युगम्
’युगम्’ भारतीयकालगणस्य निश्चितसङ्ख्यानां कश्चित् कालावधिः । कालस्य अङ्गविशेषरूपेण युगम् इति शब्दप्रयोगः ऋग्वेदे एव दृश्यते । किन्तु अस्य युगशब्दस्य परिमाण तत्र अस्फष्टः । ज्योतिष्यपुराणादिषु युगशब्दस्य परिमाणस्य युगधर्मस्य विषये सुविस्तारा चर्चा अस्ति । वेदाङ्गज्यौतिषे युगस्य विवरणं दृश्यते । एतत् युगं पञ्चसंवत्सरात्मकं भवति । कौटिल्यस्य अर्थशास्त्रे अस्य पञ्चसंवत्सरात्मकस्य युगस्य उल्लेखः अस्ति । महाभारतस्य एतत् युगं स्मृतम् अस्ति । शास्त्रकाराः शास्त्रीयस्य व्यावहारिकसिध्यर्थे अस्य युगस्य कल्पनां कृतवन्तः ।
युगस्य परिमाणा
[सम्पादयतु]मुख्यतया सत्ययुगं (कृतयुगम्) त्रेतायुगमं, द्वापरयुगमं, कलियुगं युगानि चत्वारि भवन्ति । एतेषां युगानाम् आधारेणैव मन्वन्तस्य कल्पस्य गणनं कृतम् । अपि च सन्ध्यांशेन सह १२००० वर्षपरिमतं भवति । चतुर्युगानां गणनं ४०००+३०००+१००० = १०००० वर्षाणि भवन्ति । सन्ध्यायाः ४००+३०० + २००+१०० वर्षाणि भवन्ति । युगानां परिणामः दिव्यवर्षे एवम् अस्ति । दिव्यवर्षम् = ३६०मानववर्षाणि भवन्ति । अतः १२००x ३६० = ४३२०००० वर्षाणि चतुर्युगाणां मानवपरिमाणः इति । तदनुगुणं सत्ययुगम् = १७२८०००वर्षाणि, त्रेतायुगम् = १२९६००० वर्षाणि, द्वापरयुगम् = ८६४०००वर्षाणि, कलियुगम् = ४३२०००वर्षाणि इति । ईदृषानां १००० चतुर्युगानां समूहस्य कल्पः नाम ब्रह्मणः आयुषः १००वर्षाणि । ७१ दिव्ययुगैः एकं मन्वन्तरं भवति ।
युगद्धरमः
[सम्पादयतु]युगधर्मस्य विस्तारः प्रतिदिनम् इतिहासपुराणेषु लभते । कस्मिन् काले चतुर्युगसम्बद्धाः पूर्वोक्ताः धारणाः प्रवृत्ताः भवन्ति । अस्मिन् विषये संशोधकानाम् अनुमानः एवम् अस्ति यत् क्रिस्तीये चतुर्थे शतके अस्य विवरणस्य पूर्णरुपं सिद्धम् आसीत् । विद्वासः कलियुगस्य आरम्भविषये विशिष्टं विचारं कृतवन्तः । तत्र केचन वदन्ति महाभारतस्य युद्धानन्तरम् अस्य कलियुगस्य आरम्भः अभवत् इति । अन्ये केचन वदन्ति कृष्णस्य निर्याणस्य अनन्तरं नाम द्रौपद्याः मरणदिनान्तरं कलेः प्रवेशः अभवत् इति ।