हनुमज्जयन्ती
चैत्रमासे एव रामनवम्याः अनन्तरम् आचर्यते हनुमज्जयन्ती । भक्तजनप्रियः बुधजनप्रियः बहुजनप्रियः च हनुमान् आञ्जनेयः, मारुतिः, महावीरः, प्राणदेवः इत्यादिभिः बहुभिः नामभिः सुप्रसिद्धः अस्ति । भारते विभिन्नेषु प्रदेशेषु विभिन्नेषु दिनेशु आचर्यते हनुमज्जयन्ती । कुत्रचित् चैत्रमासस्य शुक्लपक्षस्य पूर्णिमादिने आचर्यते चेत् कुत्रचित् कार्त्तिकमासस्य कृष्णपक्षस्य चतुर्दशीदिने आचर्यते । कुत्रचित् च मार्गशीर्षमासस्य शुक्लपक्षस्य त्रयोदशीदिने आचर्यते ।
परम्पराः
|
प्रवेशद्वारम्:सनातनधर्मः |
तद्दिने व्रतम् आचर्यमाणाः दिनपूर्णम् उपवासम् आचरन्ति । पूर्णतया उपवासकरणे अश्क्ताः फल-मूल-क्षीरादीनि सात्त्विकद्रव्याणि सेवन्ते । रात्रौ श्रीरामस्य पूजां कृत्वा दासश्रेष्ठस्य आञ्जनेयस्य पूजां कुर्वन्ति । चणक-गुडनिर्मितं नैवेद्यं समर्पयन्ति । पञ्चोपचार-षोडशोपचारयुतायां पूजायां विशेषेण आञ्ज्नेयस्य कृते पञ्चामृताभिषेकं कुर्वन्ति । पञ्चप्राणस्वरूपः अयं देवः अभिषेकप्रियः । रात्रौ सङ्गीतनृत्यकर्यक्रमाः आयोज्यन्ते । समग्रे ग्रामे शोभायात्रा भवति । कुत्रचित् मल्लविद्यायाः प्रदर्शनम् अपि भवति । केचन रात्रिपूर्णं जागरणम् अपि कुर्वन्ति । सर्वत्र रामायणस्य सुन्दरकाण्डस्य पारायणं प्रचलति । सुन्दरकाण्डं “हनुमद्विजयः” इत्येव प्रसिद्धम् ।
रामायणे हनुमता कृतानि समुद्रलङ्घनं, सीतान्वेषणं, राक्षसनिग्रहः, लङ्कादहनं, पर्वतानयनम् इत्यादीनि साहसकार्याणि अत्यन्तं रोचकाणि । हनुमतः मन्दिरं प्रतिग्रामं भवत्येव । जगतः प्रथमः सेवकः हनुमान् । “हनुमान् दास्ये च सखेऽर्जुनः” इत्येव प्रसिद्धम् ।
- “बुद्धिर्बलं यशो धैर्यं निर्भयत्वम् अरोगिता ।
- अजाड्यं वाक्पटुत्वं च हनुमत्स्मरणात् भवेत् ॥“
इत्ययं श्लोकः हनुमतः स्मरणमात्रेण बुद्धिः, बलं, यशः, धैर्यं, निर्भयत्वम्, अरोगिता, वाक्पटुत्वं च प्राप्यते इति वदति । हनुमान् सप्तचिरञ्जीविषु अन्यतमः अपि ।
- “अश्वत्थामा बलिर्व्यासः हनूमांश्च विभीषणः ।
- कृपः परशुरामश्च सप्तैते चिरञ्जीविनः ॥“