्तम् अनुवर्तते । राजास्थाने कार्त्तिकपूर्णिमा अतीव प्रामुख्यम् आवहति । एषा मेला ब्रह्मदेवस्य स्मरणार्थं प्रचलति । तस्य देवालयः पुष्करनगरे अस्ति । कार्त्तिकपूर्णिमा -दिने पुष्करसरोवरे पुण्यस्नानं करोति चेत् मोक्षः प्राप्यते इति विश्वसिन्ति । अस्मिन् दिने पुष्करत्रयम् परितः प्रदक्षिणां करोति चेत् बहु पुण्यप्रदम् इत्यपि विश्वसिन्ति । अत्र संन्यासिनः साधवः च आगच्छन्ति अपि च एकादशीतः पूर्णिमापर्यन्तं गुहायां वसन्ति । पुष्करयात्रानिमित्तं सामान्यतः २,००,०००जनाः आगच्छन्ति । २५,०००उष्ट्राः अपि उपस्थिताः भवन्ति । पुष्करमेला एशियाखण्डे एव सुप्रसिद्धा उष्ट्राणां महामेलायाः स्थानम् । कार्त्तिकपूर्णिमादिने अस्मिन् पुण्यक्षेत्रे विद्यामाने सरोवरे अथवा पवित्रानद्यां पुण्यस्नानं पवित्रकरम् इति विश्वासः अस्ति । एतत् पुण्यस्नानं "कार्त्तिकस्नानम्” इति प्रसिद्धम् अस्ति । पुष्करे नो चेत् गङ्गानद्यां तत्रापि विशेषतया वारणास्यां पवित्रस्नानं करोति चेत् बहु श्रेयस्करम् इति परिगणयन्ति । वाराणास्याः गङगानद्यां स्नानं कर्तुं कार्त्तिकपूर्णिमादिनम् अत्यन्तं जनप्रियमस्ति । देवालये देवाताभ्यः अन्नं समर्पनस्य कार्यक्रमः अन्नकूटः प्रचलति ।पूर्णिमा दिनं अश्विनतः व्रतं स्वीकृत्य कार्त्तिक पूर्णिमा दिने समाप्तिं कुर्वन्ति । अस्मिन् दिने विष्णुं अपि पूजयन्ति । यत्किमपि प्राकारस्य दौर्जन्यं (हिंसा)अस्मिन् दिने निषिद्दमस्ति। क्षौर करणं ,केशकर्तनं ,वृक्षाणां कर्तनं ,फलं तथा पुष्पानां उत्पाटनं ,फलोदयस्य कर्तनंअपिच स्त्रि पुरुषयो मेलनं ,च अत्र अन्तर्भवति । दान कार्याणि तत्रापि गोदान ,ब्राह्मनेभ्यः अन्नदानं ,उपवसादि धार्मिक कार्यक्रमाण् कर्तुं सूचयिष्यन्ति । शिवाराधनानिमित्तं आरक्षित महाशिवरात्रि अनन्तरं ऎकमात्र पर्वः अस्ति त्रिपुर पूर्णिमा । त्रिपुरासुरं मारितस्य स्मरणार्थं शिवस्य प्रतिमां शोभायात्रां क्रियते । दक्षिण भरातस्य देवालयानां संकीर्णान् आरत्रौ प्रज्वालयन्ति। देवालयेषु दीपमालाः दीपानां गोपुरं प्रज्वालयन्ति ।जनाः मरणानन्तरं नरकतःउत्तार भवितुं ३६० अथवा७२० दीपान् देवालये ज्वालयन्ति। ७२०दीपस्य वर्तिकाः हिन्दूपञ्चाङ्गस्य ३६० दिनानां रात्रीणां च प्रतीकमस्ति । वारणास्यां नदीतटस्य स्नान- घट्टाः सहस्रदीपैः कान्तिं प्राप्नुवन्ति ।जनाः पुरोहितेभ्यः दीपान् दानरूपेण यच्छन्ति । दीपान् गृहेषु शिवदेवालयेषु च आरात्रौ प्रज्ज्वाल्य स्थापयन्ति । एतत् दिनं ‘‘कार्त्तिक दीपरत्न" इति कार्त्तिकमासस्य दीपानां रत्नाभरणम् इति वक्तुं शक्यते । दीपाः लघु नौकया प्लाव्यन्ते । तुलस्याः, अञ्जूरफलवृक्षस्य आमलकवृक्षस्य च अधोभागे दीपं स्थापयन्ति । जलचराः, कृमिकीटादयाः ,पक्षिणः वृक्षस्य अधोभागे स्थापितान् दीपान् दृष्ट्वा मोक्षं प्राप्नुवन्ति इति विश्वासः ।

जैनधर्मे

[सम्पादयतु]
पालिटानास्थितानि जैनमन्दिराणि

कार्त्तिकपूर्णिमा जैनेभ्यः अपि प्रमुखं दिनम् । ते अत्यन्तं प्रसिद्धं जैनयात्राकेन्द्रं पालिटाणां प्रति आगत्य उत्सवम् आचरन्ति । पवित्रयात्रां प्रति जनाः कार्त्तिकपूर्णिमायाः दिने पालिटाण- उपमण्डलस्य शत्रुञ्जयपर्वतस्य उपत्यकाम् आगत्य मिलन्ति ।श्रीशत्रुञ्जयतीर्थयात्रा इति कथ्यमाना एषा गतिः जैनभक्तादीनां जीवने प्रमुखधार्मिकघटना अस्ति । पर्वतस्य उपरि विद्यमानस्य आदिनाथभगवतः पूजार्थं पद्भ्यां २१६ कि.मी.दूरं यावत् कठिणपर्वतप्रदेशं क्रान्त्वा आगच्छन्ति । जैनेभ्यः अत्यन्तं पवित्रं दिनम् इति परिग्ण्यमानम् एतत् दिनं पर्वतं प्रति गमनस्य प्रामुख्यं प्राप्तमस्ति । तत्र कारणं नाम-- शीतकाले एतत् मन्दिरं पिहितं भवति । अस्मिन् दिने सार्वजनिकानां कृते उद्घाटितं भवति । वर्षाकालस्य चतुरः मासान् यावत् भक्ताः पूजां न कुर्वन्ति तदनन्तरं प्रथमदिने भक्तादीनां संख्या अधिका भवति । जैनधर्मानुगुणं प्रथमः तीर्थङ्करः आदिनाथः स्वस्य प्रथमं धर्मोपदेशं कर्तुम् एतत् पर्वतं प्रति आगत्य पर्वतं पावनं कृतवान् । जैन -पुराणानाम् अनुसारं लक्षशः साधवः साध्व्यः च अस्मिन् पर्वते मोक्षं प्राप्तवन्तः सन्ति ।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=कार्त्तिकपूर्णिमा&oldid=483046" इत्यस्माद् प्रतिप्राप्तम्