वेधः
पठन सेटिंग्स
अयं भारतीयकालमानस्य लाघुबिन्दुः अस्ति । अतिलघुकालावधितः एकवर्षपर्यन्तः कालः अत्र निरूपितः ।
- एकः तृसरेणुः = ६ ब्रह्माण्डीयः अणुः ।
- एका त्रुटिः = ३ तृसरेणवः, यः सैकिण्ड् इत्यस्य १/१६८७.५ भागः ।
- एका वेधा =१०० त्रुटयः।
- एका लावा = ३ वेधाः।
- एकः निमेषः = ३ लावाः, अक्षिपटलस्य सहजनिमीलनोन्मूलनकालः ।
- एकं क्षणम् = ३ निमेषाः।
- एका काष्ठा = ५ क्षणानि = ८ सैकिण्ड्स् ।
- एकं लघु =१५ काष्ठाः = २ मिनिट्स्।
- एका नाड़ी (यस्य दण्डः इत्यपि वदन्ति ।) = १५ लघूनि
- एकः मुहूर्तः = २ दण्डौ ।
- एकः यामः (दिनस्य अथवा रात्रेः पादभागः) = ६ अथवा ७ मुहूर्ताः ।
- एकं दिनम् अथवा एका रात्रिः = ४ यामाः अथवा प्रहराः
ऊष्णकटिबन्धीयं मापनम्
[सम्पादयतु]- एकः यामः = ७.५ घट्यः।
- अर्धदिवसः (दिनम् अथवा रात्रिः) = ८ यामाः ।
- एकम् अहोरात्रम् = नाक्षत्रीयः दिवसः (यः सूर्योदयात् आरब्धः भवति ।)
- एका तिथिः अयं समयः यस्मिन् सूर्यचन्द्रयोः मध्यस्य देशान्तरीयः कोणः द्वादशांशाः वर्धते । तिथयः दिवसस्य (२४होराः) कस्मिन् अपि समये आरब्धाः भवन्ति । अपि च कस्याशित् अपि तिथेः अवधिः १९ तः २० घण्टापर्यन्तं भवति ।
- एकः पक्षः = १५ तिथयः ।
- एकः मासः = २ पक्षौ ( पूर्णिमातः अमावस्यापर्यन्तः कालः कृष्णपक्षः; अमावस्यातः पुनः पूर्णिमापर्यन्तः कालः शुक्लपक्षः।
- एकः ॠतुः = २ मासौ ।
- एकम् अयनम् = ३ ॠतवः ।
- एकं वर्षम् = २ अयने ।
बाह्यानुबन्धाः
[सम्पादयतु][१] Archived २०१०-०९-०१ at the Wayback Machine [२] Archived २००८-१०-०६ at the Wayback Machine