दिवसः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

भारतीयकालमानस्य कश्चित् १२होरात्मकः घटकः । दिनं ,वासरः इति अस्य पर्यायानि । दिनस्य रात्र्युत्तरकालः इत्यपि भावः अस्ति ।

प्राण एवाहोरात्रस्वरूपे कालात्मकोऽस्ति । दिवसः प्राणरूपमेवास्ति रात्रिश्चापानरूपा अस्ति । प्रातः प्राण एव सर्वाणीन्द्रियाणि शरीरे प्रसारयति । प्रतननमिदं दृष्ट्वा लोकाः कथयन्ति ‘प्रातायि' अर्थात् प्रकर्षरूपेण प्राणः विस्तृतोऽभवत् । अनेनैव कारणेन दिवसारम्भकालः यस्मिन् प्राणस्य प्रसरणं दृग्गोचरीभवति सः ‘प्रातः' इति कथ्यते । दिवसावसाने इन्द्रियेषु सङ्कोचं परिदृश्यते । अनेनैव कारणेन तं कालं सायमित्युच्यते, तस्मिन् काले कथयति ‘सामगात्' इति । विकासहेतुना दिवसः प्राणरूपोऽस्ति तथा सङ्कोचनकारणेनैव रात्रिः अपानमस्ति । प्राणस्य ध्यानमनेन प्रकारेणाहोरात्ररूपे कर्तव्यम्।

  • एकः तृसरेणुः = ६ ब्रह्माण्डीयः अणुः ।
  • एका त्रुटिः = ३ तृसरेणवः, यः सैकिण्ड् इत्यस्य १/१६८७.५ भागः ।
  • एका वेधा =१०० त्रुटयः।
  • एका लावा = ३ वेधाः।
  • एकः निमेषः = ३ लावाः, अक्षिपटलस्य सहजनिमीलनोन्मूलनकालः ।
  • एकं क्षणम् = ३ निमेषाः।
  • एका काष्ठा = ५ क्षणानि = ८ सैकिण्ड्स् ।
  • एकं लघु =१५ काष्ठाः = २ मिनिट्स्।
  • एका नाड़ी (यस्य दण्डः इत्यपि वदन्ति ।) = १५ लघूनि
  • एकः मुहूर्तः = २ दण्डौ ।
  • एकः यामः (दिनस्य अथवा रात्रेः पादभागः) = ६ अथवा ७ मुहूर्ताः ।
  • एकं दिनम् अथवा एका रात्रिः = ४ यामाः अथवा प्रहराः
  • एकः यामः = ७.५ घट्यः।
  • अर्धदिवसः (दिनम् अथवा रात्रिः) = ८ यामाः ।

मूलम्[सम्पादयतु]

संस्कृतभाषायाः मूलम् एव अस्य शब्दस्य ।

अन्य अर्थ[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=दिवसः&oldid=425112" इत्यस्माद् पुनः प्राप्तिः