ज्येष्ठमासः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः



भारतीयकालमाने ज्येष्ठमासः तृतीयः भवति (मराठी - ज्येष्ठ, हिन्दी,नेपाली - जेठ /ज्येष्ठ)। ग्रीष्मर्तौ अयं मासः तिष्ठति । अस्मिन् मासे उष्णकालः भवति । अयं मासः मेमासस्य २१ तः जून्मासस्य २२ पर्यन्तं भवति । चान्द्रमानदिनदर्शिकायां ज्येष्ठमासः अमावास्यायाम् आरभ्यते । तमिळुभाषायाम् अयं मासः आनि इति कथ्यते । जून्मासस्य मध्यभागे आरभ्यते । सौरमानदिनदर्शिकायां ज्येष्ठ/आनिमासः सूर्यस्य मिथुनराशिप्रवेशावसरे आरप्स्यते । वैष्णवदिनदर्शिकायां त्रिविक्रमः अस्य मासस्य अधिपः ।

उत्सवाः[सम्पादयतु]

वटसावित्रीपूर्णिमा[सम्पादयतु]

महाराष्ट्रे कर्णाटके च आचर्यते । इदं पर्व ज्येष्ठमासस्य पूर्णिमायाम् आचर्यते यच्च ग्रेगोरियन्-दिनदर्शिकायां जून्मासे भविष्यति । अस्मिन् दिने महिलाः वटवृक्षे सूत्राणि बद्ध्वा पत्युः योगक्षेमाय प्रार्थयन्ति । सत्यवतः पत्नी सावित्री अस्मिन् एव दिवसे मरणात् पतिम् अरक्षत् । अतः तस्याः नाम्ना एव अस्ति ।

स्नानयात्रा[सम्पादयतु]

अस्मिन् दिने जगन्नाथसम्प्रदाये इदं स्नानपर्व आचर्यते । अस्मिन् दिने जगन्नाथदेवालये विद्यमानाः सर्वाः देवताः - जगन्नाथः, सुभद्रा, सुदर्शनः, मदनमोहनः च स्नानबेडिं प्रति शोभायात्राद्वारा आनीयते । तत्र सर्वेषां पुरतः शास्त्रोक्तरीत्या स्नानं कार्यते । अलङ्क्रियन्ते च ।

सितालषष्ठी[सम्पादयतु]

अस्य मासस्य शुद्धषष्ठीदिने ओरिस्साराज्ये इदं पर्व आचर्यते ।

"https://sa.wikipedia.org/w/index.php?title=ज्येष्ठमासः&oldid=408883" इत्यस्माद् प्रतिप्राप्तम्